न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ।। ३१.
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ।। ३१.
यदा तु कुरुते भावं सर्व्वभूतेषु पावकम्। कर्म्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ।। ३१.
यदा परान्न बिभेति यदा त्वस्मान्न बिभ्यति। यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ।। ३१.
या दुस्त्यजा दुर्म्मतिभिर्या न जीर्यति जीर्य्यतः। दोषाप्राणान्तिको रागस्तां तृष्णान्त्यजतः सुखम् ।। ३१.
जीर्य्यन्ति जीर्यतः कोशा दन्ता जीर्यन्ति जर्यितः। जीविताशा धनाशा च जीर्य्यतोपि न जीर्यति ।। ३१.
यच्चाकामसुखं लोके यच्च दिव्यं महत् सुखम्। तृष्णास्य च सुखस्यैव कलां नार्हति षोडशीम् ।। ३१.
एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम्। भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः। पालयित्वा व्रतशतं तत्रैव स्वर्गमाप्नुयात् ।। ३१.
तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः। यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभस्तिभिः ।। ३१.
धन्यः प्रजावानायुष्मान् कीर्तिमांश्च भवेन्नरः। ययातेश्चरितं सर्वं पठञ्छृण्वन् द्विजोत्तमः ।। ३१.
यदोर्वंशं प्रवक्ष्यामि श्रेष्ठस्योत्तमतेझसः। विस्तरेणानुपूर्व्येण गदतो मे निबोधत ।। ३२.
यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः। सहस्रजिदथ श्रेष्ठः क्रोष्टुर्नीलो जितो लघुः ।। ३२.
सहस्रजित्सुतः श्रीमाञ्छतजिन्नाम पार्थिवः। सतजित्सुता विख्या तास्त्रयः परमधार्मिकाः ।। ३२.
हैहयश्च हयश्चैव राजा वेणुहयश्च यः। हैहयस्य तु दायादो धर्म्मतत्त्व इति श्रुतिः ।। ३२.
धर्म्मतन्त्रस्तु कीर्त्तिस्तु संज्ञेयस्तस्य चात्मजः। संज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः ।। ३२.
आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्। वाराणस्यधिपो राजा कथितः पूर्व एव हि ।। ३२.
भद्रश्रेण्यस्य दायादो दुर्मदो नाम पार्थिवः। दुर्मदस्य ततो धीमान् कन्को नाम विश्रुतः ।। ३२.
कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः। कृत वीर्यः कार्तवीर्यः कृतवर्मा तथैव च ।। ३२.
कृतो जातश्चतुर्थोऽभूत्कृतविर्यात्ततोऽर्जुनः। जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः ।। ३२.
स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम्। दत्तमाराधयामास कार्त्तवीर्योऽत्रिसम्भवम् ।। ३२.
तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः। पूर्व्वं बाहुसहस्रन्तु स वव्रे प्रथमं वरम् ।। ३२.
अधर्म्मे दीयमानस्य सद्भिस्तस्मान्निवारणम्। धर्म्मेण पृथिवीञ्जित्वा धर्म्मेणैवानुपालनम् ।। ३२.
संग्रामांस्तु बहून् जित्त्वा हत्वा चारीन् सहस्रशः। संग्रामे युद्धयमानस्य वधः स्यादधिकाद्रणे ।। ३२.
तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना । सप्तोदधिपरिक्षिप्ता क्षात्रेण विधिना जनाः ।। ३२.
तस्य बाहुसहस्रन्तु युद्ध्यतः किल धीमतः। यौद्धो ध्वजो रथश्चैव प्रादुर्भवति मायया ।। ३२.
दशयज्ञसहस्राणि तेषु द्वीपेषु सप्तसु। निरर्गलाः स्म निर्वृत्ताः श्रूयन्ते तस्य धीमतः ।। ३२.
सर्वे यज्ञा महाबाहोस्तस्यासन् भूरितेजसः। सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ।। ३२.
सर्वे देवैर्म्माहाभागैर्विमानस्थैरलंकृताः। गन्धर्व्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ।। ३२.
तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तथा। चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च ।। ३२.
न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति मानवाः। यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ।। ३२.