नाबिकोष्ठान्तरं यत्तु तत्र देवो हुताशनः। मनः प्रजापतिर्ज्ञेयं कफः सोमो विभाव्यते ।। ३५.
पित्तमग्निः स्मृतावेतावग्निसोमात्मकं जगत्। एवं प्रवर्त्तितो गर्भो वर्त्ततेऽम्बुदसन्निभः ।। ३५.
वायुः प्रवेशनं चक्रे सङ्गतः परमात्मना। स पञ्चधा शरीरस्थो विद्यते वर्द्धयेत् पुनः ।। ३५.
प्राणापानौ समानश्च उदानो व्यान एव च। प्राणोऽस्य परमात्मानं वर्द्धयन् परिवर्त्तते ।। ३५.
अपानः पश्चिमं कायमुदानोर्द्ध्वशरीरगः। व्यानो व्यानस्यते येन समानः सर्व्वसन्धिषु ।। ३५.
भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरा। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।। ३५.
सर्व्वेन्द्रिया निविष्टास्तं स्वं स्वं योगं प्रचक्रिरे। पार्थिवं देहमाहुस्तं प्राणात्मानं च मारुतम् ।। ३५.
छिद्राण्याकाशयोनीनि जलास्रावं प्रवर्त्तते । तेजश्चक्षुःष्विता ज्योत्स्ना तेषां यन्नामतः स्मृतम्। सङ्ग्रामा विषयाश्चैव यस्य वीर्य्यात्प्रवर्त्तिताः ।। ३५.
इत्येतान् पुरुषः सर्व्वान् सृजँल्लोकान् सनातनः। नैधनेऽस्मिन् कथं लोके नरत्वं विष्णुरागतः ।। ३५.
एष नः संशयो धीमन्नेष वै विस्मयो महान् । कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् ।। ३५.
श्रोतुमिच्छामहे विष्णोः कर्म्माणि च यथाक्रमम्। आश्चर्य्याणि परं विष्णुर्वेददेवैश्च कथ्यते ।। ३५.
विष्णोरुत्पत्तिमाश्चर्य्यं कथयस्व महामते। एतदाश्चर्य्यमाख्यानं कथ्यतां वै सुखावहम् ।। ३५.
प्रख्यातबलवीर्य्यस्य प्रादुर्भावा महात्मनः। कर्म्मणाश्चर्य्यभूतस्य विष्णोः सत्त्वमिहोच्यताम् ।। ३५.
अहञ्च कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः। यथा स भगवाञ्जातो मानुषेषु महातपाः ।। ३५.
सप्तसप्ततपः प्रोक्ता भृगुशापेन मानुषे। जायते च युगान्तेषु देवकार्य्यर्थसिद्धये ।। ३५.
तस्य दिव्यतनुं विष्णोर्गदतो मे निबोधत। युगधर्म्मे परावृत्ते काले च शिथिले प्रभुः ।। ३५.
कर्तुं धर्म्मव्यवस्थानं जायते मानुषेष्विह। भृगोः शापनिमित्तेन देवासुरकृतेन च ।। ३५.
कथं देवासुरकृते अध्याहारमवाप्नुयात्। एतद्वेदितुमिच्छामो वृत्तं दैवासुरं कथम् ।। ३५.
दैवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत। हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक् प्रशासति ।। ३५.
बलिनाधिष्ठितं राष्ट्रं पुनर्लोकत्रये क्रमात्। सख्यमासीत्परं तेषां देवानामसुरैः सह ।। ३५.
युगं वै दशसङ्कीर्णमासीदव्याहतं जगत्। निदेशस्थायिनश्चैव तयोर्देवासुराभवन् ।। ३५.
बलवान् वै विवादोऽयं संप्रवृत्तः सुदारुणः। देवासुराणां च तदा घोरक्षयकरो महान् ।। ३५.
तेषां दायनिमित्तं वै संग्राणा बहवोऽभवन्। वाराहेऽस्मिन् दश द्वौ च षण्डामार्कोत्तराः स्मृता ।। ३५.
नामतस्तु समासेन श्रृणुध्वं तान् विवक्षतः। प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ।। ३५.
तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्धनः। संग्रामः पञ्चमश्चैव सुघोरस्तारकामयः ।। ३५.
षष्ठो ह्याडीबकस्तेषां सप्तमस्त्रैपुरः स्मृतः। अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः ।। ३५.
वार्त्तश्च दशमो ज्ञेयस्ततो हाला हलः स्मृतः। स्मृतो द्वादशमस्तेषां घोरकोलाहलोऽपरः ।। ३५.
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः। वामनेन बलिर्वद्धस्त्रैलोक्याक्रमणे कृते ।। ३५.
हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे तु दैवतैः। महाबलो महासत्त्वः संग्रामेष्वपराजितः ।। ३५.
दंष्ट्रायान्तु वराहेण समुद्राद्भूर्यदा कृता । प्राह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने ।। ३५.