तस्यान्ववाये सुमहाभोजयेमार्तिकावलाः। गान्धारी चैव माद्री च वृष्णेर्भार्य्ये बभूवतुः ।। ३४.
गान्धारी जनयामास सुमित्रं मित्रनन्दनम्। माद्री युधाजितं पुत्रं सा तु वै देवमीढुषम् ।। ३४.
अनमित्रं सुतञ्चैव तावुभौ पुरुषोत्तमौ। अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ।। ३४.
प्रसेनश्च महाभागः शक्रजिच्च सुतावुभौ। तस्य शक्रजितः पूर्वः सखा प्राणसमोऽभवत् ।। ३४.
स कदाचिन्निशापाये रथेन रथिनांवरः। तोयकूलादपः स्प्रष्टुमुपस्थातुं ययौ रविम् ।। ३४.
तस्योपतिष्ठतः सूर्यो विवस्वानग्रतः स्थितः। अस्पष्टमूर्तिर्भगवां स्तेजोमण्डलवान् विभुः ।। ३४.
अथ राजा विवस्वन्तमुवाच स्थितमग्रतः। यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषाम्पते ।। ३४.
तेजोमण्डलिनञ्चैव तथैवाप्यग्रतः स्थितम्। को विशेषो विवस्वंस्ते साक्षादुपगतेन वै ।। ३४.
एतच्छ्रुत्वा स भगवान् मणिरत्नं स्यमन्तकम्। स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ।। ३४.
ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा। प्रतिमामथ तां दृष्ट्वा मुहूर्त्तं कृतवांस्तथा ।। ३४.
तमतिप्रस्थितं भूयो विवस्वन्तं स शक्रजित्। प्रोवाचाग्निसवर्णं त्वं येन लोकान् प्रयास्यति। तदैव मणिरत्नं तन्मां भवान् दातुमर्हति ।। ३४.
स्यमन्तकं नाम मणिं दत्तवांस्तस्य भास्करः। स तमाबद्ध्य नगरं प्रविवेश महीपतिः ।। ३४.
तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह। सभां विस्माययित्वाथ पुरीमन्तःपुरं तथा ।। ३४.
तं प्रसेनिजिते दिव्यं मणिरत्नं स्यमन्तकम्। ददौ भ्रात्रे नरपतिः प्रेम्णा शक्रजिदुत्तमम् ।। ३४.
स्यमन्तको नाम मणिर्यस्य राष्ट्रे स्थितो भेवत् । कालवर्षी च पर्जन्यो न च व्याधिभयं तदा ।। ३४.
लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम्। गोविन्दो न च तं लेभे शक्तोऽपि न जहार च ।। ३४.
कदा चिन्मृगयां यातः प्रसेनस्तेन भूषितः। स्यमन्तककृते सिंहाद्वधं प्राप्तः सुदारुणम् ।। ३४.
जाम्बवानृक्षराजस्तु तं सिंहं निजघान वै । आदाय च मणिं दिव्यं स्वं बिलं प्रविवेश ह ।। ३४.
तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः। मणौगृध्नुन्तु मन्वानास्तमेव विशशङ्किरे ।। ३४.
मिथ्याभिशस्तिं तेभ्यस्तां बलवानरिसूदनः। अमृष्यमाणो भगवान् वनं स विचचार ह ।। ३४.
स तु प्रसेनमृगयामचरत्तत्र चाप्यथ। प्रसेनस्य पदं गृह्य पुरुषै राप्तकारिभिः ।। ३४.
ऋक्षवन्तं गिरिवरं विन्ध्यञ्च नगमुत्तमम्। अन्वेषणपरिश्रान्तः स ददर्श महामनाः ।। ३४.
साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम्। अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ।। ३४.
ऋक्षेण निहतो दृष्टः पादैऋक्षस्य सूचिताम्। पदैरन्वेषयामास गुहामृक्षस्य यादवः ।। ३४.
महत्यतिबिले वाणीं शुश्राव प्रमदेरिताम्। धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः। प्रीतिमत्याथ मणिना मारोदीरित्युदीरिताम् ।। ३४.
प्रसेनमवधीत् सिंहः सिंहो जाम्बवता हतः। सुकुमारक मारोदीस्तव ह्येष स्यमन्तकः ।। ३४.
व्यक्तीकृतञ्च शब्दं तं तूर्णं सोऽपि ययौ बिलम्। अपश्यच्च विलाभ्याशे प्रसेनमवदारितम्।। ३४.
प्रविश्य चापि भगवास्तदृक्षबिलमञ्जसा। ददर्श ऋक्षराजानं जाम्बवन्तमुदारधीः ।। ३४.
युयुधे वासुदेवस्तु बिले जाम्बवता सह। बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ।। ३४.
प्रविष्टे च बिलं कृष्णे वासुदेव पुरःसराः । पुनर्द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ।। ३४.