अन्नं तस्य सकृत्पक्वमहोरात्रे न क्षीयते। कोटिशो दीयमानं च सूर्य्यस्योदयनादपि ।। ३१.
मित्राज्योतिस्तु कन्यायां मरुतस्य च धीमतः। तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः ।। ३१.
संन्यस्य गृहधर्माणि वैराग्यं समुपस्थिताः। यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः ।। ३१.
अनपायस्ततो जातस्तदा धर्मप्रदत्तवान्। क्षत्रधर्मस्ततो जातः प्रतिपक्षो महातपाः ।। ३१.
प्रतिपक्षसुतश्चापि सञ्जयो नाम विश्रुतः। सञ्जयस्य जयः पुत्रो विजयस्तस्य जग्मिवान् ।। ३१.
विजयस्य जयः पुत्रस्तस्य हर्यन्द्वतः स्मृतः । हर्यन्दुतस्ततो राजा सहदेवः प्रतापवान् ।। ३१.
सहदेवस्य धर्मात्मा अदीन इति विश्रुतः। अदीनस्य जयत्सेनस्तस्य पुत्रोऽथ संकृतिः ।। ३१.
संकृतेरपि धर्मात्मा कृतधर्मा महायशाः। इत्येते क्षत्र धर्माणो नहुषस्य निबोधत ।। ३१.
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः। उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।। ३१.
यतिर्ययातिः संयातिरायातिः पञ्च तुद्वयः। यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततोऽवरः ।। ३१.
काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा। संयातिर्मो क्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ।। ३१.
तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः। देवयानिमुशनसः सुतां भार्यामवाप ह ।। ३१.
शर्मिष्ठा मासुरीं चैव तनयां वृषपर्वणः। यदुं च तुर्वसुं चैव देवयानिर्व्यजायत ।। ३१.
द्रुह्युञ्चानुञ्च पूरुञ्च शर्मिष्ठा वार्षपर्वणी । अजीजनन्महावीर्यान् सुतान्देवसुतोपमान् ।। ३१.
रथन्तस्मै ददौ रुद्रः प्रीतः परमभास्वरम्। असङ्गं काञ्चनं दिव्यमक्षयौ च महेषुधी ।। ३१.
युक्तं मनो जवैरश्वैर्येन कन्यां समुद्वहत्। स तेन रथमुख्येन जिगाय च ततो महीम् ।। ३१.
ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः । पौरवाणां नृपाणाञ्च सर्वेषां सोऽभवद्रथः ।। ३१.
योवत्सुदेशप्रभवः कौरवो जनमेजयः। कुरोः पुत्रस्य राज्ञस्तु राज्ञः पारिक्षितस्य ह। जगाम स रथो नाशं शापाद्गार्ग्यस्य धीमतः ।। ३१.
गार्ग्यस्य हि सुतं बालः स राजा जनमेजयः। दुर्बुद्धिर्हिंसयामास लोहगन्धं नराधिपम् ।। ३१.
स लोहगन्धो राजर्षिः परिधावन्नितस्ततः। पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ।। ३१.
ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित्। शशाप हेतुकमृषिं शरण्यं व्यथितस्तदा ।। ३१.
ईन्द्रोतो नाम विख्यातो योऽसौ मुनिरुदारधीः। योजयामास चेन्द्रोतः शौनको जनमेजयम्। अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः ।। ३१.
स लोहगन्धो व्यनशत्तस्यावसथमेत्य ह। स च दिव्यो रथस्तस्माद्वसोश्चेदिपतेस्तथा ।। ३१.
ततः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः। ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम्। प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ।। ३१.
स जरां प्राप्य राजर्षिर्ययातिर्नहुषात्मजः। पुत्रं ज्येष्ठं वरिष्ठञ्च यदुमित्यब्रवीद्वचः ।।३१.
जरावली च मां तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ।। ३१.
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह। जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह ।। ३१.
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता । सा च व्यायामसाध्या वै न ग्रहीष्यामि ते जराम् ।। ३१.
जराया बहवो दोषा पानभोजनकारिणः। तस्माज्जरान्न ते राजन् ग्रहीतुमहमुत्सहे ।। ३१.
सितश्मश्रुधरो दीनो जरया शिथिलीकृतः। बली सन्नतगात्रश्च दुर्द्दशो दुर्बलाकृतिः ।। ३१.