तस्य पुत्रा बभूवुर्हि षडिन्द्रोपमतेजसः। गन्धर्व्वलोके विदिता आयुर्द्धीमानमावसुः ।। २९.
विश्वायुश्च शतायुश्च गतायुश्चोर्वशीसुताः। अमावसोस्तु वै जातो भीमो राजाथ विश्वजित् ।। २९.
श्रीमान् भीमस्य दायादो राजासीत्काञ्चनप्रभः। विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ।। २९.
सुहोत्रस्याभज्जह्नुः केशिकागर्भसम्भवः। प्रतिगत्य ततो गङ्गा विततो यज्ञकर्म्मणि ।। २९.
प्लावयामास तं देशं भाविनोऽर्थस्य दर्शनात्। गङ्गया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ।। २९.
सौहोत्रिर्वरदः क्रुद्धो गङ्गां संरक्तलोचनः। अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ।। २९.
एतत्ते विफलं सर्व्वं पीतमम्भः करोम्यहम्। राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा सुरर्षयः ।। २९.
उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम्। यौवनाश्वस्य पौत्रीन्तु कावेरीञ्जह्नुरावहत् ।। २९.
युवनाश्वस्य शापेन गङ्गा येन विनिर्ममे । कावेरीं सरितां श्रेष्ठां जह्नुभार्य्यामनिन्दिताम् ।। २९.
जह्नुश्च दयितं पुत्रं सुहोत्रं नाम धार्मिकम्। कावेर्य्यां जनयामास अजकस्तस्य चात्मजः ।। २९.
अजकस्य तु दायादो बलाकाश्वो महायशाः। बभूवुश्च गयः शीलः कुशस्तस्यात्मजः स्मृतः ।। २९.
कुशपुत्रा बभूवुश्च चत्वारो वेदवर्चसः। कुशाश्वः कुशनाभश्च अमूर्त्तारयशोवसुः ।। २९.
कुशस्तम्बस्तपस्तेपे पुत्रार्थी राजसत्तमः। पूर्णे वर्षसहस्रे वै शतक्रतुमपश्यत ।। २९.
तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः। समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ।। २९.
पुत्रत्वं कल्पयामास स्वयमेव पुरन्दरः। गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ।। २९.
पौरुकुत्साभवद्भार्या गाधिस्तस्यामजायत। पूर्व्वं कन्यां महाभागां नाम्ना सत्यवतीं शुभाम्। तां गाधिपुत्रः काव्याय ऋचीकाय ददौ प्रभुः ।। २९.
तस्यां पुत्रस्तु वै भर्त्ता भार्गवो भृगुनन्दनः। पुत्रार्थे साधयामास चरुं गाधेस्तथैव च ।। २९.
तथा चाहूय सुधृतिऋचीको भार्गवस्तदा। उपयोज्यश्चरुरयं त्वया मात्रा च तेशुभे ।। २९.
तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः। अजेयः क्षत्रियैर्युद्धे क्षत्रियर्षभसूदनः ।। २९.
तवापि पुत्रं कल्याणि धृतिन्तं तपोधनम्। शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ।। २९.
एवमुक्त्वा तु तां भार्य्यामृचीको भृगुनन्दनः। तपस्याभिरतो नित्यमरण्यं प्रविवेश ह ।। २९.
गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात्। तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः ।। २९.
चरुद्वयं गृहीत्वा तु ऋषेः सत्यवती सदा। भर्त्तुर्वचनमव्यग्रा हृष्टा मात्रे न्यवेदयत् ।। २९.
माता तु तस्यै दैवेन दुहित्रे स्वं चरुं ददौ । तस्याश्चरुमथाज्ञानादात्मनः सा चकार ह ।। २९.
अथ सत्यवती गर्भं क्षत्रियान्तकरं शुभम्। धारयामास दीप्तेन वपुषा घोरदर्शना ।। २९.
तमृचीकस्ततो दृष्ट्वा योगेनाप्यनुमृश्य च। तदाब्रवीद्द्विजश्रेष्ठः स्वां भार्य्यां वरवर्णिनीम् ।। २९.
मातुः सिद्ध्यति ते भद्रे चरुव्यत्यासहेतुना। जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः ।। २९.
माता जनिष्यते वापि तथाभूतं तपोधनम् । विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् ।। २९.
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा। प्रसादयामास पतिं सुतो मे नेदृशो भवेत्। ब्राह्मणापसदस्त्वन्य इत्युक्तो मुनिरब्रवीत् ।। २९.
नैष सङ्कल्पितः कामो मया भद्रे तथा त्वया । उग्रकर्मा भवेत् पुत्रः पितुर्मातुश्च कारणात् ।। २९.