वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः। गार्ग्यस्य गर्गभूमिस्तु वात्स्यो वत्सस्य धीमतः ।। ३०.
ब्राह्मणाः क्षत्रियाश्चैव तयोः पुत्राः सुधार्म्मिकाः। विक्रान्ता बलवन्तश्च सिंहतुल्यपराक्रमाः ।। ३०.
इत्येते काश्यपाः प्रोक्ता रजेरपि निबोधत। रजेः पुत्रशतान्यासन् पञ्च वीर्यवतो भुवि। राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ।। ३०.
तदा दैवासुरे युद्धे समुत्पन्ने सुदारुणे। देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ।। ३०.
आवयोर्भगवान् युद्धे विजेता को भविष्यति। ब्रूहि नः सर्व्वलोकेश श्रोतुमिच्छामहे वयम् ।। ३०.
ब्रह्मोवाच।। येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः। योत्स्यते ते विजेष्यन्ति त्रील्लोँकान्नात्र संशयः ।। ३०.
रजिर्यतस्ततो लक्ष्मीर्यतो लक्ष्मीस्ततो धृतिः। यतो धृतिस्ततो धर्मो यतो धर्मस्ततो जयः ।। ३०.
तद्देवा दानवाः सर्वे ततः श्रुत्वा रजेर्जयम्। अभ्ययुर्जयमिच्छन्तः स्तुवन्तो राजसत्तमम् ।। ३०.
ते हृष्टमनसः शर्वे राजानं देवदानवाः। ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ।। ३०.
रजिरुवाच।। अहञ्जेष्यामि नो युद्धे देवान् शक्रपुरोगमान्। इन्द्रो भवामि धर्मात्मा ततो योत्स्यामि संयुगे ।। ३०.
दानवा ऊचुः।। अस्माकमिन्द्रः प्रह्लादस्तस्यार्थे विजयामहे। अस्मिस्तु समये राजंस्तिष्ठेथादेव नोऽदितेः ।। ३०.
स तथेति ब्रुवन्नेव देवैरप्यभिचोदितः। भविष्यसीन्द्रो जित्वेति देवैरपि निमन्त्रितः ।। ३०.
जघान दानवान् सर्व्वान् समक्षं वज्रपाणिनः। स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ।। ३०.
निहत्य दानवान् सर्व्वान् व्याजहार रजिः प्रभुः। तं तथा तु रझिं तत्र देवैस्सह शतक्रतुः ।। ३०.
रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः। ईन्द्रोऽसि राजन् देवानां सर्वेषान्नात्र संशयः। यस्याहमिन्द्रपुत्रस्ते ख्यातिं यास्यामि शत्रुहन् ।। ३०.
स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया। तथेत्येवाब्रवीद्राजा प्रीयमाणः शतक्रतुम् ।। ३०.
तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ। दायाद्यमिन्द्रादाजह्रुराचारं तनया रजेः ।। ३०.
तानि पुत्रशतान्यस्य तच्च स्थानं शचीपतेः। समक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ।। ३०.
ततः काले बहुतिथे सतीते महाबलः। हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् ।। ३०.
बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे। ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितस्ततः ।। ३०.
ब्रह्मन् कृशोऽयं विमना हृतराज्यो हृताशनः। हतौजा दुर्बलो मूढो रजिपुत्रैः प्रसीद मे ।। ३०.
बृहस्पतिरुवाच।। यद्येवं चोदितः शक्र त्वया स्यां पूर्व्वमेव हि। नाभविष्यत् त्वत्प्रियार्थं नाकर्त्तव्यं ममानघ ।। ३०.
प्रयतिष्यामि देवेन्द्र तद्धितार्थं महाद्युते। यथा भागञ्च राज्यञ्च अचिरात् प्रतिपत्स्यसे ।। ३०.
तथा शक्र गमिष्यामि माभूत्ते विक्लवं मनः। ततः कर्म्म चकारास्य तेजःसंवर्द्धनं महत् ।। ३०.
तेषाञ्च बुद्धिसंमोहमकरोद्बुद्धिसत्तमः। ते यदा ससुता मूढा रागोत्पन्न विधर्म्मिणः ।। ३०.
ब्रह्मद्विषश्च संवृत्ता हतवीर्य्यपराक्रमाः। ततो लेभे सुरैश्वर्यमैन्द्रस्थानं तथोत्तमम् ।। ३०.
हत्वा रजिसुतान् सर्वान्कामक्रोधपरायणान्। य इदं पावनं स्थानं प्रतिष्ठानं शतक्रतोः। श्रृणुयाद्वा रजेर्वापि न स दौरात्म्यमाप्नुयात् ।। ३०.
मरुतेन कथं कन्या राज्ञे दत्ता महात्मना। किंवीर्याश्च महात्मानो जाता मरुतकन्यकाः ।। ३१.
आहवन् तं मरुत्सोममन्नकामः प्रजेश्वरम्। मासि मासि महातेजाः षष्टिसंवत्सरान्नृपः ।। ३१.
तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः। अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम् ।। ३१.