तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः। पूर्व्वं बाहुसहस्रन्तु स वव्रे प्रथमं वरम् ।। ३२.
अधर्म्मे दीयमानस्य सद्भिस्तस्मान्निवारणम्। धर्म्मेण पृथिवीञ्जित्वा धर्म्मेणैवानुपालनम् ।। ३२.
संग्रामांस्तु बहून् जित्त्वा हत्वा चारीन् सहस्रशः। संग्रामे युद्धयमानस्य वधः स्यादधिकाद्रणे ।। ३२.
तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना । सप्तोदधिपरिक्षिप्ता क्षात्रेण विधिना जनाः ।। ३२.
तस्य बाहुसहस्रन्तु युद्ध्यतः किल धीमतः। यौद्धो ध्वजो रथश्चैव प्रादुर्भवति मायया ।। ३२.
दशयज्ञसहस्राणि तेषु द्वीपेषु सप्तसु। निरर्गलाः स्म निर्वृत्ताः श्रूयन्ते तस्य धीमतः ।। ३२.
सर्वे यज्ञा महाबाहोस्तस्यासन् भूरितेजसः। सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ।। ३२.
सर्वे देवैर्म्माहाभागैर्विमानस्थैरलंकृताः। गन्धर्व्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ।। ३२.
तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तथा। चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च ।। ३२.
न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति मानवाः। यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ।। ३२.
द्वीपेषु सप्तसु स वै खड्गी वरशरासनी। रथी राजाप्यनुचरोऽन्योऽगाच्चैवानुदृश्यते ।। ३२.
अनष्टद्रव्यश्चैवासीन्न शोको न च विभ्रमः। प्रभावेण महाराज्ञः प्रजा धर्म्मेण रक्षतः ।। ३२.
पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः। सप्त सप्त वारान् सम्राट् चक्रवर्त्ती बभूव ह ।। ३२.
स एव पशुपालोऽभूत् क्षेत्रपालस्तथैव च। स एव वृष्ट्या पर्जन्यो योगित्वादर्ज्जुनोऽभवत् ।। ३२.
स वै बाहुसहस्रेण ज्याघातकठिनेन च । भाति रश्मिसहस्रेण शारदेनेव भास्करः ।। ३२.
स हि नागसहस्रेण माहिष्मत्यां नराधिपः। कर्कोटकसभाञ्जित्वा पुरीं तत्र न्यवेशयत् ।। ३२.
स वै वेगे समुद्रस्य प्रावृट्कालाम्बुजेक्षणः । क्रीडन्निव सुखोद्विग्नः प्रावृट्कालञ्चकार ह ।। ३२.
लुलिता क्रीडता तेन हेमस्रग्दाममालिनी। ऊर्म्मिभ्रूकुटिसन्नादा शङ्किताभ्येति नर्मदा ।। ३२.
पुरा स तामनुसरन्नवगाढो महार्णवम्। चकारोद्धृत्त्य वेलान्तं स कालः प्रावृणोद्वनम् ।। ३२.
तस्य बाहु सहस्रेण क्षोभ्यमाणे महादधौ। भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ।। ३२.
चूर्णीकृतमहावीचिलीनमीनमहाविषाः। पतिता विद्धफेनौघमावर्त्तक्षिप्तदुस्सहम् ।। ३२.
चकार क्षोभयन्राजा दोःसहस्रेण सागरम्। देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम् ।। ३२.
मन्दरक्षोभणकृता ह्यमृतोदकशङ्कि ताः। सहसोत्पादिता भीता भीमं दृष्ट्वा नृपोत्तमम् ।। ३२.
नतनिश्चलमूर्द्धानो बभूवुश्च महोरगाः। सायाह्ने कदलीषण्डा निर्वातस्तिमिता इव ।। ३२.
स वै बद्ध्वा धनुर्यान उत्सिक्तः पञ्चभिः शतैः। लङ्कायां मोहयित्वा तु सबलं रावणं बलात्। निर्जित्य बद्ध्वा चानीय माहिष्मत्यां बबन्ध तम् ।। ३२.
ततो गत्वा पुलस्त्यस्तु अर्जुनं च प्रसादयत्। मुमोच राजा पौलस्त्यं पुलस्त्येनानुपालितम् ।। ३२.
तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः। युगान्तेऽम्बुदवृक्षस्य स्फुटितस्याशनेरिव ।। ३२.
अहो मृधे महावीर्यं भार्गवो यस्य सोऽच्छिनत्। मृधे सहस्रं बाहूनां हेमतालवनं यथा ।। ३२.
तृषितेन कदाचित्स भिक्षितश्चित्रभानुना। सप्त द्वीपांश्चित्रभानोः प्रादाद्भिक्षां विशाम्पतिः ।। ३२.
पुराणि घोषान् ग्रामांश्च पत्तनानि च सर्व्वशः ३२.