स कृष्णहस्तात् संप्राप्य मणिरत्नं स्यमन्तकम्। आबद्ध्य गान्दिनीपुत्रो विरराजांशुमानिव ।। ३४.
इमां मिथ्याभिशस्तिं यो विशुद्धामपि चोत्तमाम् । वेद मिथ्याभि शस्तिं स न व्रजेच्च कथञ्चन ।। ३४.
अनिमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ।। ३४.
सत्यवाक् सत्यसम्पन्नः सत्यकस्तस्य चात्मजः। सात्यकिर्युयुधानस्य तस्य भूतिः सुतोऽभवत् ।। ३४.
भूतेर्युगन्धरः पुत्र इति भौत्याः प्रकीर्त्तिताः। जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च यः ।। ३४.
श्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्त्तते। नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा ।। ३४.
कदाचित् काशिराजस्य विभोस्तु द्विजसत्तमाः। त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ।। ३४.
स तत्र वासयामास श्वफल्कं परमार्चितम्। श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः ।। ३४.
श्वफल्कः काशिराजस्य सुतां भार्यामनिन्दिताम्। गान्दिनीं नाम गां सा हि ददौ विप्राय नित्यशः ।। ३४.
सा मातुरुदरस्था वै बहुवर्ष शतान् किल। वसति स्म न वै जज्ञे सर्भस्थान्तां पिताब्रवीत् ।। ३४.
जायस्व शीघ्रं भद्रन्ते किमर्थं चापि तिष्ठसि। प्रोवाच चैनं गर्भ स्था सा कन्या गौर्दिने दिने ।। ३४.
यदि दत्ता तदा स्यां हि यदि स्यामीहतां पितः। तथेत्युवाच तां तस्याः पिता काममपूपुरत् ।। ३४.
दाता यज्वा च शूरश्च श्रुतवानतिथिप्रियः। तस्याः पुत्रः स्मृतोऽक्रूरः श्वफल्को भूरिदक्षिणः ।। ३४.
उपमङ्गुस्तथा मङ्गुर्मृदुरश्चारिमेजयः। गिरिरक्षस्तता यक्षः शत्रुघ्नो वारिमर्द्दनः ।। ३४.
धर्मभृच्च श्रृष्टचयो वर्गमोचस्तथापरः। आवाहप्रतिवाहौ च वसुदेवा वराङ्गना ।। ३४.
अक्रूरादुग्रसेन्यान्तु सुतौ द्वौ कुलनन्दिनौ। देवश्चानुपदेवश्च जज्ञाते देवसंमितौ ।। ३४.
चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च। अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ।। ३४.
अरिष्टनेमिरश्वश्च सुवर्मा वर्मचर्मभृत् । अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ।। ३४.
सत्यकात् काशिदुहिता लेभे सा चतुरः सुतान्। ककुदं भजमानञ्च शमीकबलबर्हिषौ ।। ३४.
ककुदस्य सुतो वृष्टिर्वृष्टेस्तु तनयोऽभवत्। कपोतरोमा तस्याथ रेवतोऽभवदात्मजः ।। ३४.
तस्यासीत्तुम्बुरुसखा विद्वान् पुत्रोऽभवत्किल। ख्यायते यस्य नाम्ना स चन्दनोदकदुन्दुभिः ।। ३४.
तस्माच्चाभिजितः पुत्र उत्पन्नस्तु पुनर्वसुः। अश्वमेधन्तु पुत्रार्थे आजहार नरोत्तमः ।। ३४.
तस्य मध्येऽतिरात्रस्य सदोमध्यात्समुत्थितम्। ततस्तु विद्वान् धर्मज्ञो दाता यज्वा पुनर्वसुः ।। ३४.
तस्यापि पुत्रमिथुनं बाहुबाणाजितः किल। आहुकश्चाहुकी चैव ख्यातौ मतिमतांवरौ ।। ३४.
इमांश्चोदाहरन्त्यत्र श्लोकान् प्रति तमाहुकम्। सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम् ।। ३४.
रथानां मेघघोषाणां सहस्राणि दशैव तु। नासत्यवादी त्वासीत्तु नायज्वा नासहस्रदः ।। ३४.
नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत्। आहुकस्य धृतिः पुत्र इत्येवमनु शुश्रुमः ।। ३४.
श्वेतेन परिचारेण किशोरप्रतिमान् हयान्। अशीतियुक्तनियुतान्याहुकप्रतिमोऽव्रजत् ।। ३४.
पूर्वस्यान्दिशि नागानां भोजस्य प्रतिरेजिरे। रूप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः ।। ३४.
तावन्त्येव सहस्राणि उत्तरस्यान्तथा दिशि। भूमिपालस्य भोजस्य उत्तिष्ठेत् किङ्किणी किल ।। ३४.