ततो देवाः सुसंरब्धा दानवानभिसृत्य वै। जध्नुस्तै र्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः ।। ३५.
ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान्। समरेऽक्त्रक्षतार्त्तांस्तान् देवेभ्यस्तान् दितेः सुतान् ।। ३५.
काव्यो दृष्ट्वा स्थितान् देवान् तत्र देवोऽभ्यचिन्तयत्। तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन् ।। ३५.
त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिः क्रमैः । बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ।। ३५.
महार्हेषु द्वादशसु संग्रामेषु सुरैर्हताः। तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः ।। ३५.
किञ्चिच्छिष्टास्तु वै यूयं युद्धेष्वन्त्येषु वै स्वयम्। नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम् ।। ३५.
यास्याम्यहं महादेवं मन्त्रार्थे विजयाय वः। अग्निमाप्याययेद्धोता मन्त्रैरेव बृहस्पतिः ।। ३५.
ततो यास्याम्यहं देवं मन्त्रार्थे नीललोहितम्। युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः ।। ३५.
यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने। न वै देवा वधिष्यन्ति यावदागमनं मम ।। ३५.
अप्रतीपांस्ततो मन्त्रान् देवात् प्राप्य महेश्वरात्। योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् ।। ३५.
ततस्ते कृतसंवादा देवानूचुस्ततोऽसुराः। न्यस्तवादा वयं सर्वे लोकान् यूयं क्रमन्तु वै ।। ३५.
वयं तपश्चरिष्यामः संवृता वल्कलैर्वने। प्रह्लादस्य वचः श्रुत्वा सत्यव्याहरणं तु तत् ।। ३५.
ततो देवा निवृत्ता वै विज्वरा मुदिताश्च ह। न्यस्तशस्त्रेषु दैत्येषु स्वान् वै जग्मुर्यथागतान् ।। ३५.
ततस्तानब्रवीत्काव्यः कञ्चित्कालमुपास्यताम्। निरुत्सुकैस्तपोयुक्तैः कालं कार्यार्थसाधकैः। पितुर्ममाश्रमस्था वै सर्वे देवाः सवासवाः ।। ३५.
स सन्दिश्यासुरान् काव्यो महादेवं प्रपद्य च। प्रणम्येनसुवाचाथ जगत्प्रभवमीश्वरम् ।। ३५.
मन्त्रानिच्छाम्यहं देव मे नसन्ति बृहस्पतौ। पराभवाय देवानामसुरेष्वभयावहान् ।। ३५.
एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छसि वै द्विज। व्रतं चर मयो द्दिष्टं ब्रह्मचारी समाहितः ।। ३५.
पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्शिराः। यद्युपास्यसि भद्रन्ते मत्तो मन्त्रमवाप्स्यसि ।। ३५.
तथोक्तो देव देवेन स शुक्रस्तु महातपाः। पादौ संस्पृश्य देवस्य बाढमित्यभ्यभाषत ।। ३५.
व्रतं चराम्यहं शेषं यथोद्दिष्टोऽस्मि वै प्रभो। ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत् ।। ३५.
असुराणां हितार्थाय तस्मिञ्छुक्रे गते तदा। मन्त्रार्थं तत्र वसति ब्रह्मचर्ये महेश्वरः ।। ३५.
तद्बुद्ध्वा नातिपूर्वन्तु राज्यं न्यस्तं तदासुरैः। तस्मिञ्छिद्रे तदामर्षा देवास्तान् समभिद्रवन्। निशितात्तायुधाः सर्वे बृहस्पतिपुरोगमाः ।। ३५.
दृष्ट्वासुरगणा देवान् प्रगृहीतायुधान् पुनः। उत्पेतुः सहसा सर्वे सन्त्रस्तास्ते ततोऽभवन् ।। ३५.
न्यस्तशस्त्रे जये दत्ते आचार्यव्रतमास्थिते। सन्त्यज्य. समयं देवास्ते सपत्नजिघांसवः ।। ३५.
अनाचार्यास्तु भद्रं वो विश्वस्तास्तपसि स्थिताः। चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः ।। ३५.
रणे विजेतुं देवान् वै नशक्ष्यामः कथञ्चन। अशुद्धेन प्रपद्यामः शरणं काव्यमातरम् ।। ३५.
ज्ञापयामस्ततमिदं यावदागमनं गुरोः। विनिवृत्ते ततः काव्ये योत्स्यामो युधि तान् सुरान् ।। ३५.
एवमुक्त्वा सुरान् योग्यं शरणं काव्यमातरम्। प्रापद्यन्त ततो भीतास्तदा चैव तदाऽभयम् ।। ३५.
दत्तन्तेषान्तु भीतानां दैत्या नामभयार्थिनाम्। न भेतव्यं न भेतव्य भयन्त्यजत दानवाः ।। ३५.
मत्सन्निधौ वर्ततां वो न भीर्भवितुमर्हति। भयाच्चाप्यभिपन्नांस्तान् दृष्ट्वा देवासुरांस्तदा ।। ३५.