अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम्। तांस्त्रस्तान् वध्यमानांश्च देवैर्दृष्ट्वासुरांस्तदा ।। ३५.
देवी क्रुद्धाब्रवीदेनाननिन्द्रत्वं करोम्यहम्। संस्तभ्य शीघ्रं संरम्भादिन्द्रं साऽभ्यचरत्ततः ।। ३५.
ततः संस्तम्भितं दृष्ट्वा शक्रंदेवास्तु यूपवत्। व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् ।। ३५.
गतेषु सुरसङ्घेषु विष्णुरिन्द्रमभाषत। मांत्वं प्रविश भद्रन्ते नेष्यामि त्वां सुरेश्वर ।। ३५.
एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः। विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत् ।। ३५.
एषा त्वां विष्णुना सार्द्धं दहामि मघवानिव। मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ।। ३५.
तयाभिभूतौ तौ देवाविन्द्रविष्णू जजल्पतुः। कथं मुच्येव सहितौ विष्णुरिन्द्रमभाषत ।। ३५.
इन्द्रोऽब्रवीज्जहि ह्येनां यावन्नौ न दहेद्विभो। विशेषेणाभिभूतोऽहमतस्त्वञ्च हि मा चिरम् ।। ३५.
ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्त्तुमास्थितः। अभिध्याय ततश्चक्रमापन्नः सत्वरं प्रभुः ।। ३५.
तस्याः सत्वरमाणायाः शीघ्रकारी सुरारिहा। स्त्रिया विष्णुस्ततो देव्या क्रूरं बुद्ध्वा चिकीर्षितम्। क्रुद्धस्तदस्त्रमाविद्ध्य शिरश्चिच्छेद माधवः ।। ३५.
तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरीश्वरः। ततोऽभिशस्तो भृगुणा विष्णुर्भार्यावधे तदा ।। ३५.
यस्मात्ते जानता धर्मानवध्या स्त्री निषूदिता। तस्मात्त्वं सप्तकृत्वो वै मानुषेषु प्रपत्स्यसि ।। ३५.
ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः। लोके सर्वहितार्थाय जायते मानुषेष्विह ।। ३५.
अनुव्याहृत्य विष्णुं स तदादाय शिरः स्वयम्। समानीय ततः काये अपो गृह्येदमब्रवीत् ।। ३५.
एष त्वां विष्णुना सत्ये हतां संजीवयाम्यहम् । यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा। तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ।। ३५.
सत्याभिव्याहृता तस्या देवी संजीविता तदा। तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् ।। ३५.
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव। साधु साध्वित्यदृश्यानां वाचस्ताः सस्वरुर्दिशः ।। ३५.
दृष्ट्वा सञ्जीवितामेवं देवीं तां भृगुणा तदा। मिषतां सर्वभूतानां तदद्भुतमिवाभवत् ।। ३५.
असंभ्रान्तेन भृगुणा पत्नीं सञ्जीवितां ततः। दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः ।। ३५.
प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम्। प्रोवाच मतिमान् वाक्यं स्वां कन्यां पाकशासनः ।। ३५.
एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः। तेनाहं व्याकुलः पुत्रि कृतो धृतिमता दृढम् ।। ३५.
गच्छ सम्भावयस्वैनं श्रमापनयनैः शुभैः। तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ।। ३५.
देवी सा हीन्द्रतुहिता जयन्ती शुभचारिणी। युक्तध्यानञ्च शाम्यं तं दुर्बलं धृतिमास्थितम् ।। ३५.
पित्रा यथोक्तं काव्यं सा काव्ये कृतवती तदा। गीर्भिश्चैवानुकूलाभिः स्तुवती वल्गुभाषिणी ।। ३५.
गात्रसंवाहनैः काले सेवमाना सुखावहैः । शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ।। ३५.
पूर्णे धूमव्रते चापि घोरे वर्षसहस्रिके । वरेण च्छन्दयामास काव्यं प्रीतोऽभवत्तदा ।। ३५.
एवं ब्रुवंस्त्वयैकेन चीर्णं नान्येन केनचित्। तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च ।। ३५.
तेजसा चापि विबुधान् सर्वानभिभविष्यसि। यच्च किञ्चिन्मम ब्रह्मन् विद्यते भृगुनन्दन ।। ३५.
साङ्गञ्च सरहस्यञ्च यज्ञोपनिषदान्तथा। प्रतिभास्यति ते सर्वं तच्चाद्यन्तं न कस्यचित् ।। ३५.
सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि। एवं दत्त्वा वरांस्तस्मै भार्गवाय पुनः पुनः ।। ३५.