अहं तृतीय इत्यर्थस्तस्मादत्रिः स कीर्त्त्यते। केशैश्च निशितैर्भूतः पुलस्त्यस्तेन स स्मृतः ।। ४.
केशैर्लम्बैः समुद्भूतस्तस्मात्तु पुलहः स्मृतः । वसुमध्यात्समुत्पन्नो वसुमान् वसुधाश्रयः ।। ४.
वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते व्रह्मवादिभिः । इत्येते ब्रह्मणः पुत्रा मानसाः षण्महर्षयः ।। ४.
लोकस्य सन्तानकरास्तैरिमा वर्द्धिताः प्रजाः। प्रजापतय इत्येवं पठ्यन्ते ब्रह्मणः सुताः ।। ४.
अपरे पितरो नाम एतैरेव महर्षिभिः। उत्पादिता ऋषिगणाः सप्त लोकेषु विश्रुताः ।। ४.
मारीचा भार्गवाश्चैव तथैवाङ्गिरसोऽपरे। पौलस्त्याः पौलहाश्चैव वासिष्ठाश्चैव विश्रुताः। आत्रेयाश्च गणाः प्रोक्ताः पितॄणां लोकविश्रुताः ।। ४.
एते समासतस्तात पुरैव तु गुणास्त्रयः। अपूर्वश्च प्रकाशाश्च ज्योतिष्मन्तश्च विश्रुताः ।। ४.
तेषां राजा यमो देवो यमैर्विहितकल्मषाः। अपरे प्रजानां पतयस्ताञ्छृणुध्वमतन्द्रिताः ।। ४.
कर्द्दमः कश्यपः शेषो विक्रान्तः सुश्रुवास्तथा। बहुपुत्रः कुमारश्च विवस्वान् स शुचिश्रवाः ।। ४.
प्रचेतसोऽरिष्टनेमिर्बहुलस्व प्रजापतिः। इत्येवमादयोऽन्येऽपि बहवश्च प्रजेश्वराः ।। ४.
कुशोच्चया वालखिल्याः सम्भूताः परमर्षयः। मनोजवाः सर्वगताः सार्वभौमाश्च तेऽभवन् ।। ४.
जाता भस्मव्यपोहिन्यां ब्रह्मर्षिगणसम्मताः। वैखानसा मुनिगणास्तपःश्रुतपरायणाः ।। ४.
स्रोतोभ्यस्तस्य चोत्पन्नावश्विनौ रूपसम्मितौ। विदुर्जन्माक्षरजसो विमला नेत्रसम्भवाः ४.
ज्येष्ठाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे। ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवाः ।। ४.
दारुणा हि रुते मासा निर्यासाः पक्षसन्धयः। वत्सरा ये त्वहोरात्राः पित्रं ज्योतिश्च दारुणम् ।। ४.
रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम्। तन्मैत्रमिति विज्ञेयं धूमश्च पशवः स्मृताः ।। ४.
येऽर्च्चिषस्तस्य ते रुद्रास्तथादित्याः समुद्भवाः। अङ्गारेभ्यः समुत्पन्ना ज्योतिषो दिव्यमानुषाः ।। ४.
आदिमानस्य लोकस्य ब्रह्मा ब्रह्मसमुद्भवः। सर्वकामदमित्याहुस्तत्र कन्यामुदाहरन् ।। ४.
ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसीदति। इमे वै जनयिष्यन्ति प्रजाः सर्वाः प्रजेश्वराः ।। ४.
स्वे प्रजानां पतयः सर्वे चापि तपस्विनः। तत्प्रसादादिमाँल्लोकान्धारयेयुरिमाः क्रियाः ।। ४.
द्वन्द्वं संवर्द्धयामास तव तेजोविवर्द्धनम्। देवेषु वेदविद्वांसः सर्वे राजर्षयस्तथा ।। ४.
वेदमन्त्र पराः सर्वे प्रजापतिगुणोद्भवाः। अनन्तं ब्रह्म सत्यञ्च तपश्च परमं भुवि ।। ४.
सर्वे हि वयमेते च तवैव प्रसवः प्रभो। ब्रह्म च ब्राह्मणाश्चैव लोकाश्चैव चराचराः ।। ४.
मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह। अपत्यानीह सञ्चिन्त्य तेऽपत्यङ्कामयामहे ।। ४.
तस्मिन् यज्ञे महाभागा देवाश्च ऋषिभिः सह। एतद्वंशसमुद्भूताः स्थानकालाभिमानिनः ।। ४.
न च तेनैव रूपेण स्थापयेयुरिमाः प्रजाः। युगादिनिधनाच्चैव स्थापयेयुरिमाः प्रजाः ।। ४.
ततोऽब्रवील्लोकगुरुः परमित्यविचारयन् । एवं देवा विनिश्चित्य मया सृष्टा न संशयः। भवतां वंशसम्भूताः पुनरेते महर्षयः ।। ४.
तेषां भृघोः कीर्तयिष्ये वंशं पूर्वमहात्मनः। विस्तरेणानुपूर्व्या च प्रथमस्य प्रजापतेः ।। ४.
भार्या भृगोरप्रतिमे उत्तमेऽभिजने शुभे। हिरण्यकशिपोः कन्या दिव्या नाम परिश्रुता। पुलोम्नश्चापि पौलोमी दुहिता वर वर्णिनी ।। ४.
भृगोस्त्वजनयद्दिव्या काव्यं वेदविदां वरम्। देवासुराणामाचार्यं शुक्रङ्कविसुतं ग्रहम् ।। ४.