शप्तां पुरीं निकुम्भस्तु महादेवमथानयत्। शून्यां पुरीं महादेवो निर्म्ममे परमात्मना ।। ३०.
तुल्यां देवविभूत्यास्तु देव्याश्चैव महात्मनः। रमते तत्र वै देवी रममाणे महेश्वरः ।। ३०.
न रतिं तत्र वै देवी लभते गृहविस्मयात्। देव्याः क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत् ।। ३०.
नाहं वेश्म विमोक्ष्यामि अविमुक्तं हि मे गृहम्। प्रहस्यैनामथोवाच अविमुक्तं हि मे गृहम् ।। ३०.
नाहं देवि गमिष्यामि गच्छस्वेह रमाम्यहम्। तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ।। ३०.
एवं वाराणसी शप्ता अविमुक्तं च कीर्त्तितम्। यस्मिन् वसति वै देवः सर्वदेवनमस्कृतः। युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ।। ३०.
अन्तर्द्धानं कलौ याति तत्पुरन्तु महात्मनः। अन्तर्हिते पुरे तस्मिन् पुरी सा वसते पुनः ।। ३०.
एवं वाराणसी शप्ता निवेशं पुनरागता। भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ।। ३०.
हत्वा निवेशयामास दिवोदासो नराधिपः। भद्रश्रेण्यस्य राज्यन्तु हृतन्तेन बलीयसा ।। ३०.
भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम नामतः। दिवोदासेन बालेति घृणया स विवर्जितः ।। ३०.
दिवोदासादॄषद्वत्यां वीरो जज्ञे प्रतर्द्दनः। तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः ।। ३०.
वैरस्यान्तं महाराज्ञा तदा तेन विधत्सता। प्रतर्द्दनस्य पुत्रौ द्वौ वत्सो गर्गश्च विश्रुतः ।। ३०.
वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः । अलर्कं प्रति राजर्षिर्गीतश्लोकौ पुरातनौ ।। ३०.
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च। युवा रूपेण सम्पन्नो ह्यलर्कः काशिसत्तमः ।। ३०.
लोपामुद्रा प्रसादेन परमायुरवाप्तवान् ।। ३०.
शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम्। रम्यामावासयामास पुरीं वाराणसीं नृपः ।। ३०.
सन्नतेरपि दायादः सुनीथो नाम धार्मिकः। सुनीथस्य तु दायादः सुकेतुर्नाम धार्म्मिकः ।। ३०.
सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतिः। धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ।। ३०.
सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः। सुविभुस्तु विभोः पुत्रः सुकुमारस्ततः स्मृतः ।। ३०.
सुकुमारस्य पुत्रस्तु धृष्टकेतुः स धार्म्मिकः। धुष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ।। ३०.
वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः। गार्ग्यस्य गर्गभूमिस्तु वात्स्यो वत्सस्य धीमतः ।। ३०.
ब्राह्मणाः क्षत्रियाश्चैव तयोः पुत्राः सुधार्म्मिकाः। विक्रान्ता बलवन्तश्च सिंहतुल्यपराक्रमाः ।। ३०.
इत्येते काश्यपाः प्रोक्ता रजेरपि निबोधत। रजेः पुत्रशतान्यासन् पञ्च वीर्यवतो भुवि। राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ।। ३०.
तदा दैवासुरे युद्धे समुत्पन्ने सुदारुणे। देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ।। ३०.
आवयोर्भगवान् युद्धे विजेता को भविष्यति। ब्रूहि नः सर्व्वलोकेश श्रोतुमिच्छामहे वयम् ।। ३०.
ब्रह्मोवाच।। येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः। योत्स्यते ते विजेष्यन्ति त्रील्लोँकान्नात्र संशयः ।। ३०.
रजिर्यतस्ततो लक्ष्मीर्यतो लक्ष्मीस्ततो धृतिः। यतो धृतिस्ततो धर्मो यतो धर्मस्ततो जयः ।। ३०.
तद्देवा दानवाः सर्वे ततः श्रुत्वा रजेर्जयम्। अभ्ययुर्जयमिच्छन्तः स्तुवन्तो राजसत्तमम् ।। ३०.
ते हृष्टमनसः शर्वे राजानं देवदानवाः। ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ।। ३०.
रजिरुवाच।। अहञ्जेष्यामि नो युद्धे देवान् शक्रपुरोगमान्। इन्द्रो भवामि धर्मात्मा ततो योत्स्यामि संयुगे ।। ३०.