राज्ञस्तु महिषी श्रेष्ठा सुयशा नाम विश्रुता। पुत्रार्थमागता साध्वी राज्ञा देवी प्रचोदिता ।। ३०.
पूजान्तु विपुलां कृत्वा देवी पुत्रानयाचत। पुनः पुनरथागम्य बहुशः पुत्रकारणात् ।। ३०.
न प्रयच्छति पुत्रांस्तु निकुम्भः कारणेन तु। राजा यदि तत् क्रुध्येत ततः किञ्चित् प्रवर्त्तते ।। ३०.
अथ दीर्घेण कालेन क्रोधो राजानमाविशत्। भूतं त्विदं महाद्वारि नगराणां प्रयच्छति ।। ३०.
प्रीत्या वरांश्च शतशो न किञ्चित्तु प्रवर्त्तते। मामकैः पूज्यते नित्यं नगर्यां मम चैव तु ।। ३०.
तत्रार्च्चितश्च बहुशो देव्या मे तत्र कारणात् । न ददाति च पुत्रं मे कृतघ्नो बहुभोजनः ।। ३०.
अतो नार्हति पूजान्तु मत्सकाशात् कथञ्चन। तस्मात्तु नाशयिष्यामि तस्य स्थानं दुरात्मनः ।। ३०.
एवं तु सविनिश्चित्य दुरात्मा राज किल्बिषी। स्थानं गणपतेस्तस्य नाशयामास दुर्मतिः ।। ३०.
भग्नमायतनं दृष्ट्वा राजानमगमत् प्रभुः। यस्मादृतेऽपराधं मे त्वया स्थानं विना शितम् ।। ३०.
अकस्मात् तु पुरी शून्या भवित्री ते नराधिप। ततस्तेन तु शापेन शून्या वाराणसी तथा ।। ३०.
शप्तां पुरीं निकुम्भस्तु महादेवमथानयत्। शून्यां पुरीं महादेवो निर्म्ममे परमात्मना ।। ३०.
तुल्यां देवविभूत्यास्तु देव्याश्चैव महात्मनः। रमते तत्र वै देवी रममाणे महेश्वरः ।। ३०.
न रतिं तत्र वै देवी लभते गृहविस्मयात्। देव्याः क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत् ।। ३०.
नाहं वेश्म विमोक्ष्यामि अविमुक्तं हि मे गृहम्। प्रहस्यैनामथोवाच अविमुक्तं हि मे गृहम् ।। ३०.
नाहं देवि गमिष्यामि गच्छस्वेह रमाम्यहम्। तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ।। ३०.
एवं वाराणसी शप्ता अविमुक्तं च कीर्त्तितम्। यस्मिन् वसति वै देवः सर्वदेवनमस्कृतः। युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ।। ३०.
अन्तर्द्धानं कलौ याति तत्पुरन्तु महात्मनः। अन्तर्हिते पुरे तस्मिन् पुरी सा वसते पुनः ।। ३०.
एवं वाराणसी शप्ता निवेशं पुनरागता। भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ।। ३०.
हत्वा निवेशयामास दिवोदासो नराधिपः। भद्रश्रेण्यस्य राज्यन्तु हृतन्तेन बलीयसा ।। ३०.
भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम नामतः। दिवोदासेन बालेति घृणया स विवर्जितः ।। ३०.
दिवोदासादॄषद्वत्यां वीरो जज्ञे प्रतर्द्दनः। तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः ।। ३०.
वैरस्यान्तं महाराज्ञा तदा तेन विधत्सता। प्रतर्द्दनस्य पुत्रौ द्वौ वत्सो गर्गश्च विश्रुतः ।। ३०.
वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः । अलर्कं प्रति राजर्षिर्गीतश्लोकौ पुरातनौ ।। ३०.
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च। युवा रूपेण सम्पन्नो ह्यलर्कः काशिसत्तमः ।। ३०.
लोपामुद्रा प्रसादेन परमायुरवाप्तवान् ।। ३०.
शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम्। रम्यामावासयामास पुरीं वाराणसीं नृपः ।। ३०.
सन्नतेरपि दायादः सुनीथो नाम धार्मिकः। सुनीथस्य तु दायादः सुकेतुर्नाम धार्म्मिकः ।। ३०.
सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतिः। धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ।। ३०.
सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः। सुविभुस्तु विभोः पुत्रः सुकुमारस्ततः स्मृतः ।। ३०.
सुकुमारस्य पुत्रस्तु धृष्टकेतुः स धार्म्मिकः। धुष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ।। ३०.