तस्य पुत्रशतं ह्येव तालजङ्घा इति श्रुतम्। तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् ।। ३२.
वीरहोत्रा ह्यसङ्ख्याता भोजाश्चावर्तयस्तथा। तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च ।। ३२.
वीरहोत्रसुतश्चापि अनन्तो नाम पार्थिवः। दुर्जयस्तस्य पुत्रस्तु बभूवामित्रदर्शनः ।। ३२.
अनष्टद्रव्यता चैव तस्य राज्ञो बभूव ह। प्रभावेण महाराजः प्रजास्ताः पर्य्यपालयत् ।। ३२.
न तस्य वित्तनाशश्च नष्टं प्रतिलभेत सः। कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः ।। ३२.
वित्तवान् भवत्यत्रैव धर्म्मश्चास्य विवर्द्धते। यथा त्वष्टा यथा दाता तथा स्वर्गे महीयते ।। ३२.
ऋषय ऊचुः।। किमर्थं भुवनं दग्धमपवस्यं महात्मनाम्। कार्तवीर्येण विक्रम्य तन्नः प्रब्रूहि पृच्छताम् ।। ३३.
रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम्। कथं स रक्षिता भूत्वानाशयत्तत्तपोवनम् ।। ३३.
सूत उवाच।। आदित्यो विप्ररूपेण कार्तवीर्यमुपस्थितः। तृप्तिकामः प्रयच्छान्नमादित्योऽहं न संशयः ।। ३३.
राजोवाच।। भगवन् केन ते तुष्टिर्भवेद्ब्रूहि दिवाकर। कीदृशं भोजनं दझि श्रुत्वा च विदधाम्यहम् ।। ३३.
सूर्य उवाच।। स्थावरं देहि मे सर्वमाहारं ददतां वर। तेन तृप्तो भवेयं वै न तुष्येऽन्येन पार्थिव ।। ३३.
राजोवाच ।। न शक्यं स्थावरं सर्व्वं तेजसा मानुषेण तु। निर्द्दग्धुं तपतां श्रेष्ठ त्वामेव प्रणमाम्यहम् ।। ३३.
आदित्य उवाच।। तुष्टस्तेऽहं शरान् दझि अक्षयान् सर्वतः सुखान्। प्रक्षिप्ताः प्रज्वलिष्यन्ति मम तेजःसमन्विताः ।। ३३.
आदिष्टं तेजसा मेघसागरं शोषयिष्यति। शुष्कं भस्म करिष्यामि तेन प्रीतो नराधिप ।। ३३.
ततः शरानथादित्यस्त्वर्जुनाय प्रयच्छति। ततः संप्राप्य सुमहत्स्थावरं सर्व्वमेव हि ।। ३३.
आश्रमानथ ग्रामांश्च घोषांश्च नगराणि च। तपोवनानि रम्याणि वनान्युपवनानि च ।। ३३.
एवं प्राचीनमदहत्ततः सूर्य्यप्रदक्षिणम्। निर्वृक्षा निस्तृणा भूमिर्दग्धा सूर्येण तेजसा ।। ३३.
एतस्मिन्नेव काले तु अपो निलयमाश्रितः। दशवर्षसहस्राणि जलवासा महानृषिः ।। ३३.
पूर्णे व्रते महातेजा उदतिष्ठत्तपोधनः। सोऽपश्यदाश्रमं दग्धमर्जुनेन महानृषिः। क्रोधाच्छशाप राजर्षिं कीर्त्तितं वो यथा मया ।। ३३.
सूत उवाच।। क्रोष्टोः श्रृणुत राजर्षेर्वंशमुत्तमपूरुषम्। यस्यान्ववाये संभूतो वृष्णिर्वृष्णिकुलोद्वहः ।। ३३.
क्रोष्टोरेकोऽभवत् पुत्रो वृजिनीवान् महायशाः। वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहोवतां वरम् ।। ३३.
स्वाहेः पुत्रोऽभवद्राजा रशादुर्ददतां वरः। घृतम्प्रसूतमिच्छन्ति रशादोरग्र्यमात्मजम् ।। ३३.
महाक्रतुभिरीजे स विविधैराप्तदक्षिणैः। चित्रैश्चित्ररथस्तस्य पुत्र कर्म्मभिरन्वितः ।। ३३.
एवं चित्ररथो वीरो यज्ञान् विपुलदक्षिणान्। शशबिन्दुः परं वृत्तो राजर्षीणामनुष्ठितः ।। ३३.
चक्रवर्त्ती महासत्त्वो महावीर्यो बहुप्रजः। तत्रानुवंशश्लोकोऽयं यस्मिन् गीतः पुराविदैः ।। ३३.
शशबिन्दोस्तु पुत्राणां शतानामभवच्छतम्। धीमतामनुरूपाणां भूरिद्रविणतेजसाम् ।। ३३.
तेषां षट् च प्रधानास्तु पृथुषाट्का महाबलाः। पृथुश्रवा पृथुयशाः पृथुधर्म्मा पृथुञ्जयः ।। ३३.
पृथुकीर्त्तिः पृथुन्दाता राजानः शाशिबिन्दवाः। शंसन्ति च पुराणानि पार्थश्रवसमन्तरम्। अन्तरः स पुरा यस्तु यज्ञस्य तनयोऽभवत् ।। ३३.
उशना सुतधर्म्मात्मा अवाप्य पृथिवीमिमाम्। आजहाराश्वमेधानां शतमुत्तमधार्म्मिकः ।। ३३.
मरुत्तस्तस्य तनयो राजर्षीणामनुष्ठितः। वीरः कम्बलबर्हिस्तु मरुत्ततनयः स्मृतः ।। ३३.