तस्यासीत्तुम्बुरुसखा विद्वान् पुत्रोऽभवत्किल। ख्यायते यस्य नाम्ना स चन्दनोदकदुन्दुभिः ।। ३४.
तस्माच्चाभिजितः पुत्र उत्पन्नस्तु पुनर्वसुः। अश्वमेधन्तु पुत्रार्थे आजहार नरोत्तमः ।। ३४.
तस्य मध्येऽतिरात्रस्य सदोमध्यात्समुत्थितम्। ततस्तु विद्वान् धर्मज्ञो दाता यज्वा पुनर्वसुः ।। ३४.
तस्यापि पुत्रमिथुनं बाहुबाणाजितः किल। आहुकश्चाहुकी चैव ख्यातौ मतिमतांवरौ ।। ३४.
इमांश्चोदाहरन्त्यत्र श्लोकान् प्रति तमाहुकम्। सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम् ।। ३४.
रथानां मेघघोषाणां सहस्राणि दशैव तु। नासत्यवादी त्वासीत्तु नायज्वा नासहस्रदः ।। ३४.
नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत्। आहुकस्य धृतिः पुत्र इत्येवमनु शुश्रुमः ।। ३४.
श्वेतेन परिचारेण किशोरप्रतिमान् हयान्। अशीतियुक्तनियुतान्याहुकप्रतिमोऽव्रजत् ।। ३४.
पूर्वस्यान्दिशि नागानां भोजस्य प्रतिरेजिरे। रूप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः ।। ३४.
तावन्त्येव सहस्राणि उत्तरस्यान्तथा दिशि। भूमिपालस्य भोजस्य उत्तिष्ठेत् किङ्किणी किल ।। ३४.
आहुकश्चाहुकान्धाय स्वसारं त्वाहुकीन्ददौ। आहुकान्धस्य दुहिता द्वौ पुत्रौ सम्बभूवतुः ।। ३४.
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ । देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ।। ३४.
देवानामपि देवश्च सुदेवो देवरञ्जिता। तेषां स्वसारः सप्तासन् वसुदेवाय संददौ ।। ३४.
वृकदेवोपदेवा च तथान्या देवरक्षिता। श्रीदेवा शान्तिदेवा च महादेवा तथापरा ।। ३४.
सप्तमी देवकी तासां सुनामा चारुदर्शना। नवोग्रसेनस्य सुताः कंसस्तेषान्तु पूर्वजः ।। ३४.
न्यग्रोधश्च सुनामा च कद्वशंकुश्च भूमयः। सूतनू राष्ट्रपालश्च युद्धतुष्टः सुपुष्टिमान् ।। ३४.
तेषां स्वसारः पञ्चैव कर्मधर्मवती तथा। शताङ्क्रू राष्ट्रापाला च कङ्वा चैव वराङ्गना ।। ३४.
उग्रसेनो महापत्यो विख्यातः कुकुरोद्भवः। कुकुराणामिमं वंशं धारयन्नमितौजसाम्। आत्मनो विपुलं वंशं प्रजावांश्च भवेन्नरः ।। ३४.
भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः। राज्याधिदेवः शूरश्च विदुरश्च सुतोऽभवत् ।। ३४.
तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः । वातश्चैव निवातश्च शोणितः श्वेतवाहनः ।। ३४.
शमी च गदवर्मा च निदातः शक्रशक्रजित्। शमिपुत्रः प्रतिक्षिप्तः प्रतिक्षिप्तस्य चात्मजः ।। ३४.
स्वयम्भोजः स्वयम्भोजाद्धृदिकः सम्बभूव ह। हृदिकस्य सुतास्त्वासन् दश भीमपराक्रमाः ।। ३४.
कृतवर्मा कृतस्तेषां शतधन्वा तु मध्यमः। देवार्हश्च वनार्हश्च भिषग् द्वैतरथश्च यः ।। ३४.
सुदान्तश्च धियान्तश्च नकवान् कनकोद्भवः। देवार्हस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः ।। ३४.
असमौजाः सुतस्तस्य सुमहौजाश्च विश्रुतः। अजावपुत्राय ततः प्रददावसमौजसे। सुदंष्ट्रञ्च सुरूपञ्च कृष्ण इत्यन्धकाः स्मृताः ।। ३४.
अन्धकानामिमं वंशं कीर्त्तयानस्तु नित्यशः। आत्मानो विपुलं वंशं लभते नात्र संशयः ।। ३४.
अस्मक्यां जनयामास शूरो वै देवमानुषिम्। माष्यान्तु जनयामास शूरो वै देवमीढुषम् ।। ३४.
भाष्यान्तु जज्ञिरे शूराद्भोजायां पुरुषा दश। वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।। ३४.
जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि। आनकानाञ्च संह्रादः सुमहानभवद्दिवि ।। ३४.
पपात पुष्पवर्षञ्च शूरस्य भवने महत्। मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।। ३४.