कौशिकासोश्रुमाश्चैव तथान्ये सैधवायनाः। पौरोरवस्य पुण्यस्य ब्रह्मर्षेः कौशिकस्य तु ।। २९.
दृषद्वतीसुतश्चापि विश्वामित्रात्तथाष्टकः। अष्टकस्य सुतो यो हि प्रोक्तो जह्नुगणोमया ।। २९.
ऋषय ऊचुः ।। किं लक्षणेन धर्मेण तपसेह श्रुतेन वा। ब्राह्मण्यं समनुप्राप्तं विश्वामित्रादिभिर्नृपैः ।। २९.
येन योनाभिधा नेन ब्राह्मण्यं क्षत्रिया गताः । विशेषं ज्ञातुमिच्छामि तपसा दानतस्तथा ।। २९.
एवमुक्तस्ततो वाक्यमब्रवीदिदमर्थवत्। अन्यायोपगतैर्द्रव्यैराहृत्य यजने धिया। धर्माभिकांक्षी यजते न धर्मफलमश्नुते ।। २९.
धर्म्मं चैतं समाख्याय पापात्मा पुरुषाधमः। ददाति दानं विप्रेभ्यो लोकानां दम्भकारणात् ।। २९.
जपं कृत्वा तथा तीव्रं धनलोभान्निरङ्कुशः। रागमोहान्वितो ह्यन्ते पावनार्थं ददाति यः ।। २९.
तेन दत्तानि दानानि अफलानि भवन्त्युत। तस्य धर्म्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ।। २९.
एवं लब्ध्वा धनं मोहाद्ददतो यजतश्च ह। सक्लिष्टकर्मणो दानं न तिष्ठति दुरात्मनः ।। २९.
न्यायागतानां द्रव्याणां तीर्थे सम्प्रतिपादनम्। कामाननभिसन्धाय यजते च ददाति च ।। २९.
स दानफलमाप्नोति तच्च दानं सुखोदयम्। दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति ।। २९.
तपसा तु सुतप्तेन लोकान् विष्टभ्य तिष्ठति । विष्टभ्य स तु तेजस्वी लोकेष्वानन्त्यमश्नुते ।। २९.
दानाच्छ्रेयांस्तथा यज्ञो यज्ञाच्छ्रेयस्तथा तपः। संन्यासस्तपसः श्रेयांस्तस्माज्ज्ञानं गुरुः स्मृतम् ।। २९.
श्रृयन्ते हि तपःसिद्धाः क्षात्रोपेता द्विजातयः। विश्वामित्रो नरपतिर्मान्धाता संकृतिः कपिः ।। २९.
कपेश्च पुरुकुत्सश्च सत्यश्चानृहवानृथुः आर्ष्टिषेणोऽमीढश्च भागान्योन्यस्तथैव च ।। २९.
कक्षीवश्चैव शिजयस्तथान्ये च महारथाः। रथीतरश्च रुन्दश्च विष्णुवृद्धादयो नृपाः ।। २९.
क्षात्रोपेताः स्मृता ह्येते तपसा ऋषिताङ्गताः । एते राजर्षयः सर्व्वे सिद्धिं सुमहतीङ्गताः। अत ऊर्द्ध्वं प्रवक्ष्यामि अयोर्वंशं महात्मनः ।। २९.
सूत उवाच।। एते पुत्रा महात्मानः पञ्चैवासन् महाबलाः। स्वर्भानुतनया विप्राः प्रभायां जज्ञिरे नृपाः ।। ३०.
नहुषः प्रथमस्तेषां पुत्रधर्म्मा ततः स्मृतः। धर्म्मवृद्धात्मजश्चैव सुतहोत्रो महायशाः ।। ३०.
सुतहोत्रस्य दायादास्त्रयः परमधार्म्मिकाः। काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ।। ३०.
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः। ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ।। ३०.
एतस्य वंशे सम्भूता विचित्रैः कर्म्मभिर्द्विजाः। शलात्मजो ह्यार्ष्टिषेणश्चरन्तस्तस्य चात्मजः ।। ३०.
शौनकाश्चार्ष्टिषेणाश्च क्षात्रोपेता द्विजातयः। काशस्य काशयो राष्टः पुत्रो दीर्घतपास्तथा ।। ३०.
धर्म्मश्च दीर्घतपसो विद्वान् धन्वन्तरिस्ततः। तपसा सुमहातेजा जातो वृद्धस्य धीमतः। अथैनमृषयः प्रोचुः सूतं वाक्यमिमं पुनः ।। ३०.
ऋषय ऊचुः ।। कथं धन्वन्तरिर्द्देवो मानुषेष्विह जज्ञिवान्। एतद्वेदितुमिच्छामस्ततो ब्रूहि प्रियं तथा ।। ३०.
सूत उवाच।। धन्वन्तरेः सम्भवोऽयं श्रूयतामिह वै द्विजाः। स सम्भूतः समुद्रान्ते मथ्यमानेऽमृते पुरा ।। ३०.
उत्पन्नः सकलात् पूर्व्वं सर्व्वतश्च श्रियावृतः। सर्व्वसंसिद्धकायं तं दृष्ट्वा विष्टम्भितः स्थितः। अजस्त्वमिति होवाच तस्मादजस्तु सः स्मृतः ।। ३०.
अजः प्रोवाच विष्णुं तं तनयोऽस्मि तव प्रभो। विधत्स्व भागं स्थानञ्च मम लोके सुरोत्तम ।। ३०.
एवमुक्तः सुदृष्ट्वा तु तथा प्रोवाच स प्रभुः । कृतो यज्ञविभागस्तु यज्ञियौर्हे सुरैस्तथा ।। ३०.
वेदेषु विधियुक्तञ्च विधिहोत्रं महर्षिभिः। न शक्यमिह होमो वै तुल्यं कर्त्तुं कदाचन ।। ३०.