तस्य तत्पापशमनं चकारात्रिर्महायशाः। स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्व्वशः ।। २८.
एतत्सोमस्य वै जन्म कीर्त्तितं द्विजसत्तमाः। वंशन्तस्य द्विजश्रेष्ठाः कीर्त्यमानं निबोधत ।। २८.
धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम्। सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते ।। २८.
सूत उवाच ।। सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः। तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ।। २९.
ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः। आहर्त्ता चाग्निहोत्रस्य यज्वनाञ्च ददौ महीम् ।। २९.
सत्यवाक् कर्म्मबुद्धिश्च कान्तः संवृतमैथुनः। अतीव पुत्रो लोकेषु रूपेणाप्रतिमोऽभवत् ।। २९.
तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनम्। उर्वशी वरयामास हित्वा मानं यशस्विनी ।। २९.
तया सहावसद्राजा दशवर्षाणि चाष्ट च। सप्त षट् सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् ।। २९.
वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे। अलकायां विशालायां नन्दने च वनोत्तमे ।। २९.
गन्धमादनपादेषु मेरुश्रृङ्गे नगोत्तमे। उत्तरांश्च कुरून् प्राप्य कलापग्राममेव च ।। २९.
एतेषु वनसुख्येषु सुरैराचरितेषु च। उर्वश्या सहितो राजा रेमे परमया मुदा ।। २९.
ऋषय ऊचुः।। गन्धर्वा चोर्वशी देवी राजानं मानुषं कथम्। देवानुत्सृज्य सम्प्राप्ता तन्नो ब्रूहि बहुश्रुत ।। २९.
सूत उवाच।। ब्रह्मशापाभिभूता सा मानुषं समुपस्थिता। ऐलं तु तं वरारोहा समयेन व्यवस्थिता ।। २९.
आत्मनः शापमोक्षार्थं नियमं सा चकार तु । अनग्नदर्शनञ्चैव अकामात सह मैथुनम् ।। २९.
द्वौ मेषौ शयनाभ्याशे स तावद् व्यवतिष्ठते। घृतमात्रं तथाहारः कालमेकन्तु पार्थिव ।। २९.
यद्येष समयो राजन् यावत्कालञ्च ते दृढम्। तावत्कालन्तु वत्स्यामि एष नः समयः कृतः ।। २९.
तस्यास्तं समयं सर्वं स राजा पर्यपालयत्। एवं सा चावसत् तस्मिन् पुरूरवसि भामिनी ।। २९.
वर्षाण्यथ चतुःषष्टिं तद्भक्त्या शापमोहिता। उर्वशी मानुषं प्राप्ता गन्धर्व्वा श्चिन्तयान्विताः ।। २९.
गन्धर्व्वा ऊचुः। चिन्तयध्वं महाभागा यथा सा तु वराङ्गना। आगच्छेत्तु पुनर्द्देवानुर्वशी स्वर्गभूषणा ।। २९.
ततो विश्वावसुर्नाम तत्राह वदतां वरः। तया तु समयस्तत्र क्रियमाणो मतोऽनघः ।। २९.
समयन्युत्क्रमात् सा वै राजानं त्यक्ष्यते यथा। तदहं वच्मि वः सर्वं यथा त्यक्ष्यति सा नृपम् ।। २९.
सहसा योगमेष्यामि युष्माकं कार्यसिद्धये। एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ।। २९.
स निशायामथागम्य मेषमेकं जहार वै। मातृवद्वर्त्तते सा तु मेषयोश्चारुहासिनी ।। २९.
गन्धर्वागमनं ज्ञात्वा शयनस्था यशस्विनी। राजानमब्रवीत्सा तु पुत्रो मे ह्रियतेति वै ।। २९.
एवमुक्तो विनिश्चित्य नग्नस्तिष्ठति वै नृपः । नग्नं द्रक्ष्यति मां देवी समयो वितथो भवेत् ।। २९.
ततो भूयस्तु गन्धर्व्वा द्वितीयं मेषमाददुः। द्वितीयेऽपहृते मेषे ऐलं देवी तमब्रवीत् ।। २९.
पुत्रौ मम हृतौ राजन्ननाथाया इव प्रभो। एवमुक्तस्तदोत्थाय नग्नो राजा प्रधावितः ।। २९.
मेषाबभ्यां पदवीं राजन् गन्धर्व्वैर्व्युत्थितामथ। उत्पादिता तु महती माया तद्भवनं महत् ।। २९.
प्रकाशितन्तु सहसा ततो नग्नमवेक्ष्य सा। नग्नं दृष्ट्वा तिरोऽभूत्सा अप्सरा कामरूपिणी ।। २९.
तिरोभूतान्तु तां ज्ञात्वा गन्धर्वास्तत्र तावुभौ। मेषौ त्यक्त्वा च ते सर्वे तत्रैवान्तर्हिताभवन् ।। २९.