अशक्तः कार्यकरणे परिभूतस्तु यौवने। महोपभीतिभिश्चैव तां जरान्नाभिकामये ।। ३१.
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप। प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ।। ३१.
स एवमुक्तो यदुना तीव्रकोपसमन्वितः। उवाच वदतां श्रेष्छो ज्येष्ठं तं गर्हयन् सुतम् ।। ३१.
आश्रमः कश्च वान्योऽस्ति को वा धर्मविधिस्तव। मामनादृत्य दुर्बुद्धे यदात्थ नवदेशिक ।। ३१.
एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् । यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।। ३१.
तस्मान्न राज्यभाग् मूढ प्रजा ते वै भविष्यति। तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ।। ३१.
तुर्वसुरुवाच।। न कामये जरां तात सामभोगप्रणाशिनीम्। जराया बहवो दोषाः पानभोजनकारिणः। तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ।। ३१.
ययातिरुवाच।। यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि। तस्मात् प्रजा समुच्छेदं तुर्वसो तव यास्यति ।। ३१.
असङ्कीर्णा च धर्मेण प्रतिलोमवरेषु च। पिशितादिषु चान्येषु मूढ राजा भविष्यसि ।। ३१.
गुरु दारप्रसक्तेषु तिर्यग्योनिगतेषु वा। पशुधर्मेषु म्लेच्छेषु भविष्यति न संशयः ।। ३१.
सूत उवाच। एवन्तु तुर्वसुं शप्त्वा ययातिः सुतमात्मनः। शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ।। ३१.
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्। जरां वर्षसहस्रं वै यौवनं स्वन्ददस्व मे ।। ३१.
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम्। स्वञ्चादास्यामि बूयोऽहं पाप्मानं जरया सह ।। ३१.
द्रुह्युरुवाच न सङ्गश्चास्य भवति न जरां तेन कामये ।। ३१.
ययातिरुवाच।। यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि। तस्माद् द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ।। ३१.
नौप्लवोत्तरसञ्चारस्तत्र नित्यं भविष्यति। अराजभ्राजवंशस्त्वं तत्र नित्यं भविष्यसि ।। ३१.
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। एवं वर्षसहस्रन्तु चरेयं यौवनेन ते ।। ३१.
अनुरुवाच न जुहोति स कालेऽग्नि तां जरान्नाबिकामये ।। ३१.
ययातिरुवाच।। यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि। जरादोषस्त्वयोक्तोऽयं तस्मात्ते प्रतिपत्स्यते ।। ३१.
प्रजा च यौवनं प्राप्ता विनशिष्यत्यतस्तव। अग्निप्रस्कन्दनपरस्त्वं चाप्येव भविष्यसि ।। ३१.
पूरो त्वं प्रतिपद्यस्व पाप्मानञ्जरया सह। जरावली च मान्तात पलितानि च पर्यगुः ।। ३१.
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने। कञ्चित्कालञ्जरेयं वै विषयान् वयसा तव ।। ३१.
पूर्णें वर्षसहस्रे ते प्रतिदास्यामि यौवनम्। स्वञ्चैव प्रतिपत्स्यामि पाप्मानञ्जरया सह ।। ३१.
सूत उवाच।। एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा। यथानुमन्यसे तात करिष्यामि तथैव च ।। ३१.
प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह। गृहाण यौवनं मत्तश्चर कामान् यथेप्सितान् ।। ३१.
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव। यौवनं भवते दत्त्वा चरिष्यामि यथार्तवत् ।। ३१.
ययातिरुवाच।। पूरो प्रीतोऽस्मि भद्रन्ते प्रीतश्चेदं ददामि ते। सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ।। ३१.
सूत उवाच।। पूरोरनुमतो राजा ययातिः स्वां जरान्ततः। संक्रामयामास तदा प्रसादाद्भार्गवस्य तु ।। ३१.
यौवनेनाथ वयसा ययातिरनहुषात्मजः । प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान् स्वकान् ।। ३१.
यथाकामं यथोत्साहं यथाकालं यथासुखम्। धर्म्माविरोधाद्राजेन्द्रो यथार्हति स एव हि ।। ३१.