प्रसादजं यस्य विभोरदित्याः पुत्रकारणम्। वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ।। ३४.
ययातिवंशजस्याथ वसुदेवस्य धीमतः। कुलं पुण्यं यतः कर्म भेजे नारायणः प्रभुः ।। ३४.
सागराः समकम्पन्त चेलुश्च धरणीधराः। जज्वलुश्चाग्निहोत्राणि जायमाने जनार्दने ।। ३४.
शिवाश्च प्रववुर्वाताः प्रशान्तिमभवद्रजः। ज्योतींष्यभ्यधिकं रेजुर्जायमाने जनार्दने ।। ३४.
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी। मुहूर्त्तो विजयो नाम यत्र जातो जनार्दनः ।। ३४.
अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः। जायते स्मैव भगवान् नयनैर्मोहयन् प्रजाः ।। ३४.
आकाशात् पुष्पवृष्टीश्च ववर्ष त्रिदशेश्वरः। गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम्। महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः ।। ३४.
वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम्। श्रीवत्सलक्षणं दृष्ट्वा दिवि दिव्यैः सुलक्षणैः। उवाच वसुदेवः स्वं रूपं संहर वै प्रभो ।। ३४.
भीतोऽहं कंसतस्तात एतदेव ब्रवीम्यहम्। मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भुतदर्शनाः ।। ३४.
वसुदेववचः श्रुत्वा रूपं स हृतवान् प्रभुः। अनुज्ञातः पिता त्वेनं नन्दगोपगृहं गतः। उग्रसेनमते तिष्ठन् यशोदायै तदा ददौ ।। ३४.
तुल्यकालन्तु गर्भिण्यौ यशोदा देवकी तथा। यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ।। ३४.
यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलप्रभुः। तामेव रजनीं कन्यां यशोदापि व्यजायत ।। ३४.
तं जातं रक्षमाणस्तु वसुदेवो महायशाः। प्रादात् पुत्रं यशोदायै कन्यान्तु जगृहे स्वयम् ।। ३४.
दत्त्वैनं नन्दगोपस्य रक्षमामिति चाब्रवीत्। सुतस्ते सर्व्वकल्याणो यादवानां भविष्यति। अयं स गर्भो देवक्या अस्मत्क्लेशान् हनिष्यति ।। ३४.
उग्रसेनात्मजायाञ्च कन्यामानकदुन्दुभेः। निवेदयामास तदा कन्येति शुभलक्षणा ।। ३४.
स्वासायां तनयं कंसो जातं नैवावधारयत्। अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ।। ३४.
हता वै या यदा कन्या जपत्येष वृथामतिः। कन्या सा ववृधे तत्र वृष्णिसद्मनि पूजिता ।। ३४.
पुत्रवत्परिपाल्यन्तो देवा देवान् यथा तदा । तामेव विधिनोत्पन्नामाहुः कन्यां प्रजापतिम् ।। ३४.
एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह। तां वै सर्वे सुमनसः पूजयिष्यन्ति यादवाः। देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ।। ३४.
ऋषय ऊचुः ।। किमर्थं वसुदेवस्य भोजः कंसो नराधिपः। जघान पुत्रान् बालान् वै तन्नो व्याख्यातुमर्हसि ।। ३४.
सूत उवाच।। श्रृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः। जाताञ्जाताञ्चिशून् सर्व्वान् निष्पिपेष वृथामतिः ।। ३४.
भयाद्यथा महाबाहुर्जातः कृष्णो विवासितः। तथा च गोषु गोविन्दः संवृद्ध- पुरुषोत्तमः ।। ३४.
उक्तं हि किल देवक्या वसुदेवस्य धीमतः । सारथ्यं कृतवान् कंसो युवराजस्तदाऽभवत् ।। ३४.
ततोऽन्तरिक्षे वागासीद्दिव्या भूतस्य कस्यचित्। कंसो यया सदा भीतः पुष्कला लोकसाक्षिणी ।। ३४.
यामेतां वहसे कंस रथेन परकारणात्। अस्या यः सप्तमो गर्भः स ते मृत्युर्भविष्यति ।। ३४.
तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः। निष्क्रम्य खड्गं तां कन्यां हन्तुकामोऽभवत्तदा ।। ३४.
तमुवाच महाबाहुर्वसुदेवः प्रतापवान्। उग्रसेनात्मजं कंसं सौहृदात्प्रणयेन च ।। ३४.
नस्त्रियं क्षत्रियो जातु हन्तुमर्हति कश्चन। उपायः परिदृष्टोऽत्र मया यादवनन्दन ।। ३४.
योऽस्याः सम्भवते गर्भः सप्तमः पृथिवी पते। तमहन्ते प्रयच्छामि तत्र कुर्य्या यथाक्रमम् ।। ३४.
त्वं त्विदानीं यथेष्टत्वं वर्तेथा भूरिदक्षिण। सर्वानस्यास्तु वै गर्भान् सत्यं नेष्यामि ते वशम् ।। ३४.