स तु प्रसेनमृगयामचरत्तत्र चाप्यथ। प्रसेनस्य पदं गृह्य पुरुषै राप्तकारिभिः ।। ३४.
ऋक्षवन्तं गिरिवरं विन्ध्यञ्च नगमुत्तमम्। अन्वेषणपरिश्रान्तः स ददर्श महामनाः ।। ३४.
साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम्। अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ।। ३४.
ऋक्षेण निहतो दृष्टः पादैऋक्षस्य सूचिताम्। पदैरन्वेषयामास गुहामृक्षस्य यादवः ।। ३४.
महत्यतिबिले वाणीं शुश्राव प्रमदेरिताम्। धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः। प्रीतिमत्याथ मणिना मारोदीरित्युदीरिताम् ।। ३४.
प्रसेनमवधीत् सिंहः सिंहो जाम्बवता हतः। सुकुमारक मारोदीस्तव ह्येष स्यमन्तकः ।। ३४.
व्यक्तीकृतञ्च शब्दं तं तूर्णं सोऽपि ययौ बिलम्। अपश्यच्च विलाभ्याशे प्रसेनमवदारितम्।। ३४.
प्रविश्य चापि भगवास्तदृक्षबिलमञ्जसा। ददर्श ऋक्षराजानं जाम्बवन्तमुदारधीः ।। ३४.
युयुधे वासुदेवस्तु बिले जाम्बवता सह। बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ।। ३४.
प्रविष्टे च बिलं कृष्णे वासुदेव पुरःसराः । पुनर्द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ।। ३४.
वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम्। लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ।। ३४.
भगवत्तेजसा ग्रस्तो जाम्बवान् प्रसभं मणिम्। सुतां जाम्बवतीमाशु विष्वक्सेनाय दत्तवान् ।। ३४.
मणिं स्यमन्तकं चैव जग्राहात्म विशुद्धये। अनुनीय ऋक्षराजं निर्ययौ च तदा बिलात् ।। ३४.
एवं स मणिमादाय विशोद्ध्यात्मानमात्मना। ददौ सत्राजिते तं वै मणिं सात्वतसन्निधौ ।। ३४.
कन्यां पुनर्जाम्बवतीमुवाच मधुसूदनः। तस्मान्मिथ्याभिशापात् स व्यमुच्यत जनार्दनः ।। ३४.
इमां मिथ्याभिशस्तिं यः कृष्णस्येह व्यपोहिताम्। वेद मिथ्याभिशस्तेः स नाभिशस्यति कर्हिचित् ।। ३४.
दश स्वसृभ्यो भार्य्याभ्यः शत्रजित्तः शतं सुताः। ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्व्वजः। वीरो व्रतपतिश्चैव ह्यपस्वान्तश्च सुप्रियः ।। ३४.
अथ द्वारवती नाम भङ्गकारस्य सुप्रजा। सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः ।। ३४.
सत्य भामोत्तमा स्त्रीणां व्रतिनीव दृढव्रता। तथा तपस्विनी चैव पिता कृष्णस्य तां ददौ ।। ३४.
यत्तत् सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम्। प्रादात्तदाहरद्रत्नं भोजेन शतधन्वना ।। ३४.
तदा हि प्रार्थयामास सत्यभामामनिन्दिताम्। अक्रूरो रत्नमन्विच्छन् मणिञ्चैव स्यमन्तकम् ।। ३४.
भद्रकारं ततो हत्वा शतधन्वा महाबलः। रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ।। ३४.
अक्रूरस्तु तदा रत्नमादाय स नरर्षभः। समयं कारणं चक्रे बोध्यो नान्यैस्त्वयेत्युत ।। ३४.
वयमभ्युपपत्स्यामः कृष्णेन त्वं प्रधर्षितः। मम च द्वारकाः सर्वा वशे तिष्टन्त्यसंशयम् ।। ३४.
हते पितरि दुःशार्त्ता सत्यभामा यशस्विनी। प्रययौ रथमारुह्य नगरं वारणावतम् ।। ३४.
सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः। भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्तयत् ।। ३४.
पाण्डवानान्तु दग्धानां हरिः कृत्वोदकक्रियाम् । तुल्यार्थे चैव भ्रातॄणां नियोजयति सात्यकिम् ।। ३४.
तत स्त्वरितमागम्य द्वारकां मधुसूदनः। पूर्व्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ।। ३४.
हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना। स्यमन्तकमहं मार्गे तस्य प्रहर हे प्रभो ।। ३४.
तदारोह रथं शीघ्रं भोजं हत्वा महाबलम्। स्यमन्तको महाबाहो तदास्माकं भविष्यति ।। ३४.