सूर्य उवाच।। स्थावरं देहि मे सर्वमाहारं ददतां वर। तेन तृप्तो भवेयं वै न तुष्येऽन्येन पार्थिव ।। ३३.
राजोवाच ।। न शक्यं स्थावरं सर्व्वं तेजसा मानुषेण तु। निर्द्दग्धुं तपतां श्रेष्ठ त्वामेव प्रणमाम्यहम् ।। ३३.
आदित्य उवाच।। तुष्टस्तेऽहं शरान् दझि अक्षयान् सर्वतः सुखान्। प्रक्षिप्ताः प्रज्वलिष्यन्ति मम तेजःसमन्विताः ।। ३३.
आदिष्टं तेजसा मेघसागरं शोषयिष्यति। शुष्कं भस्म करिष्यामि तेन प्रीतो नराधिप ।। ३३.
ततः शरानथादित्यस्त्वर्जुनाय प्रयच्छति। ततः संप्राप्य सुमहत्स्थावरं सर्व्वमेव हि ।। ३३.
आश्रमानथ ग्रामांश्च घोषांश्च नगराणि च। तपोवनानि रम्याणि वनान्युपवनानि च ।। ३३.
एवं प्राचीनमदहत्ततः सूर्य्यप्रदक्षिणम्। निर्वृक्षा निस्तृणा भूमिर्दग्धा सूर्येण तेजसा ।। ३३.
एतस्मिन्नेव काले तु अपो निलयमाश्रितः। दशवर्षसहस्राणि जलवासा महानृषिः ।। ३३.
पूर्णे व्रते महातेजा उदतिष्ठत्तपोधनः। सोऽपश्यदाश्रमं दग्धमर्जुनेन महानृषिः। क्रोधाच्छशाप राजर्षिं कीर्त्तितं वो यथा मया ।। ३३.
सूत उवाच।। क्रोष्टोः श्रृणुत राजर्षेर्वंशमुत्तमपूरुषम्। यस्यान्ववाये संभूतो वृष्णिर्वृष्णिकुलोद्वहः ।। ३३.
क्रोष्टोरेकोऽभवत् पुत्रो वृजिनीवान् महायशाः। वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहोवतां वरम् ।। ३३.
स्वाहेः पुत्रोऽभवद्राजा रशादुर्ददतां वरः। घृतम्प्रसूतमिच्छन्ति रशादोरग्र्यमात्मजम् ।। ३३.
महाक्रतुभिरीजे स विविधैराप्तदक्षिणैः। चित्रैश्चित्ररथस्तस्य पुत्र कर्म्मभिरन्वितः ।। ३३.
एवं चित्ररथो वीरो यज्ञान् विपुलदक्षिणान्। शशबिन्दुः परं वृत्तो राजर्षीणामनुष्ठितः ।। ३३.
चक्रवर्त्ती महासत्त्वो महावीर्यो बहुप्रजः। तत्रानुवंशश्लोकोऽयं यस्मिन् गीतः पुराविदैः ।। ३३.
शशबिन्दोस्तु पुत्राणां शतानामभवच्छतम्। धीमतामनुरूपाणां भूरिद्रविणतेजसाम् ।। ३३.
तेषां षट् च प्रधानास्तु पृथुषाट्का महाबलाः। पृथुश्रवा पृथुयशाः पृथुधर्म्मा पृथुञ्जयः ।। ३३.
पृथुकीर्त्तिः पृथुन्दाता राजानः शाशिबिन्दवाः। शंसन्ति च पुराणानि पार्थश्रवसमन्तरम्। अन्तरः स पुरा यस्तु यज्ञस्य तनयोऽभवत् ।। ३३.
उशना सुतधर्म्मात्मा अवाप्य पृथिवीमिमाम्। आजहाराश्वमेधानां शतमुत्तमधार्म्मिकः ।। ३३.
मरुत्तस्तस्य तनयो राजर्षीणामनुष्ठितः। वीरः कम्बलबर्हिस्तु मरुत्ततनयः स्मृतः ।। ३३.
पुत्रस्तु रुक्मकवचो विद्वान् कम्बलवर्हिषः। निहत्य रुक्मकवचः पुरा कवचिनो रणे ।। ३३.
धन्विनो निशितैर्बाणैरवाप श्रियमुत्तमाम्। ब्राह्मणेभ्यो ददौ वित्तमश्वमेधमहायशाः ।। ३३.
राज्ञस्तु रुक्मकवचादपरावृत्त्य वीरहाः। जज्ञिरे पञ्च पुत्रास्तु महासत्त्वा महाबलाः ।। ३३.
रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः। परिघञ्च हरिञ्चैव विदेहे स्थापयत्पिता ।। ३३.
ब्रह्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः। तेभ्यः प्रव्रजितो राज्या ज्ज्यामघोऽभवदाश्रमे ।। ३३.
प्रशान्तस्तु वने घोरे ब्राह्मणेनावबोधितः। जगाम धनुरादाय देशमध्यं रथी ध्वजी ।। ३३.
नर्म्मदानूप एकाकी मेकलावृत्तिका अपि। ऋक्षवन्तं गिरिं गत्वा शुक्तिमन्यामथाविशत् ।। ३३.
ज्यामघस्याभवद्भार्या शैभ्या बलवती भृशम्। अपुत्रोऽपि स वै राजा भार्यामन्यां न विन्दति ।। ३३.
तस्यासीद्विजयो युद्धे ततः कन्यामवाप सः। भार्यामुवाच राजा स स्नुषेति तु नरेश्वरः ।। ३३.
एवमुक्ताब्रवीदेवं काम्ये यन्ते स्नुषेति सा। यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति ।। ३३.