एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः। तेनाहं व्याकुलः पुत्रि कृतो धृतिमता दृढम् ।। ३५.
गच्छ सम्भावयस्वैनं श्रमापनयनैः शुभैः। तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ।। ३५.
देवी सा हीन्द्रतुहिता जयन्ती शुभचारिणी। युक्तध्यानञ्च शाम्यं तं दुर्बलं धृतिमास्थितम् ।। ३५.
पित्रा यथोक्तं काव्यं सा काव्ये कृतवती तदा। गीर्भिश्चैवानुकूलाभिः स्तुवती वल्गुभाषिणी ।। ३५.
गात्रसंवाहनैः काले सेवमाना सुखावहैः । शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ।। ३५.
पूर्णे धूमव्रते चापि घोरे वर्षसहस्रिके । वरेण च्छन्दयामास काव्यं प्रीतोऽभवत्तदा ।। ३५.
एवं ब्रुवंस्त्वयैकेन चीर्णं नान्येन केनचित्। तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च ।। ३५.
तेजसा चापि विबुधान् सर्वानभिभविष्यसि। यच्च किञ्चिन्मम ब्रह्मन् विद्यते भृगुनन्दन ।। ३५.
साङ्गञ्च सरहस्यञ्च यज्ञोपनिषदान्तथा। प्रतिभास्यति ते सर्वं तच्चाद्यन्तं न कस्यचित् ।। ३५.
सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि। एवं दत्त्वा वरांस्तस्मै भार्गवाय पुनः पुनः ।। ३५.
अजेयत्वं धनेशत्वमवध्यत्वं च वै ददौ। एतान् लब्ध्वा वरान् काव्यः सम्प्रहृष्टतनूरुहः ।। ३५.
हर्षात् प्रादुर्बभौ तस्य देवस्तोत्रं महेश्वरम्। तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् ।। ३५.
नमोऽस्तु शितिकण्ठाय सुरापाय सुवर्चसे। रिरिहाणाय लोपाय वत्सराय जगत्पते ।। ३५.
कपर्दिने ह्यूर्द्ध्वरोम्णे हयाय करणाय च। संस्कृताय सुतीर्थाय देवदेवाय रंहसे ।। ३५.
उष्णीषिणे सुवक्राय सहस्राक्षाय मीढुषे। वसुरेताय रुद्राय तपसे चीरवाससे ।। ३५.
ह्रस्वाय मुक्तकेशाय सेनान्ये रोहिताय च ।। ३५.
कवये राजवृद्धाय तक्षकक्रीडनाय च। गिरिशायार्कनेत्राय यतिने जाम्बवाय च। सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च ।। ३५.
सहस्रबाहवे चैव सहस्रामलचक्षुषे। सहस्रकुक्षये चैव सहस्रचरणाय च ।। ३५.
सहस्रशिरसे चैव बहुरूपाय वेधसे। भवाय विश्वरूपाय श्वेताय पुरुषाय च ।। ३५.
निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च। ताम्राय चैव भीमाय उग्राय च शिवाय च ।। ३५.
बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च। महादेवाय शर्व्वाय विश्वरूपशिवाय च ।। ३५.
हिरण्याय च शिष्टाय श्रेष्ठाय मध्यमाय च । पिनाकिने चेषुमते चित्राय रोहिताय च ।। ३५.
दुन्दुभ्यायैकपादाय अर्हाय बुद्धये तथा। मृगव्याधाय सर्पाय स्थाणवे भीषणाय च ।। ३५.
बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च। कपिलायैकवीराय मृत्यवे त्र्यम्बकाय च ।। ३५.
वास्तोष्पते विनाकाय शङ्कराय शिवाय च। आरण्याय गुहस्थाय यतिने ब्रह्मचारिणे ।। ३५.
साङ्ख्याय चैव योगाय ध्यानिने दीक्षिताय च। अन्तर्हिताय शर्व्वाय मान्याय मालिने तथा ।। ३५.
बुद्धाय चैव पुण्याय धार्मिकाय शुभाय च। रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये ।। ३५.
चतुष्पादाय मेध्याय धर्मिणे शीघ्रगाय च। शिखण्डिने कपालाय दंष्ट्रिणे विश्वमेधसे ।। ३५.
अप्रतीघाताय दीप्ताय भास्कराय सुमेधसे। क्रूराय विकृतायैव बीभत्साय शिवाय च ।। ३५.
सौम्याय चैव पुण्याय धार्मिकाय शुभाय च। अवध्याय मृताङ्गाय नित्याय शाश्वताय च ।। ३५.