आहुकश्चाहुकान्धाय स्वसारं त्वाहुकीन्ददौ। आहुकान्धस्य दुहिता द्वौ पुत्रौ सम्बभूवतुः ।। ३४.
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ । देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ।। ३४.
देवानामपि देवश्च सुदेवो देवरञ्जिता। तेषां स्वसारः सप्तासन् वसुदेवाय संददौ ।। ३४.
वृकदेवोपदेवा च तथान्या देवरक्षिता। श्रीदेवा शान्तिदेवा च महादेवा तथापरा ।। ३४.
सप्तमी देवकी तासां सुनामा चारुदर्शना। नवोग्रसेनस्य सुताः कंसस्तेषान्तु पूर्वजः ।। ३४.
न्यग्रोधश्च सुनामा च कद्वशंकुश्च भूमयः। सूतनू राष्ट्रपालश्च युद्धतुष्टः सुपुष्टिमान् ।। ३४.
तेषां स्वसारः पञ्चैव कर्मधर्मवती तथा। शताङ्क्रू राष्ट्रापाला च कङ्वा चैव वराङ्गना ।। ३४.
उग्रसेनो महापत्यो विख्यातः कुकुरोद्भवः। कुकुराणामिमं वंशं धारयन्नमितौजसाम्। आत्मनो विपुलं वंशं प्रजावांश्च भवेन्नरः ।। ३४.
भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः। राज्याधिदेवः शूरश्च विदुरश्च सुतोऽभवत् ।। ३४.
तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः । वातश्चैव निवातश्च शोणितः श्वेतवाहनः ।। ३४.
शमी च गदवर्मा च निदातः शक्रशक्रजित्। शमिपुत्रः प्रतिक्षिप्तः प्रतिक्षिप्तस्य चात्मजः ।। ३४.
स्वयम्भोजः स्वयम्भोजाद्धृदिकः सम्बभूव ह। हृदिकस्य सुतास्त्वासन् दश भीमपराक्रमाः ।। ३४.
कृतवर्मा कृतस्तेषां शतधन्वा तु मध्यमः। देवार्हश्च वनार्हश्च भिषग् द्वैतरथश्च यः ।। ३४.
सुदान्तश्च धियान्तश्च नकवान् कनकोद्भवः। देवार्हस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः ।। ३४.
असमौजाः सुतस्तस्य सुमहौजाश्च विश्रुतः। अजावपुत्राय ततः प्रददावसमौजसे। सुदंष्ट्रञ्च सुरूपञ्च कृष्ण इत्यन्धकाः स्मृताः ।। ३४.
अन्धकानामिमं वंशं कीर्त्तयानस्तु नित्यशः। आत्मानो विपुलं वंशं लभते नात्र संशयः ।। ३४.
अस्मक्यां जनयामास शूरो वै देवमानुषिम्। माष्यान्तु जनयामास शूरो वै देवमीढुषम् ।। ३४.
भाष्यान्तु जज्ञिरे शूराद्भोजायां पुरुषा दश। वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।। ३४.
जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि। आनकानाञ्च संह्रादः सुमहानभवद्दिवि ।। ३४.
पपात पुष्पवर्षञ्च शूरस्य भवने महत्। मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।। ३४.
यस्यासीत् पुरुषाग्र्यस्य कीर्त्तिश्चन्द्रमसो यथा। देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः ।। ३४.
अनादृष्टिकडश्चैव नन्दनश्चैव भृञ्जिनः। श्यामः शमीको गण्डूषः चतस्रस्तु वराङ्गनाः ।। ३४.
पृथा च श्रुतवेदा च श्रुतकीर्त्तिः श्रुतश्रवाः। राजाधिदेवी च तथा पञ्चैता वीरमातरः ।। ३४.
पृथां दुहितरं चक्रे कुन्ति स्तां पाण्डुरावहत्। अनपत्याय वृद्धाय कुन्तिभोजाय तां ददौ ।। ३४.
तस्मात् कुन्तीति विख्याता कुन्तीभोजात्मजा पृथा। कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत ।। ३४.
पृथा जज्ञे ततः पुत्रान् त्रीनग्निसमतेजसः। लोकेऽप्रतिरथान् वीरान् शक्रतुल्यपराक्रमान् ।। ३४.
धर्माद्युधिष्ठिरं पुत्रं मारुताच्च वृकोदरम्। ईन्द्राद्धनञ्जयञ्चैव पृथा पुत्रानजीजनत् ।। ३४.
माद्रवत्यान्तु जनितावाश्विनाविति विश्रुतम्। नकुलः सहदेवश्च रूपसत्त्वगुणान्वितौ ।। ३४.
जज्ञे च श्रुतदेवायां तनयो वृद्धशर्मणः। करूषाधिपतिर्वीरो दन्तवक्रो महाबलः ।। ३४.
कैकेयां श्रुतकीर्त्यान्तु जज्ञे सन्तर्दनः पुनः। चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ ।। ३४.