श्रोतुमिच्छामहे विष्णोः कर्म्माणि च यथाक्रमम्। आश्चर्य्याणि परं विष्णुर्वेददेवैश्च कथ्यते ।। ३५.
विष्णोरुत्पत्तिमाश्चर्य्यं कथयस्व महामते। एतदाश्चर्य्यमाख्यानं कथ्यतां वै सुखावहम् ।। ३५.
प्रख्यातबलवीर्य्यस्य प्रादुर्भावा महात्मनः। कर्म्मणाश्चर्य्यभूतस्य विष्णोः सत्त्वमिहोच्यताम् ।। ३५.
अहञ्च कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः। यथा स भगवाञ्जातो मानुषेषु महातपाः ।। ३५.
सप्तसप्ततपः प्रोक्ता भृगुशापेन मानुषे। जायते च युगान्तेषु देवकार्य्यर्थसिद्धये ।। ३५.
तस्य दिव्यतनुं विष्णोर्गदतो मे निबोधत। युगधर्म्मे परावृत्ते काले च शिथिले प्रभुः ।। ३५.
कर्तुं धर्म्मव्यवस्थानं जायते मानुषेष्विह। भृगोः शापनिमित्तेन देवासुरकृतेन च ।। ३५.
कथं देवासुरकृते अध्याहारमवाप्नुयात्। एतद्वेदितुमिच्छामो वृत्तं दैवासुरं कथम् ।। ३५.
दैवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत। हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक् प्रशासति ।। ३५.
बलिनाधिष्ठितं राष्ट्रं पुनर्लोकत्रये क्रमात्। सख्यमासीत्परं तेषां देवानामसुरैः सह ।। ३५.
युगं वै दशसङ्कीर्णमासीदव्याहतं जगत्। निदेशस्थायिनश्चैव तयोर्देवासुराभवन् ।। ३५.
बलवान् वै विवादोऽयं संप्रवृत्तः सुदारुणः। देवासुराणां च तदा घोरक्षयकरो महान् ।। ३५.
तेषां दायनिमित्तं वै संग्राणा बहवोऽभवन्। वाराहेऽस्मिन् दश द्वौ च षण्डामार्कोत्तराः स्मृता ।। ३५.
नामतस्तु समासेन श्रृणुध्वं तान् विवक्षतः। प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ।। ३५.
तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्धनः। संग्रामः पञ्चमश्चैव सुघोरस्तारकामयः ।। ३५.
षष्ठो ह्याडीबकस्तेषां सप्तमस्त्रैपुरः स्मृतः। अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः ।। ३५.
वार्त्तश्च दशमो ज्ञेयस्ततो हाला हलः स्मृतः। स्मृतो द्वादशमस्तेषां घोरकोलाहलोऽपरः ।। ३५.
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः। वामनेन बलिर्वद्धस्त्रैलोक्याक्रमणे कृते ।। ३५.
हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे तु दैवतैः। महाबलो महासत्त्वः संग्रामेष्वपराजितः ।। ३५.
दंष्ट्रायान्तु वराहेण समुद्राद्भूर्यदा कृता । प्राह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने ।। ३५.
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः। इन्द्रेणैव स विक्रम्य निहतस्तारकामये ।। ३५.
भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः। सञ्जभो निहतः षष्ठे शक्राविष्टेन विष्णुना ।। ३५.
अशक्नुवन्तो देवेषु पुरं गोप्तुं त्रिदैवतम् । निहता दानवाः सर्वे त्रिपुरस्त्र्यम्बकेण तु ।। ३५.
अष्टमे त्वसुराश्चैवं राक्षसाश्चान्धकारकाः। जितदेवमनुष्यैस्तु पितृभिश्चैव सङ्गतान् ।। ३५.
संवृतान् दानवांश्चैव सङ्गतान् कृत्स्नशश्च तान् । तथा विष्णुसहायेन महेन्द्रेण निबर्हिताः ।। ३५.
हतो ध्वजो महेन्द्रेण मायाच्छन्नश्च योधयन्। ध्वजे लक्ष्यं समाविश्य विप्रवर्त्तिर्महाभुजः ।। ३५.
दैत्यांश्च दानवांश्चैव संहतान् कृत्स्नशश्च तान्। रजिः कोलाहले सर्वान् देवैः परिवृतोऽजयत्। यज्ञामृतेन विजितौ षण्डामार्कौ तु दैवतैः ।। ३५.
एते दैवासुरा वृत्ताः संग्रामा द्वादशैव तु। देवासुरक्षयकराः प्रजानामशिवाय च ।। ३५.
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ। तथा शतसहस्राणि ह्यदिकानि द्विसप्ततिः । अशीतिं च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत् ।। ३५.
पर्याये तस्य राजाऽनु बलिर्वर्षार्बुदं पुनः । षष्टिं चैव सहस्राणि त्रिंशतं नियुतानि च ।। ३५.