अर्वाक्सुतोऽसि हे देव नाममन्त्रोऽसि वै प्रभो। द्वितीयायान्तु सम्भूत्यां लोके ख्यातिङ्गमिष्यसि ।। ३०.
अणिमादियुता सिद्धिर्गर्भस्थस्य भविष्यति। तेनैव च शरीरेण देवत्वं प्राप्स्यसि प्रभो। चारुमन्त्रैर्घृतैर्गन्धैर्यक्ष्यन्ति त्वां द्विजातयः ।। ३०.
अथ च त्वं पुनश्चैव आयुर्वेदं विधास्यसि। अवश्यम्भावी ह्यर्थोऽयं प्राग्दिष्टस्त्वब्जयोनिना ।। ३०.
द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः। तस्मात् तस्मै वरं दत्त्वा विष्णुरन्तर्दघे ततः ।। ३०.
द्वितीये द्वापरे प्राप्ते सौनहोत्रः स काशिराट्। पुत्रकाम स्तपस्तेपे नृपो दीर्घतपास्तथा ।। ३०.
अजं देवन्तु पुत्रार्थे ह्यारिराधयिषुर्नृपः। वरेण च्छन्दयामास प्रीतो धन्वन्तरिर्नृपम् ।। ३०.
नृप उवाच।। भगवन् यदि तुष्टस्त्वं पुत्रो मे धृतिमान् भव। तथेति समनुज्ञाय तत्रैवान्तरधीयत ।। ३०.
तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा। काशिराजो महाराजः सर्व्वरोगप्रणाशनः ।। ३०.
आयुर्वेदं भरद्वाजश्चकार सभिषक्क्रियम्। तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ।। ३०.
धन्वन्तरिसुतश्चापि केतुमानिति विश्रुतः। अथ केतुमतः पुत्रो विभो भीमरथो नृपः। दिवोदास इति ख्यातो वाराणस्यधिपोऽभवत् ।। ३०.
एतस्मिन्नेव काले तु पुरीं वाराणसीं पुरा। शून्यां विवेशयामास क्षेणको नाम राक्षसः ।। ३०.
शप्ता हि सा पुरी पूर्व्वं निकुम्भेन महात्मना। शून्या वर्षसहस्रं वै भवित्रीति पुनः पुनः ।। ३०.
तस्यान्तु शप्तमात्रायां दिवोदासः प्रजेश्वरः। विषयान्ते पुरीं रम्यां गोमत्यां सन्न्यवेशयत् ।। ३०.
ऋष ऊचुः।। वाराणसीं किमर्थन्तां निकुम्भः शप्तवान् पुरा। निकुम्भश्चापि धर्म्मात्मा सिद्धक्षेत्रं शशाप यः ।। ३०.
सूत उवाच।। दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः। वसते स महातेजाः स्फीतायां वै नराधिपः ।। ३०.
एतस्मिन्नेव काले तु कृतदारो महेश्वरः। देव्याः स प्रियकामस्तु वसानश्च सुरान्तिके ।। ३०.
देवाज्ञया पारिषदा विश्वरूपास्तपोधनाः। पूर्वोक्तै रूपविशेषस्तोषयन्ति महेश्वरीम् ।। ३०.
हृष्यति तैर्महादेवो मेना नैव तु हृष्यति। जुगुप्सते सा नित्यञ्च देवं देवीं तथैव च ।। ३०.
मम पार्श्वे त्वनाचारस्तव भर्त्ता महेश्वरः। दरिद्रः सर्व एवेह अक्लिष्टं लडतेऽनघे ।। ३०.
मात्रा तथोक्ता वचसा स्त्रीस्वबावान्नचाक्षमत्। स्मितं कृत्वा तु वरदा हरपार्श्वमथागमत् ।। ३०.
विषण्णवदना देवी महादेवमभाषत। नेह वत्स्याम्यहं देव नय मां स्वं निवेशनम् ।। ३०.
तथोक्तस्तु महादेवः सर्वांल्लोकानवेक्ष्य ह। वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः। वाराणसीं महातेजाः सिद्धक्षेत्रं महेश्वरः ।। ३०.
दिवो दासेन तां ज्ञात्वा निविष्टान्नगरीं भवः। पार्श्वास्थं स समाहूय गणेशं क्षेमकं ब्रवीत् ।। ३०.
गणेश्वर पुरीङ्गत्वा सून्यां वाराणसीं कुरु। मृदुना चाब्युपायेन अतिवीर्यः स पार्थिवः ।। ३०.
ततो गत्वा निकुम्भस्तु पुरीं वाराणसीं पुरा । स्वप्ने सन्दर्शयामास मङ्कनं नाम नापितम् ।। ३०.
श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ। मद्रूपां प्रतिमां कृत्वा नगर्य्यन्ते निवेशय ।। ३०.
तथा स्वप्ने यथा दृष्टं सर्वं कारितवान् द्विजाः। नगरीद्वार्यनुज्ञाप्य राजानन्तु यथाविधि ।। ३०.
पूजा तु महती चैव नित्यमेव प्रयुज्यते। गन्धैर्धूपैश्च माल्यैश्च प्रेक्षणीयैस्तथैव च ।। ३०.
अन्नप्रदानयुक्तैश्च अत्यद्भुतमिवाभवत्। एवं सम्पूज्यते तत्र नित्यमेव गणेश्वरः ।। ३०.
ततो वरसहस्राणि नगराणां प्रयच्छति । पुत्रान् हिरण्यमायूंषि सर्व्वकामांस्तथैव च ।। ३०.