चूर्णीकृतमहावीचिलीनमीनमहाविषाः। पतिता विद्धफेनौघमावर्त्तक्षिप्तदुस्सहम् ।। ३२.
चकार क्षोभयन्राजा दोःसहस्रेण सागरम्। देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम् ।। ३२.
मन्दरक्षोभणकृता ह्यमृतोदकशङ्कि ताः। सहसोत्पादिता भीता भीमं दृष्ट्वा नृपोत्तमम् ।। ३२.
नतनिश्चलमूर्द्धानो बभूवुश्च महोरगाः। सायाह्ने कदलीषण्डा निर्वातस्तिमिता इव ।। ३२.
स वै बद्ध्वा धनुर्यान उत्सिक्तः पञ्चभिः शतैः। लङ्कायां मोहयित्वा तु सबलं रावणं बलात्। निर्जित्य बद्ध्वा चानीय माहिष्मत्यां बबन्ध तम् ।। ३२.
ततो गत्वा पुलस्त्यस्तु अर्जुनं च प्रसादयत्। मुमोच राजा पौलस्त्यं पुलस्त्येनानुपालितम् ।। ३२.
तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः। युगान्तेऽम्बुदवृक्षस्य स्फुटितस्याशनेरिव ।। ३२.
अहो मृधे महावीर्यं भार्गवो यस्य सोऽच्छिनत्। मृधे सहस्रं बाहूनां हेमतालवनं यथा ।। ३२.
तृषितेन कदाचित्स भिक्षितश्चित्रभानुना। सप्त द्वीपांश्चित्रभानोः प्रादाद्भिक्षां विशाम्पतिः ।। ३२.
पुराणि घोषान् ग्रामांश्च पत्तनानि च सर्व्वशः ३२.
स तस्य पुरुषेन्द्रस्य प्रभावेण महायशाः। ददाह कार्तवीर्यस्य शैलांश्चापि वनानि च ।। ३२.
स शून्यमाश्रमं सर्वं वरुणस्यात्मजस्य वै। ददोह सवनद्वीपांश्चित्रभानुः सहैहयः ।। ३२.
संलेभे वरुणः पुत्रं पुरा भास्विनमुत्तमम्। वसिष्ठनामा स मुनिः ख्यातश्चापः श्रितः श्रुतः ।। ३२.
तत्रापदस्तदा क्रोधादर्जुनं शप्तवान्विभुः। यस्मान्न वर्जितमिदं वनं ते मम हैहय ।। ३२.
तस्मात् ते दुष्करं कर्म्म कृतमन्यो हनिष्यति। अर्जुनो नाम कौन्तेयो न च राजा भविष्यति ।। ३२.
अर्जुन त्वां महावीर्यो रामः प्रहरतां वरः। छित्त्वा बाहुसहस्रं वै प्रमथ्य तरसा बलीं ।। ३२.
तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः। तस्य रामस्तदा ह्यासीन्मृत्युशापेन धीमतः ।। ३२.
राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा। तस्य पुत्रशतं ह्यासीत् पञ्च तत्र महारथाः ।। ३२.
कृतास्त्रा बलिनः शूरा धर्म्मात्मानो यशस्वनः । शूरश्च शूरसेनश्च वृष्ट्याद्यं वृष एव च ।। ३२.
जयध्वजश्च वै पुत्रा अवन्तिषु विशांपतेः। जयध्वजस्य पुत्रस्तु तालजङ्घः प्रतापवान् ।। ३२.
तस्य पुत्रशतं ह्येव तालजङ्घा इति श्रुतम्। तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् ।। ३२.
वीरहोत्रा ह्यसङ्ख्याता भोजाश्चावर्तयस्तथा। तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च ।। ३२.
वीरहोत्रसुतश्चापि अनन्तो नाम पार्थिवः। दुर्जयस्तस्य पुत्रस्तु बभूवामित्रदर्शनः ।। ३२.
अनष्टद्रव्यता चैव तस्य राज्ञो बभूव ह। प्रभावेण महाराजः प्रजास्ताः पर्य्यपालयत् ।। ३२.
न तस्य वित्तनाशश्च नष्टं प्रतिलभेत सः। कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः ।। ३२.
वित्तवान् भवत्यत्रैव धर्म्मश्चास्य विवर्द्धते। यथा त्वष्टा यथा दाता तथा स्वर्गे महीयते ।। ३२.
ऋषय ऊचुः।। किमर्थं भुवनं दग्धमपवस्यं महात्मनाम्। कार्तवीर्येण विक्रम्य तन्नः प्रब्रूहि पृच्छताम् ।। ३३.
रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम्। कथं स रक्षिता भूत्वानाशयत्तत्तपोवनम् ।। ३३.
सूत उवाच।। आदित्यो विप्ररूपेण कार्तवीर्यमुपस्थितः। तृप्तिकामः प्रयच्छान्नमादित्योऽहं न संशयः ।। ३३.
राजोवाच।। भगवन् केन ते तुष्टिर्भवेद्ब्रूहि दिवाकर। कीदृशं भोजनं दझि श्रुत्वा च विदधाम्यहम् ।। ३३.