देवनात् स मधुर्जज्ञे यस्य मेधार्थसम्भवः। मधोश्चापि महातेजा मनुर्मनुवशस्तथा ।। ३३.
नन्दनश्च महातेजा महापुरुवशस्तथा। आसीत् पुरुवशात् पुत्रः पुरुद्वान् पुरुषोत्तमः ।। ३३.
जज्ञे पुरुद्वतः पुत्रो भद्रवत्यां पुरूद्वहः। ऐक्षाकी त्वभवद्भार्या सत्त्वस्तस्यामजायत। सत्त्वात् सत्त्वगुणो पेतः सात्त्वतः कीर्तिवर्द्धनः ।। ३३.
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः। प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः ।। ३३.
सूत उवाच।। सात्वती रूपसम्पन्नं कौशल्या सुषुवे सुतम्। भजिनं भजमानं च दिव्यं देवावृधं नृपम् ।। ३४.
अन्धकञ्च सहाभोजं वृष्णिञ्च यदुनन्दनम्। तेषां हि सर्गाश्चत्वारः श्रृणुध्वं विस्तरेण वै ।। ३४.
भजमानस्य श्रृञ्जय्यां बाह्यश्चोपरि बाह्यकः। श्रृञ्जयस्य सुते द्वे तु बाह्यकस्ते उदावहत् ।। ३४.
तस्य भार्ये भगिन्यौ ते प्रासूतेति सुतान् बहून्। निमिश्च पणवश्चैव वृष्णिः परपुरञ्जयः ।। ३४.
ये बाह्यकार्य्यश्रृञ्जय्यां भजमानाद्विजज्ञिरे। अयुतायुतसाहस्र शतजिदथ वामकः ।। ३४.
बाह्यकार्य्याभगिन्यां ये भजमाना द्विजज्ञिरे। तेषां देवावृधो राजा चचार परमं तपः ।। ३४.
पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह। संयोज्यात्मानमेवं सवर्णा सा जलमस्पृशत् ।। ३४.
सा चोपस्पर्शनात्तस्य चकार ऋषिमापगा। कल्याणञ्च नरपतेस्तस्य सा निम्नगोत्तमा ।। ३४.
चिन्तयाभिपरीताङ्गा जगामाथ विनिश्चयम्। नाधिगच्छामि तां नारीं यस्यामेवंविधः सुतः ।। ३४.
भवेत्सर्वगुणोपेतो राज्ञो देवावृधस्य हि। तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता। जज्ञे तस्याः स्वयं हस्तो भावस्तस्य यथेरितः ।। ३४.
अथ भूत्वा कुमारी तु सावित्री परमं वचः। चिन्तयामास राजानं तामियेष स पर्थिवः ।। ३४.
तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः। अथ सा नवमे मासि सुषुवे सरितांवरा ।। ३४.
पुत्रं सर्वगुणोपेतं यथा देवावृधेप्सितः। तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः ।। ३४.
गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः। यथैव श्रृणुते दूरात् संपश्यति तथान्तिकात् ।। ३४.
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः। पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः। येऽमृतत्वमनुप्राप्ता बभ्रुर्देवावृधादपि ।। ३४.
यज्वा दानपतिर्वीरो ब्रह्मण्यः सत्य वाग् बुधः। कीर्त्तिमांश्च महाभागः सात्त्वतानां महारथः ।। ३४.
तस्यान्ववाये सुमहाभोजयेमार्तिकावलाः। गान्धारी चैव माद्री च वृष्णेर्भार्य्ये बभूवतुः ।। ३४.
गान्धारी जनयामास सुमित्रं मित्रनन्दनम्। माद्री युधाजितं पुत्रं सा तु वै देवमीढुषम् ।। ३४.
अनमित्रं सुतञ्चैव तावुभौ पुरुषोत्तमौ। अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ।। ३४.
प्रसेनश्च महाभागः शक्रजिच्च सुतावुभौ। तस्य शक्रजितः पूर्वः सखा प्राणसमोऽभवत् ।। ३४.
स कदाचिन्निशापाये रथेन रथिनांवरः। तोयकूलादपः स्प्रष्टुमुपस्थातुं ययौ रविम् ।। ३४.
तस्योपतिष्ठतः सूर्यो विवस्वानग्रतः स्थितः। अस्पष्टमूर्तिर्भगवां स्तेजोमण्डलवान् विभुः ।। ३४.
अथ राजा विवस्वन्तमुवाच स्थितमग्रतः। यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषाम्पते ।। ३४.
तेजोमण्डलिनञ्चैव तथैवाप्यग्रतः स्थितम्। को विशेषो विवस्वंस्ते साक्षादुपगतेन वै ।। ३४.
एतच्छ्रुत्वा स भगवान् मणिरत्नं स्यमन्तकम्। स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ।। ३४.
ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा। प्रतिमामथ तां दृष्ट्वा मुहूर्त्तं कृतवांस्तथा ।। ३४.