स शुक्रश्चोशना ख्यातः स्मृतः काव्योऽपि नामतः। पितॄणां मानसी कन्या सोमपानां यशस्विनी। शुक्रस्य भार्याङ्गी नाम विजज्ञे चतुरः सुतान् ।। ४.
ब्राह्मेण तेजसा युक्तः स चातो ब्रह्मवित्तमः। तस्यामेव तु चत्वारः पुत्राः शुक्रस्य जज्ञिरे ।। ४.
त्वष्टा वरूत्री द्वावेतौ शण्डामर्कौ च तावुभौ। ते तदादित्यसङ्काशा ब्रह्म कल्पाः प्रभावतः ।। ४.
रञ्जनः पृथुरश्मिश्च विद्वान्यश्च बृहद्गिराः। वरूत्रिणः सुता ह्येते ब्रह्मिष्ठाः सुरयाजकाः ।। ४.
इज्याधर्मविनाशार्थं मनुमेत्याभ्ययोजयन्। निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमब्रवीत् ।। ४.
एतैरेव तु कामं त्वां प्रापयिष्यामि याजनम्। श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद् देशादपाक्रमन् ।। ४.
तिरोभूतेषु तेष्विन्द्रो धर्मपत्नीञ्च चेतनाम्। ग्रहेण मोचयित्वा तु ततः सोऽनुससार ताम् ।। ४.
तत इन्द्रविनाशाय यतमानान् यतींस्तु तान् । तत्रागतान् पुनर्दृष्ट्वा दुष्टानिन्द्रः प्रहन्यतु। सुष्वाप देवदेवस्य वेद्यां वै दक्षिणे ततः ।। ४.
तेषान्तु भक्ष्यमाणानां तत्र शालावृकैः सह। शीर्षाणि न्यपतंस्तानि खर्जूराण्यभवंस्ततः ।। ४.
एवं वरूत्रिणः पुत्रा इन्द्रेण निहताः पुरा। यजन्यां देवयानी च शुक्रस्य दुहिताऽभवत् ।। ४.
त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रोऽभवन्महान्। विश्वरूपानुजश्चापि विश्वकर्मा यमः स्मृतः ।। ४.
भृगोस्तु भृगवो देवा जज्ञिरे द्वादशात्मजाः। देव्यां तान्सुषुवे सर्वान्काव्यश्चैवात्मजान्प्रभुः ।। ४.
भुवनो भावनश्चैव अन्यश्चान्यायतस्तथा। क्रतुःश्रवाश्च मूर्द्धा च व्यजयो व्यश्रुषश्च यः। प्रसव श्चाप्यजश्चैव द्वादशोऽधिपतिः स्मृतः ।। ४.
इत्येते भृगवो देवाः स्मृता द्वादश याज्ञिकाः । पौलोम्यजनयत्पुत्रं ब्रह्मिष्ठं वशिनं विभुम् ।। ४.
व्याधितः सोऽष्टमे मासि गर्भक्रूरेण कर्मणा। च्यवनाच्च्यवनासोऽथ चेतनस्तु प्रचेतसः। प्राचेतसाच्च्यवनक्रोधादध्वानं पुरुषादजः ।। ४.
जनयामास पुत्रौ द्वौ सुकन्यायाञ्च भार्गवः। आत्मवानं दधीचञ्च तावुभौ साधुसंमतौ ।। ४.
सारस्वतः सरस्वत्यां दधीचाच्चोपपद्यते। रुची पत्नी महाभागा आत्मवानस्य नाहुषी ।। ४.
तस्य ऊर्वोऋषिर्जज्ञे ऊरू भित्त्वा महायशाः । और्वश्चासीदृचीकस्तु दीप्ताग्निसदृशप्रभः ।। ४.
जमदग्निऋचीकस्य सत्यवत्यां व्यजायत। भृगोश्च रुचिपर्याये रौद्रवैष्णवयोस्तथा ।। ४.
जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत। रेणुका जमदग्नेस्तु शक्रतुल्यपराक्रमम्। ब्रह्मक्षत्रमयं रामं सुषुवेऽमिततेजसम् ।। ४.
और्वस्यासीत्पुत्रशतं जमदग्निपुरागेमम् । तेषां पुत्रसहस्राणि भार्गवाणां परस्परात् ।। ४.
ऋष्यन्तरेषु वै बाह्या बहवो भार्गवाः स्मृताः । वत्सो विश्वोऽश्विषेणश्च पाण्डः पथ्यः सशौनकः। गोत्रेण सप्तमा ह्येते पक्षा ज्ञेयास्तु भार्गवाः ।। ४.
श्रृणुताङ्गिरसो वंशमग्नेः पुत्रस्य धीमतः। यस्यान्ववाये सम्भूता भारद्वाजाः सगौतमाः। देवाश्चाङ्गिरसो मुख्यास्त्विषुमन्तो महौजसः ।। ४.
सुरूपा चैव मारीची कार्द्दमी च तथा स्वराट्। पथ्या च मानवी कन्या तिस्रो भार्यास्त्वथर्वणः। इत्येताङ्गिरसः पत्न्यस्तासु वक्ष्यामि सन्ततिम् ।। ४.
अथर्वणस्तु दायादास्तासु जाताः कुलोद्वहाः। उत्पन्ना महता चैव तपसा भावितात्मनाम् ।। ४.
बृहस्पतिः सुरूपायां गौतमः सुषुवे स्वराट्। अवन्ध्यं वामदेवञ्च उतथ्यमुशिजन्तथा ।। ४.
धिष्णुः पुत्रस्तु पथ्यायां संवर्तश्चैव मानसः। विचित्तश्च तथायस्यः शरद्वांश्चाप्युतथ्यजः ।। ४.
अशिजो दीर्घतमा बृहदुत्थो वामदेवजः। धिष्णुः पुत्राः सुधन्वान ऋषभश्च सुधन्वनः।।४.१०२ रथकाराः स्मृता देवा ऋषयो ये परिश्रुताः। बृहस्पतेर्भरद्वाजो विश्रुतः सुमहायशाः ।। ४.
अङ्गिरसस्तु संवर्त्तो देवानङ्गिरसः श्रृणु। बृहस्पतेर्यवीयांसो देवा ह्यङ्गिरसः स्मृताः ।। ४.
औरसाङ्गिरसः पुत्राः सुरूपायां विजज्ञिरे। औदार्यायुर्दनुर्दक्षो दर्भः प्राणस्तथैव च। हविष्मांश्च हविष्णुश्च क्रतुः सत्यश्च ते दश ।। ४.