समयन्युत्क्रमात् सा वै राजानं त्यक्ष्यते यथा। तदहं वच्मि वः सर्वं यथा त्यक्ष्यति सा नृपम् ।। २९.
सहसा योगमेष्यामि युष्माकं कार्यसिद्धये। एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ।। २९.
स निशायामथागम्य मेषमेकं जहार वै। मातृवद्वर्त्तते सा तु मेषयोश्चारुहासिनी ।। २९.
गन्धर्वागमनं ज्ञात्वा शयनस्था यशस्विनी। राजानमब्रवीत्सा तु पुत्रो मे ह्रियतेति वै ।। २९.
एवमुक्तो विनिश्चित्य नग्नस्तिष्ठति वै नृपः । नग्नं द्रक्ष्यति मां देवी समयो वितथो भवेत् ।। २९.
ततो भूयस्तु गन्धर्व्वा द्वितीयं मेषमाददुः। द्वितीयेऽपहृते मेषे ऐलं देवी तमब्रवीत् ।। २९.
पुत्रौ मम हृतौ राजन्ननाथाया इव प्रभो। एवमुक्तस्तदोत्थाय नग्नो राजा प्रधावितः ।। २९.
मेषाबभ्यां पदवीं राजन् गन्धर्व्वैर्व्युत्थितामथ। उत्पादिता तु महती माया तद्भवनं महत् ।। २९.
प्रकाशितन्तु सहसा ततो नग्नमवेक्ष्य सा। नग्नं दृष्ट्वा तिरोऽभूत्सा अप्सरा कामरूपिणी ।। २९.
तिरोभूतान्तु तां ज्ञात्वा गन्धर्वास्तत्र तावुभौ। मेषौ त्यक्त्वा च ते सर्वे तत्रैवान्तर्हिताभवन् ।। २९.
उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतः प्रभुः। अपश्यंस्तां तु वै राजा विललाप सुदुःखितः ।। २९.
चचार पृथिवीं चैव मार्गमाणस्ततस्ततः। अथापश्यच्च तां राजा कुरुक्षेत्रे महाबलः ।। २९.
प्लक्षतीर्थे पुष्करिण्यां विगाढेनाम्बुनाप्लुताम्। क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् ।। २९.
अपश्यत्सा ततः सुभ्रू राजानमविदूरतः। उर्वशी ताः सखीः प्राह अयं स पुरुषोत्तमः ।। २९.
यस्मिन्नहमवात्सं हि दर्शयामास तं नृपम् । तत आविर्बभूवुस्ताः पञ्चचूडाप्सरास्तु ताः ।। २९.
दृष्ट्वा तु राजा तां प्रीतः प्रलापान् कुरुते बहून्। आयाहि तिष्ठ मनसा घोरे वचसि तिष्ठ हे ।। २९.
एवमादीनि सूक्ष्माणि परस्परमभाषत। उर्व्वशी त्वब्रवीच्चैलं सगर्भाहं त्वया प्रभो ।। २९.
संवत्सरात् कुमारस्ते भविता नव संशयः। निशामेकान्तु वै राजा ह्यवसत्तु तया सह ।। २९.
सम्प्रहृष्टो जगामाथ स्वपुरन्तु महायशाः। गते संवत्सरे राजा उर्व्वशीं पुनरागमत् ।। २९.
उषित्वा तु तया सार्द्धमेकरात्रं महामनाः। कामार्त्तश्चा ब्रवीद्दीनो भव नित्यं ममेति वै ।। २९.
उर्व्वश्यथाब्रवीच्चैलं गन्धर्वास्ते वरं ददुः। तं वृणीष्व महाराज ब्रूहि चैतांस्त्वमेव हि ।। २९.
वृणे नित्यं हि सालोक्यं गन्धर्वाणां महात्मनाम्। तथेत्युक्त्वा वरं वव्रे गन्धर्वाश्च तथास्त्विति ।। २९.
स्थालीमग्नेः पूरयित्वा गन्धर्व्वाश्च तमब्रुवन्। अनेन इष्ट्वा लोकन्तं प्राप्स्यसि त्वं नराधिप ।। २९.
तमादाय कुमारन्तु नगरायोपचक्रमे। निःक्षिप्य तमरण्याञ्च स पुत्रन्तु गृहं ययौ ।। २९.
पुनरादाय दृश्याग्निमश्वत्थं तत्र दृष्टवान्। समीपतस्तु तं दृष्ट्वा ह्यश्वत्थं तत्र विस्मितः ।। २९.
गन्धर्व्वेभ्यस्तथाख्यातुमग्निना गां गतस्तु सः । श्रुत्वा तमर्थमशिलमरणिं तु समादिशत् ।। २९.
अश्वत्थादरणिं कृत्वा मथित्वाग्निं यथाविधि। तेनेष्ट्वा तु सलोकं नः प्राप्स्यसि त्वं नराधिप। मथित्वाग्निं त्रिधा कृत्वा ह्ययजत्स नराधिपः ।। २९.
इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम्। वासाय च स गन्धर्व्वस्त्रेतायां स महारथः। एकोऽग्निः पूर्वमासीद्वै ऐलस्त्रींस्तानकल्पयत् ।। २९.
एवंप्रभावो राजासीदैलस्तु द्विजसत्तमाः। देशे पुण्यतमे चैव महर्षिभिरलंकृते ।। २९.
राज्यं स कारयामास प्रयागे पृथिवी पतिः। उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः ।। २९.