तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरीश्वरः। ततोऽभिशस्तो भृगुणा विष्णुर्भार्यावधे तदा ।। ३५.
यस्मात्ते जानता धर्मानवध्या स्त्री निषूदिता। तस्मात्त्वं सप्तकृत्वो वै मानुषेषु प्रपत्स्यसि ।। ३५.
ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः। लोके सर्वहितार्थाय जायते मानुषेष्विह ।। ३५.
अनुव्याहृत्य विष्णुं स तदादाय शिरः स्वयम्। समानीय ततः काये अपो गृह्येदमब्रवीत् ।। ३५.
एष त्वां विष्णुना सत्ये हतां संजीवयाम्यहम् । यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा। तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ।। ३५.
सत्याभिव्याहृता तस्या देवी संजीविता तदा। तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् ।। ३५.
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव। साधु साध्वित्यदृश्यानां वाचस्ताः सस्वरुर्दिशः ।। ३५.
दृष्ट्वा सञ्जीवितामेवं देवीं तां भृगुणा तदा। मिषतां सर्वभूतानां तदद्भुतमिवाभवत् ।। ३५.
असंभ्रान्तेन भृगुणा पत्नीं सञ्जीवितां ततः। दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः ।। ३५.
प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम्। प्रोवाच मतिमान् वाक्यं स्वां कन्यां पाकशासनः ।। ३५.
एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः। तेनाहं व्याकुलः पुत्रि कृतो धृतिमता दृढम् ।। ३५.
गच्छ सम्भावयस्वैनं श्रमापनयनैः शुभैः। तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ।। ३५.
देवी सा हीन्द्रतुहिता जयन्ती शुभचारिणी। युक्तध्यानञ्च शाम्यं तं दुर्बलं धृतिमास्थितम् ।। ३५.
पित्रा यथोक्तं काव्यं सा काव्ये कृतवती तदा। गीर्भिश्चैवानुकूलाभिः स्तुवती वल्गुभाषिणी ।। ३५.
गात्रसंवाहनैः काले सेवमाना सुखावहैः । शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ।। ३५.
पूर्णे धूमव्रते चापि घोरे वर्षसहस्रिके । वरेण च्छन्दयामास काव्यं प्रीतोऽभवत्तदा ।। ३५.
एवं ब्रुवंस्त्वयैकेन चीर्णं नान्येन केनचित्। तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च ।। ३५.
तेजसा चापि विबुधान् सर्वानभिभविष्यसि। यच्च किञ्चिन्मम ब्रह्मन् विद्यते भृगुनन्दन ।। ३५.
साङ्गञ्च सरहस्यञ्च यज्ञोपनिषदान्तथा। प्रतिभास्यति ते सर्वं तच्चाद्यन्तं न कस्यचित् ।। ३५.
सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि। एवं दत्त्वा वरांस्तस्मै भार्गवाय पुनः पुनः ।। ३५.
अजेयत्वं धनेशत्वमवध्यत्वं च वै ददौ। एतान् लब्ध्वा वरान् काव्यः सम्प्रहृष्टतनूरुहः ।। ३५.
हर्षात् प्रादुर्बभौ तस्य देवस्तोत्रं महेश्वरम्। तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् ।। ३५.
नमोऽस्तु शितिकण्ठाय सुरापाय सुवर्चसे। रिरिहाणाय लोपाय वत्सराय जगत्पते ।। ३५.
कपर्दिने ह्यूर्द्ध्वरोम्णे हयाय करणाय च। संस्कृताय सुतीर्थाय देवदेवाय रंहसे ।। ३५.
उष्णीषिणे सुवक्राय सहस्राक्षाय मीढुषे। वसुरेताय रुद्राय तपसे चीरवाससे ।। ३५.
ह्रस्वाय मुक्तकेशाय सेनान्ये रोहिताय च ।। ३५.
कवये राजवृद्धाय तक्षकक्रीडनाय च। गिरिशायार्कनेत्राय यतिने जाम्बवाय च। सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च ।। ३५.
सहस्रबाहवे चैव सहस्रामलचक्षुषे। सहस्रकुक्षये चैव सहस्रचरणाय च ।। ३५.
सहस्रशिरसे चैव बहुरूपाय वेधसे। भवाय विश्वरूपाय श्वेताय पुरुषाय च ।। ३५.
निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च। ताम्राय चैव भीमाय उग्राय च शिवाय च ।। ३५.