पूरो त्वं प्रतिपद्यस्व पाप्मानञ्जरया सह। जरावली च मान्तात पलितानि च पर्यगुः ।। ३१.
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने। कञ्चित्कालञ्जरेयं वै विषयान् वयसा तव ।। ३१.
पूर्णें वर्षसहस्रे ते प्रतिदास्यामि यौवनम्। स्वञ्चैव प्रतिपत्स्यामि पाप्मानञ्जरया सह ।। ३१.
सूत उवाच।। एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा। यथानुमन्यसे तात करिष्यामि तथैव च ।। ३१.
प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह। गृहाण यौवनं मत्तश्चर कामान् यथेप्सितान् ।। ३१.
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव। यौवनं भवते दत्त्वा चरिष्यामि यथार्तवत् ।। ३१.
ययातिरुवाच।। पूरो प्रीतोऽस्मि भद्रन्ते प्रीतश्चेदं ददामि ते। सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ।। ३१.
सूत उवाच।। पूरोरनुमतो राजा ययातिः स्वां जरान्ततः। संक्रामयामास तदा प्रसादाद्भार्गवस्य तु ।। ३१.
यौवनेनाथ वयसा ययातिरनहुषात्मजः । प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान् स्वकान् ।। ३१.
यथाकामं यथोत्साहं यथाकालं यथासुखम्। धर्म्माविरोधाद्राजेन्द्रो यथार्हति स एव हि ।। ३१.
देवानतर्पयद्यज्ञैः पितॄञ्छ्राद्धैस्तथैव च। दीनांश्चानुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ।। ३१.
अतिथीनन्नपानैश्च वैश्यांश्च परिपालनैः। आनृशंस्येन शूद्रांश्च दस्यून् संनिग्रहेण च ।। ३१.
धर्म्मेण च प्रजाः सर्व्वा यथावदनुरञ्जयन्। ययातिः पालयामास साक्षादिन्द्र इवापरः ।। ३१.
स राजा सिंहविक्रान्तो युवा विषयगोचरः। अविरोधेन धर्मस्य चचार सुखमुत्तमम् ।। ३१.
स मार्गमाणः कामानामन्तर्दोषनिदर्शनात्। विश्वासहेतो रेमे वै वैब्राजे नन्दने वने ।। ३१.
अपश्यत्स यदा तां वै वर्द्धमानां नृपस्तदा। गत्वा पूरोः सकाशं वै स्वां जरा प्रत्यपद्यत ।। ३१.
स सम्प्राप्य तु तान् कामांस्तृप्तः खिन्नश्च पार्थिवः। कालं वर्षसहस्रं वै सस्मार मनुजाधिपः। ।। ३१.
परिसङ्ख्याय कालञ्च कलाकाष्ठास्तथैव च। पूर्णं मत्त्वा ततः कालं पूरुं पुत्रमुवाच ह ।। ३१.
यथासुखं यथोत्साहं यथाकालमरिंदम। सेविता विषयाः पुत्र यौवनेन मया तव ।। ३१.
पूरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम्। राष्ट्रञ्च नृपं पूरुं पुत्रं कनीयसम्। ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।। ३१.
प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः। यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ।। ३१.
अभिषेक्तुकामञ्च नृपं पूरुं पुत्रं कनीयसम्। ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।। ३१.
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो। श्रेष्ठं यदुमतिक्रम्य पूरो राज्यं प्रदास्यसि ।। ३१.
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः। शर्मिष्ठायाः सुतो द्रुह्युस्तनोऽनुः पूरुरेव च ।। ३१.
कथं ज्येष्ठानतिक्रम्य कनीयान् राज्यमर्हति । अतः सम्बोधयामि त्वां धर्म्मं समनुपालय ।। ३१.
ययातिरुवाच।। ब्राह्मणप्रमुखा वर्णाः सर्वे श्रृण्वन्तु मे वचः। ज्येष्टं प्रति यथा रार्ष्ट्रं न देयं मे कथञ्चन ।। ३१.
माता पित्रोर्वचनकृत्स हि पुत्रः प्रशस्यते । मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।। ३१.
प्रतिकूलं पितुर्यश्च न स पुत्रः सतां मतः। स पुत्रः पुत्रवद् यश्च वर्त्तते पितृमातृषु ।। ३१.
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च। द्रुह्युणा चानुना चैवमप्यवज्ञा कृता भृशम् ।। ३१.
पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः। कनीयान् मम दायादो जरा येन धृता मम। सर्वकामः सर्वकृतः पूरुणा पुत्रकारिणा ।। ३१.