अतोऽस्य सह देवायां शूरो जज्ञेऽभयासखः। शार्ङ्गदेवाजनत्तम्बुं शौरी जज्ञे कुलोद्वहम् ।। ३४.
उपसङ्गं वसुञ्चापि तनयौ देवरक्षितौ। एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ।। ३४.
विजयं रोजनञ्चैव वर्द्धमानं तथैव च। एतान् सर्व्वान् महाभागानुपदेवा व्यजायत ।। ३४.
स्वगाहवं महात्मानं वृक देवी त्वजायत । आगाही च स्वसा चैव सुरूपा शिशिरायिणी ।। ३४.
सप्तमं देवकीपुत्रं सुनासा सुषुवे भुवम्। गवेषणं महाभागं सङ्ग्रामे चित्र योधिनम् ।। ३४.
श्राद्धदेवं पुरा येन वने विरचिता द्विजाः। शैब्यायामददच्छौरिः पुत्रं कौशिकमव्ययम् ।। ३४.
सुगन्धी वनराजी च शौरेरास्तां परिग्रहः। पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ हि तौ। तयो राजाऽभवत् पुण्ड्रः कपिलस्तु वनं ययो ।। ३४.
तस्यां समभवद्वीरो वसुदेवात्मजो बली। राजा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ।। ३४.
विख्यातो देवरातस्य महाभागः सुतोऽभवत्। पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ।। ३४.
अस्मक्यां लभते पुत्रमनादृष्टिं यशस्विनम्। निवर्त्तः शक्रशत्रुघ्नं श्राद्धदेवं महाबलम् ।। ३४.
अजायत श्राद्धदेवो निषधादिर्यतः श्रुतः। एकलव्यो महावीर्यो निषादैः परिवर्द्धितः ।। ३४.
गण्डूषायानपत्याय कृष्णस्तुष्टोऽददत् सुतौ। चारुदेष्णञ्च साम्बञ्च कृतास्त्रौ शस्तलक्षणौ ।। ३४.
तन्तिजस्तन्तिमालश्च स्वपुत्रौ कनकस्य तु। वस्तावनेस्त्वपुत्राय वसुदेवः प्रतापवान्। सौतिर्ददौ सुतं वीरं शौरिं कौशिकमेव च ।। ३४.
तपाश्च कोधनुश्चैव विरजाः श्यामसृञ्जिमौ। अनपत्योऽभवच्छ्यामः श्यामकस्तु वनं ययौ। जुगुप्समानो भोजत्वं राजर्षित्वमवाप्नुयात् ।। ३४.
य इदं जन्म कृष्णस्य पठते नियतव्रतः। श्रावयेद्ब्राह्मणञ्चापि सुमहत्सुखमाप्नुयात् ।। ३४.
देवदेवो महातेजाः पूर्व्वं कृष्णः प्रजापतिः । विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः ।। ३४.
देवक्यां वसुदेवेन तपसा पुष्करेक्षणः। चतुर्बाहुः स विज्ञेयो दिव्यरूपः श्रियान्वितः ।। ३४.
प्रकाशो भगवान् योगी कृष्णो मानुषमागतः। अव्यक्तोऽव्यक्तलिङ्गस्थः स एव भगवान् प्रभुः ।। ३४.
नारायणो यतश्चक्रे प्रभवं चाव्ययो हि सः। देवो नारायणो भूत्वा हरिरासीत्सनातनः ।। ३४.
योऽसृजच्चादिपुरुषं पुरा चक्रे प्रजापतिम्। अदितेरपि पुत्रत्वमेत्य यादवनन्दनः। देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत् ।। ३४.
प्रसादजं यस्य विभोरदित्याः पुत्रकारणम्। वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ।। ३४.
ययातिवंशजस्याथ वसुदेवस्य धीमतः। कुलं पुण्यं यतः कर्म भेजे नारायणः प्रभुः ।। ३४.
सागराः समकम्पन्त चेलुश्च धरणीधराः। जज्वलुश्चाग्निहोत्राणि जायमाने जनार्दने ।। ३४.
शिवाश्च प्रववुर्वाताः प्रशान्तिमभवद्रजः। ज्योतींष्यभ्यधिकं रेजुर्जायमाने जनार्दने ।। ३४.
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी। मुहूर्त्तो विजयो नाम यत्र जातो जनार्दनः ।। ३४.
अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः। जायते स्मैव भगवान् नयनैर्मोहयन् प्रजाः ।। ३४.
आकाशात् पुष्पवृष्टीश्च ववर्ष त्रिदशेश्वरः। गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम्। महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः ।। ३४.
वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम्। श्रीवत्सलक्षणं दृष्ट्वा दिवि दिव्यैः सुलक्षणैः। उवाच वसुदेवः स्वं रूपं संहर वै प्रभो ।। ३४.
भीतोऽहं कंसतस्तात एतदेव ब्रवीम्यहम्। मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भुतदर्शनाः ।। ३४.
वसुदेववचः श्रुत्वा रूपं स हृतवान् प्रभुः। अनुज्ञातः पिता त्वेनं नन्दगोपगृहं गतः। उग्रसेनमते तिष्ठन् यशोदायै तदा ददौ ।। ३४.