युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः। सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्म्मणाम् ।। ३५.
वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम्। सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम् ।। ३५.
मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम् । विनयो नयतृप्तानां तेजस्तेजस्विनामपि ।। ३५.
विग्रहो विग्रहाणां यो गतिर्गतिमतामपि। आकाश प्रभवो वायुर्वायुप्राणा हुताशनः ।। ३५.
दिवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः। रसोऽभवच्छोणितं वै शोणितान्मांसमुच्यते ।। ३५.
मांसात्तु मेदसो जन्म मेदसोऽस्थि निरूप्यते। अस्थ्ना मज्जा समभवन्मज्जातः शुक्रसम्भवः ।। ३५.
शुक्राद्घर्भः समभवद्रसमूलेन कर्म्मणा। तत्रापि प्रथमञ्चापस्ताः सौम्यराशिरुच्यते ।। ३५.
गर्भोष्मसम्भवो ज्ञेयो द्वितीयो राशिरुच्यते। शुक्रं सोमात्मकं विद्यादार्त्तवं पावकात्मकम् ।। ३५.
भावौ रसानुगावेतौ वीर्य्ये च शशिपावकौ। कफवर्गेऽभवच्छुक्रं पित्तवर्गे च शोणितम् ।। ३५.
कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम्। देहस्य मध्ये हृदयं स्थानन्तु मनसः स्मृतम् ।। ३५.
नाबिकोष्ठान्तरं यत्तु तत्र देवो हुताशनः। मनः प्रजापतिर्ज्ञेयं कफः सोमो विभाव्यते ।। ३५.
पित्तमग्निः स्मृतावेतावग्निसोमात्मकं जगत्। एवं प्रवर्त्तितो गर्भो वर्त्ततेऽम्बुदसन्निभः ।। ३५.
वायुः प्रवेशनं चक्रे सङ्गतः परमात्मना। स पञ्चधा शरीरस्थो विद्यते वर्द्धयेत् पुनः ।। ३५.
प्राणापानौ समानश्च उदानो व्यान एव च। प्राणोऽस्य परमात्मानं वर्द्धयन् परिवर्त्तते ।। ३५.
अपानः पश्चिमं कायमुदानोर्द्ध्वशरीरगः। व्यानो व्यानस्यते येन समानः सर्व्वसन्धिषु ।। ३५.
भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरा। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।। ३५.
सर्व्वेन्द्रिया निविष्टास्तं स्वं स्वं योगं प्रचक्रिरे। पार्थिवं देहमाहुस्तं प्राणात्मानं च मारुतम् ।। ३५.
छिद्राण्याकाशयोनीनि जलास्रावं प्रवर्त्तते । तेजश्चक्षुःष्विता ज्योत्स्ना तेषां यन्नामतः स्मृतम्। सङ्ग्रामा विषयाश्चैव यस्य वीर्य्यात्प्रवर्त्तिताः ।। ३५.
इत्येतान् पुरुषः सर्व्वान् सृजँल्लोकान् सनातनः। नैधनेऽस्मिन् कथं लोके नरत्वं विष्णुरागतः ।। ३५.
एष नः संशयो धीमन्नेष वै विस्मयो महान् । कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् ।। ३५.
श्रोतुमिच्छामहे विष्णोः कर्म्माणि च यथाक्रमम्। आश्चर्य्याणि परं विष्णुर्वेददेवैश्च कथ्यते ।। ३५.
विष्णोरुत्पत्तिमाश्चर्य्यं कथयस्व महामते। एतदाश्चर्य्यमाख्यानं कथ्यतां वै सुखावहम् ।। ३५.
प्रख्यातबलवीर्य्यस्य प्रादुर्भावा महात्मनः। कर्म्मणाश्चर्य्यभूतस्य विष्णोः सत्त्वमिहोच्यताम् ।। ३५.
अहञ्च कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः। यथा स भगवाञ्जातो मानुषेषु महातपाः ।। ३५.
सप्तसप्ततपः प्रोक्ता भृगुशापेन मानुषे। जायते च युगान्तेषु देवकार्य्यर्थसिद्धये ।। ३५.
तस्य दिव्यतनुं विष्णोर्गदतो मे निबोधत। युगधर्म्मे परावृत्ते काले च शिथिले प्रभुः ।। ३५.
कर्तुं धर्म्मव्यवस्थानं जायते मानुषेष्विह। भृगोः शापनिमित्तेन देवासुरकृतेन च ।। ३५.
कथं देवासुरकृते अध्याहारमवाप्नुयात्। एतद्वेदितुमिच्छामो वृत्तं दैवासुरं कथम् ।। ३५.
दैवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत। हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक् प्रशासति ।। ३५.
बलिनाधिष्ठितं राष्ट्रं पुनर्लोकत्रये क्रमात्। सख्यमासीत्परं तेषां देवानामसुरैः सह ।। ३५.