पुत्रस्तु रुक्मकवचो विद्वान् कम्बलवर्हिषः। निहत्य रुक्मकवचः पुरा कवचिनो रणे ।। ३३.
धन्विनो निशितैर्बाणैरवाप श्रियमुत्तमाम्। ब्राह्मणेभ्यो ददौ वित्तमश्वमेधमहायशाः ।। ३३.
राज्ञस्तु रुक्मकवचादपरावृत्त्य वीरहाः। जज्ञिरे पञ्च पुत्रास्तु महासत्त्वा महाबलाः ।। ३३.
रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः। परिघञ्च हरिञ्चैव विदेहे स्थापयत्पिता ।। ३३.
ब्रह्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः। तेभ्यः प्रव्रजितो राज्या ज्ज्यामघोऽभवदाश्रमे ।। ३३.
प्रशान्तस्तु वने घोरे ब्राह्मणेनावबोधितः। जगाम धनुरादाय देशमध्यं रथी ध्वजी ।। ३३.
नर्म्मदानूप एकाकी मेकलावृत्तिका अपि। ऋक्षवन्तं गिरिं गत्वा शुक्तिमन्यामथाविशत् ।। ३३.
ज्यामघस्याभवद्भार्या शैभ्या बलवती भृशम्। अपुत्रोऽपि स वै राजा भार्यामन्यां न विन्दति ।। ३३.
तस्यासीद्विजयो युद्धे ततः कन्यामवाप सः। भार्यामुवाच राजा स स्नुषेति तु नरेश्वरः ।। ३३.
एवमुक्ताब्रवीदेवं काम्ये यन्ते स्नुषेति सा। यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति ।। ३३.
तस्य सा तपसोग्रेण शैब्या वैशं प्रसूयत । पुत्रं विदर्भं सुभगा शैब्या परिणता सती ।। ३३.
राजपुत्रौ तु विद्वांसौ स्नुषायां क्रथुकौशिकौ। पुत्रौ विदर्भोऽजनयच्छूरौ रणविशारदौ ।। ३३.
लोमपादं तृतीयन्तु पश्चाज्जज्ञे सुधार्मिकः। लोम पादात्मजोवस्तुराहृतिस्तस्य चात्मजः ।। ३३.
कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः । क्रथोर्विदर्भपुत्रस्तु कुन्तिस्तस्यात्मजोऽभवत् ।। ३३.
कुन्तेर्धृष्टसुतो जज्ञे पुरोधृष्टः प्रतापवान् । धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा ।। ३३.
तस्य पुत्रो दशार्हस्तु महाबलपराक्रमः। दशर्हस्य सुतो व्योमा ततो जीमूत उच्यते ।। ३३.
जीमूतपुत्रो विकृतिस्तस्य भीमरथः सुतः. अथ भीमरथस्यासीत् पुत्रो रथवरः किल ।। ३३.
दाता धर्म्मरतो नित्यं शीलसत्यपरायणः। तस्य पुत्रो नवरथस्ततो दशरथः स्मृतः ।। ३३.
तस्य चैकादशरथः शकुनिस्तस्य चात्मजः। तस्मात् करम्भको धन्वी देवरातोऽभवत्ततः ।। ३३.
देवक्षत्रोऽभवद्राजा देवरातिर्म्महायशाः। देवक्षत्रसुतो जज्ञे देवनः क्षत्रनन्दनः ।। ३३.
देवनात् स मधुर्जज्ञे यस्य मेधार्थसम्भवः। मधोश्चापि महातेजा मनुर्मनुवशस्तथा ।। ३३.
नन्दनश्च महातेजा महापुरुवशस्तथा। आसीत् पुरुवशात् पुत्रः पुरुद्वान् पुरुषोत्तमः ।। ३३.
जज्ञे पुरुद्वतः पुत्रो भद्रवत्यां पुरूद्वहः। ऐक्षाकी त्वभवद्भार्या सत्त्वस्तस्यामजायत। सत्त्वात् सत्त्वगुणो पेतः सात्त्वतः कीर्तिवर्द्धनः ।। ३३.
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः। प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः ।। ३३.
सूत उवाच।। सात्वती रूपसम्पन्नं कौशल्या सुषुवे सुतम्। भजिनं भजमानं च दिव्यं देवावृधं नृपम् ।। ३४.
अन्धकञ्च सहाभोजं वृष्णिञ्च यदुनन्दनम्। तेषां हि सर्गाश्चत्वारः श्रृणुध्वं विस्तरेण वै ।। ३४.
भजमानस्य श्रृञ्जय्यां बाह्यश्चोपरि बाह्यकः। श्रृञ्जयस्य सुते द्वे तु बाह्यकस्ते उदावहत् ।। ३४.
तस्य भार्ये भगिन्यौ ते प्रासूतेति सुतान् बहून्। निमिश्च पणवश्चैव वृष्णिः परपुरञ्जयः ।। ३४.
ये बाह्यकार्य्यश्रृञ्जय्यां भजमानाद्विजज्ञिरे। अयुतायुतसाहस्र शतजिदथ वामकः ।। ३४.
बाह्यकार्य्याभगिन्यां ये भजमाना द्विजज्ञिरे। तेषां देवावृधो राजा चचार परमं तपः ।। ३४.