प्राप्यावभृथमव्यग्रः सर्व्वदेवर्षिपूजितः। अतिराजातिराजेन्द्रो दशधातापयद्दिशः ।। २८.
तदा तत् प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम्। स विभ्रममतिर्विप्रा विनये विनयो हतः ।। २८.
स याच्यमानो देवैश्च तथा देवर्षिभिश्च ह। नैव व्यसर्जयत्तारां तस्मायाङ्गिरसे तदा ।। २८.
उशनास्तस्य जग्राह पार्ष्णिमङ्गिरसो द्विजाः। स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः ।। २८.
तेन स्नेहेन भगवान् रुद्रस्तस्य बृहस्पतेः। पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याजगवन्धनुः ।। २८.
तेन ब्रह्मर्षिमुख्येभ्यः परमास्त्रं महात्मना। उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ।। २८.
तत्र तद्युद्धमभवत् प्रत्यक्षन्तारकामयम्। देवानां दानवानाञ्च लोकक्षयकरं महत् ।। २८.
तत्र शिष्टास्त्रयो देवास्तुषिताश्चैव ये स्मृताः। ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ।। २८.
ततो निवार्योशनसं रुद्रं ज्येष्ठञ्च शङ्करम्। ददावाङ्गिरसे तारां स्वयमेव पितामहः ।। २८.
अन्तर्वत्नीं च तां दृष्ट्वा तारान्ताराधिपाननाम्। गर्भमुत्सृजसे न त्वं विप्रः प्राह बृहस्पतिः ।। २८.
मदीयायां तनौ योनौ गर्भो धार्यः कथञ्चन। अथो नावसृजत्तन्तु कुमारं दस्युहन्तमम् ।। २८.
ईषिकास्तम्बमासाद्य ज्वलन्तमिव पावकम्। जातमात्रोऽथ भगवान् देवानामाक्षिपद्वपुः ।। २८.
ततः संशयमापन्नास्तारामकथयन् सुराः। सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ।। २८.
ह्रीयमाणा यदा देवान्नाह सा साध्वसाधु वा । तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ।। २८.
सन्निवार्य तदा ब्रह्मा तारां चन्द्रस्य संशयः। यदत्र तथ्यन्तद्ब्रूहि तारे कस्य सुतस्त्वयम् ।। २८.
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम्। सोमस्येति महात्मानं कुमारन्दस्युहन्तमम् ।। २८.
ततः स तमुपाघाय सोमो दाता प्रजापतिः। बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ।। २८.
प्रतिपूर्व्वञ्च गमने समभ्युत्तिष्ठते बुधैः। उत्पादयामास तदा पुत्रं वै राजपुत्रिका ।। २८.
तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः । उर्वश्यां जज्ञिरे तस्य पुत्राः षट् सुमहौजसः ।। २८.
प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा । ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः । जगाम शरणायाथ पितरं सोऽत्रिमेव तु ।। २८.
तस्य तत्पापशमनं चकारात्रिर्महायशाः। स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्व्वशः ।। २८.
एतत्सोमस्य वै जन्म कीर्त्तितं द्विजसत्तमाः। वंशन्तस्य द्विजश्रेष्ठाः कीर्त्यमानं निबोधत ।। २८.
धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम्। सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते ।। २८.
सूत उवाच ।। सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः। तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ।। २९.
ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः। आहर्त्ता चाग्निहोत्रस्य यज्वनाञ्च ददौ महीम् ।। २९.
सत्यवाक् कर्म्मबुद्धिश्च कान्तः संवृतमैथुनः। अतीव पुत्रो लोकेषु रूपेणाप्रतिमोऽभवत् ।। २९.
तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनम्। उर्वशी वरयामास हित्वा मानं यशस्विनी ।। २९.
तया सहावसद्राजा दशवर्षाणि चाष्ट च। सप्त षट् सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् ।। २९.
वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे। अलकायां विशालायां नन्दने च वनोत्तमे ।। २९.
गन्धमादनपादेषु मेरुश्रृङ्गे नगोत्तमे। उत्तरांश्च कुरून् प्राप्य कलापग्राममेव च ।। २९.