बले राज्याधिकारस्तु यावत्कालं बभूव ह। प्रह्लादेन गृहीतोऽभूत्तावत्कालं तदासुरैः ।। ३५.
इन्द्रास्त्रयस्ते विख्याता असुराणां महौजसः । दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल ।। ३५.
असपत्नं ततः सर्वं राष्ट्रं दशयुगं पुरा। त्रैलोक्यमव्ययमिदं महेन्द्रेण तु पाल्यते ।। ३५.
प्रह्लादस्य ततश्चादस्त्रैलोक्यं कालपर्ययात् । पर्यायेण च संप्राप्ते त्रैलोक्ये पाकशासनः ।। ३५.
ततोऽसुरान् परित्यज्य यज्ञे देवा उपागमन् । यज्ञे देवानथ गते काव्यं ते ह्यसुराब्रुवन् ।। ३५.
कृतं नो मिषतां राष्ट्रं त्यक्त्वा यज्ञं पुनर्गताः। स्थातुं न शक्नुमो ह्यद्य प्रविशामो रसातलम् ।। ३५.
एवमुक्तोऽब्रवीदेतान् विषण्णः सान्त्वयन् गिरा। माभैष्ट धारयिष्यामि तेजसा स्वेन चासुराः ।। ३५.
वृष्टिरोषधयश्चैव रसा वसु च यद्वयम्। कृत्स्ना मयि च तिष्ठन्ति पादस्तेषां सुरेषु वै। युष्मदर्थं प्रदास्यामि तत्सर्वं धार्यते मया ।। ३५.
ततो देवासुरान् दृष्ट्वा धृतान् काव्येन धीमता। अमन्त्रयंस्तदा ते वै संविग्ना विजिगीषया ।। ३५.
एष काव्य इदं सर्वं व्यावर्त्तयति नो बलात् । साधु गच्छामहे तूर्णं क्षीणान्नाप्याययस्व तान् । प्रसह्य हत्वा शिष्टान् वै पातालं प्रापयामहे ।। ३५.
ततो देवाः सुसंरब्धा दानवानभिसृत्य वै। जध्नुस्तै र्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः ।। ३५.
ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान्। समरेऽक्त्रक्षतार्त्तांस्तान् देवेभ्यस्तान् दितेः सुतान् ।। ३५.
काव्यो दृष्ट्वा स्थितान् देवान् तत्र देवोऽभ्यचिन्तयत्। तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन् ।। ३५.
त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिः क्रमैः । बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ।। ३५.
महार्हेषु द्वादशसु संग्रामेषु सुरैर्हताः। तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः ।। ३५.
किञ्चिच्छिष्टास्तु वै यूयं युद्धेष्वन्त्येषु वै स्वयम्। नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम् ।। ३५.
यास्याम्यहं महादेवं मन्त्रार्थे विजयाय वः। अग्निमाप्याययेद्धोता मन्त्रैरेव बृहस्पतिः ।। ३५.
ततो यास्याम्यहं देवं मन्त्रार्थे नीललोहितम्। युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः ।। ३५.
यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने। न वै देवा वधिष्यन्ति यावदागमनं मम ।। ३५.
अप्रतीपांस्ततो मन्त्रान् देवात् प्राप्य महेश्वरात्। योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् ।। ३५.
ततस्ते कृतसंवादा देवानूचुस्ततोऽसुराः। न्यस्तवादा वयं सर्वे लोकान् यूयं क्रमन्तु वै ।। ३५.
वयं तपश्चरिष्यामः संवृता वल्कलैर्वने। प्रह्लादस्य वचः श्रुत्वा सत्यव्याहरणं तु तत् ।। ३५.
ततो देवा निवृत्ता वै विज्वरा मुदिताश्च ह। न्यस्तशस्त्रेषु दैत्येषु स्वान् वै जग्मुर्यथागतान् ।। ३५.
ततस्तानब्रवीत्काव्यः कञ्चित्कालमुपास्यताम्। निरुत्सुकैस्तपोयुक्तैः कालं कार्यार्थसाधकैः। पितुर्ममाश्रमस्था वै सर्वे देवाः सवासवाः ।। ३५.
स सन्दिश्यासुरान् काव्यो महादेवं प्रपद्य च। प्रणम्येनसुवाचाथ जगत्प्रभवमीश्वरम् ।। ३५.
मन्त्रानिच्छाम्यहं देव मे नसन्ति बृहस्पतौ। पराभवाय देवानामसुरेष्वभयावहान् ।। ३५.
एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छसि वै द्विज। व्रतं चर मयो द्दिष्टं ब्रह्मचारी समाहितः ।। ३५.
पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्शिराः। यद्युपास्यसि भद्रन्ते मत्तो मन्त्रमवाप्स्यसि ।। ३५.
तथोक्तो देव देवेन स शुक्रस्तु महातपाः। पादौ संस्पृश्य देवस्य बाढमित्यभ्यभाषत ।। ३५.
व्रतं चराम्यहं शेषं यथोद्दिष्टोऽस्मि वै प्रभो। ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत् ।। ३५.