देवमानुषयोर्नेता भूर्भुवःप्रसवो हरिः। किमर्थं दिव्यमात्मानं मानुषे समवेशयत् ।। ३५.
यश्चक्रं वर्तयत्येको मनुष्याणां मनोमयम्। मनुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ।। ३५.
गोपायनं यः कुरुते जगतां सार्व्वलौकिकम्। स कथं गां गतो विष्णुर्गोपमन्वकरोत्प्रभुः ।। ३५.
महाभूतानि भूतात्मा यो ददार चकार ह। श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ।। ३५.
येन लोकान् क्रमैर्जित्त्वा त्रिभिस्त्रींस्त्रिदशेप्सया। स्थापिता जगतो मार्गास्त्रिवर्गप्रवरास्त्रयः ।। ३५.
योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः। लोकमेकार्णवं चक्रे दृश्यादृश्येन वर्त्मना ।। ३५.
यः पुराणे पुराणात्मा वाराहं वपुरास्थितः। ददौ जित्त्वा वसुमतीं सुराणां सुरसत्तमः ।। ३५.
येन सैंहं वपुः कृत्वा द्विधाकृत्वा च यत्पुनः। पूर्व्वदैत्यो महावीर्य्यो हिरण्यकशिपुर्हतः ।। ३५.
यः पुरा ह्यनलो भूत्वा और्व्वः संवर्त्तको विभुः। पातालस्थोऽर्णवगतः पपौ तोयमयं हविः ।। ३५.
सहस्रचरणं देवं सहस्रांशुं सहस्रशः। सहस्रशिरसं देवं यमाहुर्वै युगे युगे ।। ३५.
नाभ्यारण्याः समुद्भूतं यस्य पैतामहं गृहम्। एकार्णवगते लोके तत्पङ्कजमपङ्कजम् ।। ३५.
येन ते निहता दैत्याः संग्रामे तारकामये। सर्व्वदेवमयं कृत्वा सर्वायुधधरं वपुः ।। ३५.
गरुडस्थेन चोत्सिक्तः कालनेमिर्निपातितः। उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः। यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ।। ३५.
पुराणी गर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरा यम्। शक्रञ्च यो दैत्यगणावरुद्धं गर्भावमानेन भृशं चकार ।। ३५.
यदानिलो लोकपदानि हृत्वा चकार दैत्यान् सलिलेशयांस्तान् । कृत्वादिदेवस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव ।। ३५.
गार्हपत्येन विधिना अन्वाहार्य्येण कर्म्मणा। अग्निमाहवनीयञ्च वेदिञ्चैव कुशस्रवम् ।। ३५.
प्रोक्षणीयं स्रुवञ्चैव अवभृथं तथैव च। अथ त्रीनिह यश्चक्रे हव्यभाग प्रदान्मखे ।। ३५.
हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि। भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्म्मणि ।। ३५.
यूपान् समित्स्रुवं सोमं पवित्रं परिधीनपि। यज्ञियानि च द्रव्याणि यज्ञीयांश्च तथानलान् ।। ३५.
सदस्यान् यजमानांश्च अश्वमेधान् क्रतूत्तमान्। विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्म्मणा ।। ३५.
युगानुरूपं यः कृत्वा त्रील्लोँकान् हि यथाक्रमम्। क्षणा निमेषाः काष्ठाश्च कलास्त्रैकालमेव च ।। ३५.
मुहूर्त्तास्तिथयो मासा दिनसंवत्सरास्तथा। ऋतवः कालयोगाश्च प्रमाणं त्रिविधन्तथा ।। ३५.
आयुः क्षेत्राण्युपचयं लक्षणं रूपसौष्ठवम्। मेधा वित्तं च शौर्य्यञ्च शास्त्रस्यैव च पारणम् ।। ३५.
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः। त्रैकाल्यं त्रीणि कर्म्माणि तिस्रो मायास्त्रयो गुणाः ।। ३५.
सृष्टा लोकाः सुराश्चैव येनात्यन्तेन कर्म्मणा। सर्व्वभूतगणाः सृष्टाः सर्व्वभूतगणात्मना ।। ३५.
नृणामिन्द्रियपूर्व्वेण योगेन रमते च यः । गतागतानां यो नेता सर्व्वत्र विविधेश्वरः ।। ३५.
यो गतिर्धर्मयुक्तानामगतिः पापकर्म्मणाम्। चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ।। ३५.
चातुर्विद्यस्य यो वेत्ता चतुराश्रमसंश्रयः। दिगन्तरं नभो भूमिरापो वायुर्विभावसुः ।। ३५.
चन्द्रसूर्य्यद्वयं ज्योतिर्युगेशः क्षणदाचरः। यः परः श्रूयते देवो यः परं श्रूयते तपः ।। ३५.
यः परन्तपसः प्राहुर्यः परम्परमात्मवान्। आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः ।। ३५.