चतुर्युगैकसप्तत्या सङ्ख्यातः पूर्वमेव तु। सह देवगणैश्चैव ऋषिभिर्दानवैः सह ।। ४.
पितृगन्धर्वयक्षैश्च रक्षोभूतगणैस्तथा। मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह ।। ४.
मन्वादिकं भविष्यान्तमाख्यानैर्बहुविस्तरम् । वक्ष्ये वैवस्वतं सर्गं नमस्कृत्य विवस्वते ।। ४.
आद्ये मन्वन्तरेऽतीताः सर्गाः प्रावर्त्तकाश्च ये। स्वायम्भुवेऽन्तरे पूर्वं सप्तासन् ये महर्षयः। चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ।। ४.
दक्षस्य च ऋषीणाञ्च भृग्वादीनां महौजसाम्। शापान्महेश्वरस्यासीत् प्रादुर्भावो महात्मनाम् ।। ४.
भूयः सप्तर्षयस्ते च उत्पन्नाः सप्त मानसाः। पुत्रत्वे कल्पिताश्चैव स्वयमेव स्वयम्भुवा ।। ४.
प्रजासन्तानकृद्भिस्तैरुत्पद्यद्भिर्महात्मभिः। पुनः प्रवर्त्तितः सर्गो यथापूर्वं यथाक्रमम् ।। ४.
तेषां प्रसूतिं वक्ष्यामि विशुद्धज्ञानकर्मणाम्। समासव्यासयोगाभ्यां यथावदनुपूर्वशः ।। ४.
येषामन्वयसम्भूतैर्लोकोऽयं सचराचरः। पुनः स पूरितः सर्गो ग्रह नक्षत्रमण्डितः ।। ४.
एतच्छ्रुत्वा वचस्तस्य मुनीनां संशयोऽभवत् । ततस्तं संशयाविष्टाः सूतं संशयनिश्चये। सत्कृत्य परिपप्रच्छुर्मुनयः शंसितव्रताः ।। ४.
कथं सप्तर्षयः पूर्व्वमुत्पन्नाः सप्त मानसाः। पुत्रत्वे कल्पिताश्चैव तन्नो निगद सत्तम। ततोऽब्रवीन्महातेजाः सूत पौराणिकः शुभम् ।। ४.
कथं सप्तर्षयः सिद्धा ये वै स्वायम्भुवेऽन्तरे। मन्वन्तरं समासाद्य पुनर्वैवस्वतं किल ।। ४.
भवाभिशापात्संविद्धा ह्यप्राप्तास्ते तदा तपः। उपपन्ना जने लोके सकृदागामिनस्तु ते ।। ४.
ऊचुः सर्वे ततोऽन्योन्यं जनलोके महर्षयः। ऊचुरेव महाभागा वारुणे वितते क्रतौ ।। ४.
सर्वे वयं प्रसूयामश्चाक्षुषस्यान्तरे मनोः। पितामहात्मजाः सर्वे ततः श्रेयो भविष्यति ।। ४.
स्वायम्भुवेऽन्तरे शप्ताः सप्तार्थं ते भवेन तु। जज्ञिरे वै पुनस्ते ह जनलोकाद्दिवं गता ।। ४.
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम्। ब्रह्मणो जुह्वतः शुक्रमग्नौ पूर्वं प्रजेप्सया। ऋषयो जज्ञिरे पूर्वं द्वितीयमिति नः श्रुतम् ।। ४.
भृगुरङ्गिरा मरीचिः पुलस्त्यः पुलहः क्रतुः। अत्रिश्चैव वसिष्ठश्च अष्टौ ते ब्रह्मणः सुताः ।। ४.
तथास्य वितते यज्ञे देवाः सर्वे समागताः। यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ।। ४.
मूर्त्तिमन्ति च सामानि यजूंषि च सहस्रशः। ऋग्वेद श्चाभवत्तत्र पदक्रमविभूषितः ।। ४.
यजुर्वेदश्च वृत्ताढ्य ओङ्कारवदनोज्ज्वलः। स्थितो यज्ञार्थसंपृक्तसूक्तब्राह्मणमन्त्रवान् ।। ४.
सामवेदश्च वृत्ताढ्यः सर्वगेयपुरःसरः। विश्वावस्वादिभिः सार्द्धं गन्धर्वैः सम्भृतोऽभवत् ।। ४.
ब्रह्म वेदस्तथा घोरैः कृत्याविधिभिरन्वितः। प्रत्यङ्गिरसयोगैश्च द्विशरीरशिरोऽभवत् ।। ४.
लक्षणानि स्वराः स्तोभा निरुक्तस्वरभक्तयः। आश्रयस्तु वषट्कारो निग्रहप्रग्रहावपि ।। ४.
दीप्ता दीप्तिरिलादेवी दिशः प्रदिशगीश्वराः । देवकन्याश्च पत्न्यश्च तथा मातर एव च ।। ४.
आयुः सर्वत एवैते देवस्य यजतो मुखे। मूर्त्तिमन्तः स्वरूपाख्या वरुणस्य वपुर्भृतः ।। ४.
स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि। ब्रह्मर्षेर्भावभूतस्य विधानाच्च न संशयः ।। ४.
कृत्वा जुहाव स्रुग्भ्याञ्च स्रुवेण परिगृह्य च। आज्यवज्जुहुवाञ्जक्रे मन्त्रवच्च पितामहः ।। ४.
ततः स जनयामास भूतग्रामं प्रजापतिः। तस्यार्वाक् तेजसस्तस्य यज्ञे लोकेषु तैजसम्। तमसाभावव्याप्यत्वं तथा सत्त्वं तथा रजः ।। ४.
सगुणात्तेजसो नित्यमाकाशे तमसि स्थितम्। तमसस्तेजसत्वाच्च सर्वभूतानि जज्ञिरे ।। ४.