तं गर्भं विधिनादिष्टा दश देव्यो दधुस्तदा। समेत्य धारयामासुर्न च ताः समशक्नुवन् ।। २८.
स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः। यथावभासयंल्लोकाञ्झीतांशुः सर्वभावनः ।। २८.
यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः। ततः स ताभिः शीतांशुर्निपपात वसुन्धराम् ।। २८.
पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः। रथमारोपयामास लोकानां हितकाम्यया ।। २८.
स हि देवमयो विप्रा धर्म्मार्थी सत्यसङ्गरः। युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ।। २८.
तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि। तुष्टुवुर्ब्रह्मणः पुत्राः मानसाः सप्त विश्रुताः ।। २८.
तत्रैवाङ्गिरसस्तस्य भृगोश्चैवात्मजस्तथा। ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि ।। २८.
ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः। आप्यायमानं लोकांस्त्रीन् भावयामास सर्व्वशः ।। २८.
समेन रथमुख्येन सागरान्तां वसुन्धराम्। त्रिःसप्तकृत्वो विपुल श्चकाराभिप्रदक्षिणम् ।। २८.
तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत। ओषध्यस्ताः समुद्भूतास्तेजसा संज्वलन्त्युत ।। २८.
ताभिर्धार्यत्ययं लोकान् प्रजाश्चापि चतुर्विधाः। पोष्टा हि भगवान् सोमो जगतो हि द्विजोत्तमाः ।। २८.
स लब्धतेजास्तपसा संस्तवैस्तैश्च कर्म्मभिः। तपस्तेपे महाभागः पझानां दशतीर्दश ।। २८.
हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत्। विभुस्तासाम्भवेत्सोमः प्रख्यातः स्वेन कर्म्मणा ।। २८.
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः। बीजौषधिषु विप्राणामपाञ्च द्विजसत्तमाः ।। २८.
सोऽभिषिक्तो महातेजा महाराज्येन राजराट् । लोकानां भावयामास स्वभावात्तपतां वरः ।। २८.
सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः। ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ।। २८.
स तत्प्राप्य महद्राजयं सोमः सोमवतां प्रभुः। समाजज्ञे राजसूयं सहस्रशतदक्षिणम् ।। २८.
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान्। सदस्यस्तत्र भगवान् हरिर्नारायणः प्रभुः । सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ।। २८.
दक्षिणामददत्सोमस्त्रील्लोँकानिति नः श्रुतम्। तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः ।। २८.
तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभावसुः। कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ।। २८.
प्राप्यावभृथमव्यग्रः सर्व्वदेवर्षिपूजितः। अतिराजातिराजेन्द्रो दशधातापयद्दिशः ।। २८.
तदा तत् प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम्। स विभ्रममतिर्विप्रा विनये विनयो हतः ।। २८.
स याच्यमानो देवैश्च तथा देवर्षिभिश्च ह। नैव व्यसर्जयत्तारां तस्मायाङ्गिरसे तदा ।। २८.
उशनास्तस्य जग्राह पार्ष्णिमङ्गिरसो द्विजाः। स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः ।। २८.
तेन स्नेहेन भगवान् रुद्रस्तस्य बृहस्पतेः। पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याजगवन्धनुः ।। २८.
तेन ब्रह्मर्षिमुख्येभ्यः परमास्त्रं महात्मना। उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ।। २८.
तत्र तद्युद्धमभवत् प्रत्यक्षन्तारकामयम्। देवानां दानवानाञ्च लोकक्षयकरं महत् ।। २८.
तत्र शिष्टास्त्रयो देवास्तुषिताश्चैव ये स्मृताः। ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ।। २८.
ततो निवार्योशनसं रुद्रं ज्येष्ठञ्च शङ्करम्। ददावाङ्गिरसे तारां स्वयमेव पितामहः ।। २८.
अन्तर्वत्नीं च तां दृष्ट्वा तारान्ताराधिपाननाम्। गर्भमुत्सृजसे न त्वं विप्रः प्राह बृहस्पतिः ।। २८.