श्रृयन्ते हि तपःसिद्धाः क्षात्रोपेता द्विजातयः। विश्वामित्रो नरपतिर्मान्धाता संकृतिः कपिः ।। २९.
कपेश्च पुरुकुत्सश्च सत्यश्चानृहवानृथुः आर्ष्टिषेणोऽमीढश्च भागान्योन्यस्तथैव च ।। २९.
कक्षीवश्चैव शिजयस्तथान्ये च महारथाः। रथीतरश्च रुन्दश्च विष्णुवृद्धादयो नृपाः ।। २९.
क्षात्रोपेताः स्मृता ह्येते तपसा ऋषिताङ्गताः । एते राजर्षयः सर्व्वे सिद्धिं सुमहतीङ्गताः। अत ऊर्द्ध्वं प्रवक्ष्यामि अयोर्वंशं महात्मनः ।। २९.
उत्तरार्द्धम् -
सूत उवाच ।। पिता सोमस्य वैविप्रा जज्ञेऽत्रिर्भगवानृषिः। सोऽति तस्थौ सर्वलोकान्भगवान्त्स्वेन तेजसा ।। २८.
कर्मणा मनसा वाचा शुभान्येव समाचरन्। काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः ।। २८.
सुदुश्चरं नाम तपो येन तप्तं महत्पुरा। त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ।। २८.
तस्योर्द्ध्वरेतसस्तत्र स्थितस्यानिमिषस्पृहम्। सोमत्वन्तनुरापेदे महाबुद्धिः स वै द्विजः ।। २८.
ऊर्द्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः। सोमः सुस्राव नेत्राभ्यां दश वा द्योतयन् दिशः ।। २८.
तं गर्भं विधिनादिष्टा दश देव्यो दधुस्तदा। समेत्य धारयामासुर्न च ताः समशक्नुवन् ।। २८.
स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः। यथावभासयंल्लोकाञ्झीतांशुः सर्वभावनः ।। २८.
यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः। ततः स ताभिः शीतांशुर्निपपात वसुन्धराम् ।। २८.
पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः। रथमारोपयामास लोकानां हितकाम्यया ।। २८.
स हि देवमयो विप्रा धर्म्मार्थी सत्यसङ्गरः। युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ।। २८.
तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि। तुष्टुवुर्ब्रह्मणः पुत्राः मानसाः सप्त विश्रुताः ।। २८.
तत्रैवाङ्गिरसस्तस्य भृगोश्चैवात्मजस्तथा। ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि ।। २८.
ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः। आप्यायमानं लोकांस्त्रीन् भावयामास सर्व्वशः ।। २८.
समेन रथमुख्येन सागरान्तां वसुन्धराम्। त्रिःसप्तकृत्वो विपुल श्चकाराभिप्रदक्षिणम् ।। २८.
तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत। ओषध्यस्ताः समुद्भूतास्तेजसा संज्वलन्त्युत ।। २८.
ताभिर्धार्यत्ययं लोकान् प्रजाश्चापि चतुर्विधाः। पोष्टा हि भगवान् सोमो जगतो हि द्विजोत्तमाः ।। २८.
स लब्धतेजास्तपसा संस्तवैस्तैश्च कर्म्मभिः। तपस्तेपे महाभागः पझानां दशतीर्दश ।। २८.
हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत्। विभुस्तासाम्भवेत्सोमः प्रख्यातः स्वेन कर्म्मणा ।। २८.
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः। बीजौषधिषु विप्राणामपाञ्च द्विजसत्तमाः ।। २८.
सोऽभिषिक्तो महातेजा महाराज्येन राजराट् । लोकानां भावयामास स्वभावात्तपतां वरः ।। २८.
सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः। ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ।। २८.
स तत्प्राप्य महद्राजयं सोमः सोमवतां प्रभुः। समाजज्ञे राजसूयं सहस्रशतदक्षिणम् ।। २८.
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान्। सदस्यस्तत्र भगवान् हरिर्नारायणः प्रभुः । सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ।। २८.
दक्षिणामददत्सोमस्त्रील्लोँकानिति नः श्रुतम्। तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः ।। २८.
तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभावसुः। कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ।। २८.