यदा तस्मिन्नजायन्त काले पुत्रास्तु कर्मजाः। आज्यस्थाल्यामुपादाय स्वशुक्रं हुतवांश्च ह ।। ४.
शुक्रे हुतेऽथ तस्मिंस्तु प्रादुर्भूता महर्षयः। ज्वलन्तो वपुषा युक्ताः सप्त वै प्रसवैर्गुणैः ।। ४.
हुते चाग्नौ सकृच्छुक्रे ज्वालाया निःसृतः कविः। हिरण्यगर्भस्तं दृष्ट्वा ज्वालां भित्त्वा विनिःसृतम्। भृगुस्त्वमिति होवाच यस्मात्तस्मात्स वै भृगुः ।। ४.
महादेवस्तथोद्भूतं दृष्ट्वा ब्राह्मणमब्रवीत्। ममैष पुत्रकामस्य दीक्षितस्य त्वयं प्रभो। विजज्ञेऽथ भृगुर्द्देवो मम पुत्रो भवत्वयम् ।। ४.
तथोति समनुज्ञातो महादेवः स्वयम्भुवा। पुत्रत्वे कल्पयामास महादेवस्तथा भृगुम्। वारुणा भृगवस्तस्मात्तदपत्यञ्च स प्रभुः ।। ४.
द्वितीयन्तु ततः शुक्रमङ्गारेष्वपतत्प्रभुः। अङ्गारेष्वङ्गिरोऽङ्गानि संहितानि ततोऽङ्गिराः ।। ४.
सम्भूतिं तस्य तां दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत्। रेतोधास्तुभ्यमेवाहं द्वितीयोऽयं ममास्त्विति ।। ४.
एवमस्त्विति सोऽप्युक्तो ब्रह्मणा सदसस्पतिः। तस्मादङ्गिरसश्चापि आग्नेया इति नः श्रुतम् ।। ४.
षट्कृत्यस्तु पुनः शुक्रे ब्रह्मणा लोककारिणा। हुते समभवंस्तत्र षड्ब्रह्माण इति श्रुतिः ।। ४.
मरीचिः प्रथमस्तत्र मरीचिभ्यः समुत्थितः। क्रतौ तस्मिन् सुतो जज्ञे यतस्तस्मात्स वै क्रतुः ।। ४.
अहं तृतीय इत्यर्थस्तस्मादत्रिः स कीर्त्त्यते। केशैश्च निशितैर्भूतः पुलस्त्यस्तेन स स्मृतः ।। ४.
केशैर्लम्बैः समुद्भूतस्तस्मात्तु पुलहः स्मृतः । वसुमध्यात्समुत्पन्नो वसुमान् वसुधाश्रयः ।। ४.
वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते व्रह्मवादिभिः । इत्येते ब्रह्मणः पुत्रा मानसाः षण्महर्षयः ।। ४.
लोकस्य सन्तानकरास्तैरिमा वर्द्धिताः प्रजाः। प्रजापतय इत्येवं पठ्यन्ते ब्रह्मणः सुताः ।। ४.
अपरे पितरो नाम एतैरेव महर्षिभिः। उत्पादिता ऋषिगणाः सप्त लोकेषु विश्रुताः ।। ४.
मारीचा भार्गवाश्चैव तथैवाङ्गिरसोऽपरे। पौलस्त्याः पौलहाश्चैव वासिष्ठाश्चैव विश्रुताः। आत्रेयाश्च गणाः प्रोक्ताः पितॄणां लोकविश्रुताः ।। ४.
एते समासतस्तात पुरैव तु गुणास्त्रयः। अपूर्वश्च प्रकाशाश्च ज्योतिष्मन्तश्च विश्रुताः ।। ४.
तेषां राजा यमो देवो यमैर्विहितकल्मषाः। अपरे प्रजानां पतयस्ताञ्छृणुध्वमतन्द्रिताः ।। ४.
कर्द्दमः कश्यपः शेषो विक्रान्तः सुश्रुवास्तथा। बहुपुत्रः कुमारश्च विवस्वान् स शुचिश्रवाः ।। ४.
प्रचेतसोऽरिष्टनेमिर्बहुलस्व प्रजापतिः। इत्येवमादयोऽन्येऽपि बहवश्च प्रजेश्वराः ।। ४.
कुशोच्चया वालखिल्याः सम्भूताः परमर्षयः। मनोजवाः सर्वगताः सार्वभौमाश्च तेऽभवन् ।। ४.
जाता भस्मव्यपोहिन्यां ब्रह्मर्षिगणसम्मताः। वैखानसा मुनिगणास्तपःश्रुतपरायणाः ।। ४.
स्रोतोभ्यस्तस्य चोत्पन्नावश्विनौ रूपसम्मितौ। विदुर्जन्माक्षरजसो विमला नेत्रसम्भवाः ४.
ज्येष्ठाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे। ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवाः ।। ४.
दारुणा हि रुते मासा निर्यासाः पक्षसन्धयः। वत्सरा ये त्वहोरात्राः पित्रं ज्योतिश्च दारुणम् ।। ४.
रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम्। तन्मैत्रमिति विज्ञेयं धूमश्च पशवः स्मृताः ।। ४.
येऽर्च्चिषस्तस्य ते रुद्रास्तथादित्याः समुद्भवाः। अङ्गारेभ्यः समुत्पन्ना ज्योतिषो दिव्यमानुषाः ।। ४.
आदिमानस्य लोकस्य ब्रह्मा ब्रह्मसमुद्भवः। सर्वकामदमित्याहुस्तत्र कन्यामुदाहरन् ।। ४.
ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसीदति। इमे वै जनयिष्यन्ति प्रजाः सर्वाः प्रजेश्वराः ।। ४.
स्वे प्रजानां पतयः सर्वे चापि तपस्विनः। तत्प्रसादादिमाँल्लोकान्धारयेयुरिमाः क्रियाः ।। ४.