इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः। कीर्त्तिता कीर्त्तनाच्चैव कीर्त्तिसिद्धिमभीप्सिताम् ।। ३४.
मनुष्यप्रकृतीन् देवान् कीर्त्यमानान्निबोधत । सङ्कर्षणो वासुदेवः प्रद्युम्नः साम्ब एव च ।। ३५.
अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्त्तिताः। सप्तर्षयः कुबेरश्च यक्षो मणिवरस्तथा ।। ३५.
शालकी बदरश्चैव विद्वान् धन्वन्तरिस्तथा। नन्दिनश्च महादेवः शालङ्कायन उच्यते। आदिदेवस्तदा जिष्णुरेभिश्च सह दैवतैः ।। ३५.
विष्णुः किमर्थं सम्भूतः स्मृताः सम्भूतयः कति। भविष्याः कति वान्ये तु प्रादुर्भावा महात्मनः ।। ३५.
ब्रह्मक्षेत्रे युगान्तेषु किमर्थमिह जायते । पुनः पुनर्म्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ।। ३५.
विस्तरेणैव सर्वाणि कर्म्माणि रिपुघातिनः। श्रोतुमिच्छामहे सम्यग् देहैः कृष्णस्य धीमतः ।। ३५.
कर्म्मणामानुपूर्व्यञ्च प्रादुर्भावाश्च ये प्रभो । या चास्य प्रकृतिः सूत ताश्चास्मान् वक्तुमर्हसि ।। ३५.
कथं स भगवान् विष्णुः सुरेष्वरिनिषूदनः। वसुदेवकुले धीमान् वासुदेवत्वमागतः ।। ३५.
अमरैः सूत किं पुण्यं पुण्यकृद्भिरलंकृतम्। देवलोकं समुत्सृज्य मर्त्यलोकमिहागतः ।। ३५.
देवमानुषयोर्नेता भूर्भुवःप्रसवो हरिः। किमर्थं दिव्यमात्मानं मानुषे समवेशयत् ।। ३५.
यश्चक्रं वर्तयत्येको मनुष्याणां मनोमयम्। मनुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ।। ३५.
गोपायनं यः कुरुते जगतां सार्व्वलौकिकम्। स कथं गां गतो विष्णुर्गोपमन्वकरोत्प्रभुः ।। ३५.
महाभूतानि भूतात्मा यो ददार चकार ह। श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ।। ३५.
येन लोकान् क्रमैर्जित्त्वा त्रिभिस्त्रींस्त्रिदशेप्सया। स्थापिता जगतो मार्गास्त्रिवर्गप्रवरास्त्रयः ।। ३५.
योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः। लोकमेकार्णवं चक्रे दृश्यादृश्येन वर्त्मना ।। ३५.
यः पुराणे पुराणात्मा वाराहं वपुरास्थितः। ददौ जित्त्वा वसुमतीं सुराणां सुरसत्तमः ।। ३५.
येन सैंहं वपुः कृत्वा द्विधाकृत्वा च यत्पुनः। पूर्व्वदैत्यो महावीर्य्यो हिरण्यकशिपुर्हतः ।। ३५.
यः पुरा ह्यनलो भूत्वा और्व्वः संवर्त्तको विभुः। पातालस्थोऽर्णवगतः पपौ तोयमयं हविः ।। ३५.
सहस्रचरणं देवं सहस्रांशुं सहस्रशः। सहस्रशिरसं देवं यमाहुर्वै युगे युगे ।। ३५.
नाभ्यारण्याः समुद्भूतं यस्य पैतामहं गृहम्। एकार्णवगते लोके तत्पङ्कजमपङ्कजम् ।। ३५.
येन ते निहता दैत्याः संग्रामे तारकामये। सर्व्वदेवमयं कृत्वा सर्वायुधधरं वपुः ।। ३५.
गरुडस्थेन चोत्सिक्तः कालनेमिर्निपातितः। उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः। यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ।। ३५.
पुराणी गर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरा यम्। शक्रञ्च यो दैत्यगणावरुद्धं गर्भावमानेन भृशं चकार ।। ३५.
यदानिलो लोकपदानि हृत्वा चकार दैत्यान् सलिलेशयांस्तान् । कृत्वादिदेवस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव ।। ३५.
गार्हपत्येन विधिना अन्वाहार्य्येण कर्म्मणा। अग्निमाहवनीयञ्च वेदिञ्चैव कुशस्रवम् ।। ३५.
प्रोक्षणीयं स्रुवञ्चैव अवभृथं तथैव च। अथ त्रीनिह यश्चक्रे हव्यभाग प्रदान्मखे ।। ३५.
हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि। भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्म्मणि ।। ३५.
यूपान् समित्स्रुवं सोमं पवित्रं परिधीनपि। यज्ञियानि च द्रव्याणि यज्ञीयांश्च तथानलान् ।। ३५.
सदस्यान् यजमानांश्च अश्वमेधान् क्रतूत्तमान्। विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्म्मणा ।। ३५.