विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ। श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ।। ३४.
दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः। यः पुरासीद्दशग्रीवः संबभूवारिमर्दनः ।। ३४.
यदुश्रवानुजस्तस्य रुजकन्योऽनुजस्तथा। पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ।। ३४.
पौरवी रोहिणी चैव मदिरा चापरा तथा। तथैव भद्रा वैशाखी देवकी सप्तमी तथा ।। ३४.
सुगन्धिर्वनराजी च द्वे चान्ये परिचारिके ३४.
ज्येष्ठा पत्नी महाभागा दयितानकदुन्दुभेः । ज्येष्ठं लेभे सुतं रामं सारणं निशवं तथा ।। ३४.
दुर्द्दमं दमनं शुभ्रं पिण्डारककुशीतकौ। चित्रां नाम कुमारीञ्च रोहिण्यष्टौ व्यजायत ।। ३४.
पौत्रौ रामस्य जज्ञाते विज्ञातौ निशितोत्सुकौ। पार्श्वी च पार्श्वनन्दी च शिशुः सत्यधृतिस्तथा ।। ३४.
मन्दबाह्योऽथ रामाणगिरिकौ गिर एव च। शुक्लगुल्मेति गुल्मश्च दरिद्रान्तक एव च ।। ३४.
कुमार्यश्चापि पञ्चाद्या नामतस्ता निबोधत। अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ।। ३४.
तथा शतबला चैव सारणस्य सुतास्त्विमाः। भद्राश्वो भद्रगुप्तिश्च भद्रविघ्नस्तथैव च ।। ३४.
भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च। सुपार्श्वकः कीर्त्तिमांश्च रोहिताश्वश्च भद्रजः ।। ३४.
दुर्म्मदश्चाभिभूतश्च रोहिण्याः कुलजाः स्मृताः । नन्दोपनन्तदौ मित्रश्च कुक्षिमित्रस्तथाचलः ।। ३४.
चित्रोप चित्रे कन्ये च स्थितः पुष्टिरथापरः। मदिरायाः सुता ह्येते सुदेवोऽथ विजज्ञिरे ।। ३४.
उपबिम्बोऽथ बिम्बश्च सत्त्वदन्तमहौजसौ। चत्वार एते विख्याता भद्रापुत्रा महाबलाः ।। ३४.
वैशाख्यां समदाच्छौरिः पुत्रं कौशिकमुत्तमम्। देवक्यां जज्ञिरे शौरिः सुषेणः कीर्तिमानपि ।। ३४.
तदयो भद्रसेनश्च यजुदायश्च पञ्चमः। षष्ठो भद्रविदेकश्च कंसः सर्वाञ्जघान तान् ।। ३४.
अथ तस्यामवस्थायामायुष्मान् संबभूव ह। लोक नाथः पुनर्विष्णुः पूर्वकृष्णः प्रजापतिः ।। ३४.
अनुजाताऽभवत् कृष्णा सुभद्रा भद्रभाषिणी। कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी ।। ३४.
सुभद्रायां रथी पार्थादभिमन्युरजायत। वसुदेवस्य भार्यासु महाभागासु सप्तसु। ये पुत्रा जज्ञिरेशूरा नामतस्तान्निबोधत ।। ३४.
अतोऽस्य सह देवायां शूरो जज्ञेऽभयासखः। शार्ङ्गदेवाजनत्तम्बुं शौरी जज्ञे कुलोद्वहम् ।। ३४.
उपसङ्गं वसुञ्चापि तनयौ देवरक्षितौ। एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ।। ३४.
विजयं रोजनञ्चैव वर्द्धमानं तथैव च। एतान् सर्व्वान् महाभागानुपदेवा व्यजायत ।। ३४.
स्वगाहवं महात्मानं वृक देवी त्वजायत । आगाही च स्वसा चैव सुरूपा शिशिरायिणी ।। ३४.
सप्तमं देवकीपुत्रं सुनासा सुषुवे भुवम्। गवेषणं महाभागं सङ्ग्रामे चित्र योधिनम् ।। ३४.
श्राद्धदेवं पुरा येन वने विरचिता द्विजाः। शैब्यायामददच्छौरिः पुत्रं कौशिकमव्ययम् ।। ३४.
सुगन्धी वनराजी च शौरेरास्तां परिग्रहः। पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ हि तौ। तयो राजाऽभवत् पुण्ड्रः कपिलस्तु वनं ययो ।। ३४.
तस्यां समभवद्वीरो वसुदेवात्मजो बली। राजा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ।। ३४.
विख्यातो देवरातस्य महाभागः सुतोऽभवत्। पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ।। ३४.
अस्मक्यां लभते पुत्रमनादृष्टिं यशस्विनम्। निवर्त्तः शक्रशत्रुघ्नं श्राद्धदेवं महाबलम् ।। ३४.