ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः। शतधन्वा न चाक्रूरमवैक्षत् सर्वतो दिशि ।। ३४.
अनष्टाश्वावरोहन्तु कृत्वा भोजजनार्दनौ। शक्तोऽपि साध्याद्वार्द्धक्यान्नाक्रूरोऽभ्युपपद्यत ।। ३४.
अपयाने ततो बुद्धिं भूयश्चक्रे भयान्वितः। योजनानां शतं साग्रं यया च प्रत्यपद्यत ।। ३४.
विज्ञातहृदया नाम शतयोजनगामिनी। भोजस्य वढवादित्यो यया कृष्णमयोधयत् ।। ३४.
प्रवृद्धवेगा वडवा त्वध्वनां शतयोजनम्। दृष्टा रथगतिस्तस्य शतधन्वानमर्द्दयत् ।। ३४.
ततस्तस्य हयास्ते तु श्रमात् खेदाच्च वै द्विजाः। खमुत्पेतू रथप्राणाः कृष्णो राममथाब्रवीत् ।। ३४.
तिष्ठस्वेह महाबाहो दृष्टदोषा मया हयाः। पद्य्भां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ।। ३४.
पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः। मिथिलाधिपतिं तं वै जघान परमास्त्रवित् ।। ३४.
स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम्। निवृत्तं चाब्रवीत् कृष्णं रत्नं देहीति लाङ्गली ।। ३४.
नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः। धिक्छब्दमसकृत् पूर्व्वं प्रत्युवाच जनार्द्दनम् ।। ३४.
भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम्। कृत्यं न मे द्रारकया न त्वया न च वृष्णिभिः ।। ३४.
प्रविवेश ततो रामो मिथिलामरिमर्द्दनः। सर्व्वकामैरुपहृतैर्मैथिलेनैव पूजितः ।। ३४.
एतस्मिन्नेव काले तु बभ्रुर्मतिमतांवरः। नानारूपान् क्रतून् सर्व्वानाजहार निरर्गलान् ।। ३४.
दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह। स्यमन्तककृते राजा गाधिपुत्रो महायशाः ।। ३४.
अर्थान् रत्नानि चाग्र्याणि द्रव्याणि विविधानि च । षष्टिवर्षगते काले यज्ञेषु विन्ययोजयत् ।। ३४.
अक्रूरयज्ञ इत्येते ख्यातास्तस्य महात्मनः। बह्वन्नदक्षिणाः सर्व्वे सर्व्वकामप्रदायिनः ।। ३४.
अथ दुर्य्योधनो राजा गत्वाऽथ मिथिलां प्रभुः। गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ।। ३४.
प्रसाद्य तु ततो विप्रा वृष्ण्यन्धकमहारथैः। आनीतो द्वारकामेव कृष्णेन च महात्मना ।। ३४.
अक्रूरमन्धकैः सार्द्धमुपायात् पुरुषर्षभः। युद्धे हत्वा तु शत्रुग्नं सह बन्धुमता बली ।। ३४.
श्वफल्कतनयायान्तु नरायां नरसत्तमौ। भङ्गकारस्य तनयो विश्रुतौ सुमहाबलौ ।। ३४.
जज्ञातेऽन्धकमुख्यस्य शत्रुघ्नो बन्धुमांश्च तौ। वधार्थं भङ्गकारस्य कृष्णो न प्रीतिमान् भवेत् ।। ३४.
ज्ञाति भेदभयाद्भीतः समुपेक्षितवांस्तथा। अपयाते तथाक्रूरे नावर्षत्पाकशासनः ।। ३४.
अनावृष्ट्या हतं राष्ट्रमभवत्तद्वघोद्यतम्। ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ।। ३४.
पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा। प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः ।। ३४.
कन्याञ्च वासुदेवाय स्वसारं शीलसम्मताम्। अक्रूरः प्रददौ श्रीमान् प्रीत्यर्थं यदुपुङ्गवः ।। ३४.
अत विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम्। सभामध्ये तदा प्राह तमक्रूरं जनार्दनः ।। ३४.
यच्च रत्नं मणिवरं तव हस्तगतं प्रभो। तत्प्रयच्छस्व मानार्ह विमतिञ्चात्र मा कृथाः ।। ३४.
षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम। सुसंरूढः सकृत् प्राप्तस्तत्कालाश्रित्य स महान् ।। ३४.
ततः कृष्णस्य वचनात् सर्व्वसात्वतसंसदि। प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ।। ३४.
तत आर्ज्जवसंप्राप्तबभ्रुहस्तादरिन्दमः। ददौ प्रहृष्टमनसा तं मणिं बभ्रवे पुनः ।। ३४.