सूत उवाच। एवन्तु तुर्वसुं शप्त्वा ययातिः सुतमात्मनः। शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ।। ३१.
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्। जरां वर्षसहस्रं वै यौवनं स्वन्ददस्व मे ।। ३१.
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम्। स्वञ्चादास्यामि बूयोऽहं पाप्मानं जरया सह ।। ३१.
द्रुह्युरुवाच न सङ्गश्चास्य भवति न जरां तेन कामये ।। ३१.
ययातिरुवाच।। यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि। तस्माद् द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ।। ३१.
नौप्लवोत्तरसञ्चारस्तत्र नित्यं भविष्यति। अराजभ्राजवंशस्त्वं तत्र नित्यं भविष्यसि ।। ३१.
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। एवं वर्षसहस्रन्तु चरेयं यौवनेन ते ।। ३१.
अनुरुवाच न जुहोति स कालेऽग्नि तां जरान्नाबिकामये ।। ३१.
ययातिरुवाच।। यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि। जरादोषस्त्वयोक्तोऽयं तस्मात्ते प्रतिपत्स्यते ।। ३१.
प्रजा च यौवनं प्राप्ता विनशिष्यत्यतस्तव। अग्निप्रस्कन्दनपरस्त्वं चाप्येव भविष्यसि ।। ३१.
पूरो त्वं प्रतिपद्यस्व पाप्मानञ्जरया सह। जरावली च मान्तात पलितानि च पर्यगुः ।। ३१.
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने। कञ्चित्कालञ्जरेयं वै विषयान् वयसा तव ।। ३१.
पूर्णें वर्षसहस्रे ते प्रतिदास्यामि यौवनम्। स्वञ्चैव प्रतिपत्स्यामि पाप्मानञ्जरया सह ।। ३१.
सूत उवाच।। एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा। यथानुमन्यसे तात करिष्यामि तथैव च ।। ३१.
प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह। गृहाण यौवनं मत्तश्चर कामान् यथेप्सितान् ।। ३१.
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव। यौवनं भवते दत्त्वा चरिष्यामि यथार्तवत् ।। ३१.
ययातिरुवाच।। पूरो प्रीतोऽस्मि भद्रन्ते प्रीतश्चेदं ददामि ते। सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ।। ३१.
सूत उवाच।। पूरोरनुमतो राजा ययातिः स्वां जरान्ततः। संक्रामयामास तदा प्रसादाद्भार्गवस्य तु ।। ३१.
यौवनेनाथ वयसा ययातिरनहुषात्मजः । प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान् स्वकान् ।। ३१.
यथाकामं यथोत्साहं यथाकालं यथासुखम्। धर्म्माविरोधाद्राजेन्द्रो यथार्हति स एव हि ।। ३१.
देवानतर्पयद्यज्ञैः पितॄञ्छ्राद्धैस्तथैव च। दीनांश्चानुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ।। ३१.
अतिथीनन्नपानैश्च वैश्यांश्च परिपालनैः। आनृशंस्येन शूद्रांश्च दस्यून् संनिग्रहेण च ।। ३१.
धर्म्मेण च प्रजाः सर्व्वा यथावदनुरञ्जयन्। ययातिः पालयामास साक्षादिन्द्र इवापरः ।। ३१.
स राजा सिंहविक्रान्तो युवा विषयगोचरः। अविरोधेन धर्मस्य चचार सुखमुत्तमम् ।। ३१.
स मार्गमाणः कामानामन्तर्दोषनिदर्शनात्। विश्वासहेतो रेमे वै वैब्राजे नन्दने वने ।। ३१.
अपश्यत्स यदा तां वै वर्द्धमानां नृपस्तदा। गत्वा पूरोः सकाशं वै स्वां जरा प्रत्यपद्यत ।। ३१.
स सम्प्राप्य तु तान् कामांस्तृप्तः खिन्नश्च पार्थिवः। कालं वर्षसहस्रं वै सस्मार मनुजाधिपः। ।। ३१.
परिसङ्ख्याय कालञ्च कलाकाष्ठास्तथैव च। पूर्णं मत्त्वा ततः कालं पूरुं पुत्रमुवाच ह ।। ३१.
यथासुखं यथोत्साहं यथाकालमरिंदम। सेविता विषयाः पुत्र यौवनेन मया तव ।। ३१.
पूरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम्। राष्ट्रञ्च नृपं पूरुं पुत्रं कनीयसम्। ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।। ३१.