अनागते भव्य इति शब्द एष विभाव्यते। तस्माद्भव्यो ह्यसौ लोको नामतस्तु दिवं स्मृतम् ।। ३.
स्वरित्युक्तं तृतीयोऽन्यो भाव्यो लोकस्तदाभवत्। भाव्य इत्येष धातुर्वै भाव्ये काले विभाव्यते ।। ३.
भूरितीयं स्मृता भूमिरन्तरिक्षं भुवं स्मृतम्। दिवं स्मृतं तथा भाव्यं त्रैलोक्यस्यैष संग्रहः ।। ३.
त्रैलोक्ययुक्तैर्व्याहारैस्तिस्रो व्याहृतयोऽभवन्। नाथ इत्येष धातुर्वै धातुज्ञैः पालने स्मृतः ।। ३.
यस्माद्भूतस्य लोकस्य भव्यस्य भवतस्तदा। लोकत्रयस्य नाथास्ते तस्मादिन्द्रा द्विजैः स्मृताः ।। ३.
प्रधानभूता देवेन्द्रा गुण भूतास्तथैव च। मन्वन्तरेषु ये देवा यज्ञभाजो भवन्ति हि ।। ३.
यक्षगन्धर्वरक्षांसि पिशाचोरगदानवाः। महिमानः स्मृता ह्येते देवन्द्राणान्तु सर्वशः ।। ३.
देवेन्द्रा गुरवो नाथा राजानः पितरो हि ते । रक्षन्तीमाः प्रजाः सर्वा धर्मेणेह सुरोत्तमाः ।। ३.
इत्येतल्लक्षणं प्रोक्तं देवेन्द्राणां समासतः। सप्तर्षीन् सम्प्रवक्ष्यामि साम्प्रतं ये दिवि स्थिताः ।। ३.
गाधिजः कौशिको धीमान् विश्वामित्रो महातपाः। भार्गवो जमदग्निश्च ऊरुपुत्रः प्रतापवान् ।। ३.
बृहस्पतिसुतश्चापि भारद्वाजो महातपाः। औतथ्यो गौतमो विद्वाञ्छरद्वान्नाम धार्मिकः ।। ३.
स्वायम्भुवोऽत्रिर्भगवान् ब्रह्मको शस्तु पञ्चमः। षष्ठो वासिष्ठपुत्रस्तु वसुमान् लोकविश्रुतः ।। ३.
वत्सारः काश्यपश्चैव सप्तैते साधुसम्मताः। एते सप्तर्षयः सिद्धा वर्त्तन्ते साम्प्रतेऽन्तरे ।। ३.
इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च। नरिष्यन्तश्च विख्यातो नाभ उद्दिष्ट एव च ।। ३.
करुषश्च पृषध्रश्च वसुमान्नवमः स्मृतः। मनोर्वैवस्तस्यैते नव पुत्राः प्रकीर्त्तिताः । कीर्त्तिता वै मया ह्येते सप्तमञ्चैतदन्तरम् ।। ३.
इत्येष वै मया पादो द्वितीयः कथितो द्विजाः। विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ।। ३.
श्रुत्वा पादं द्वितीयन्तु क्रान्तं सूतेन धीमता। अतस्तृतीयं पप्रच्छ पादं वै शांशपायनः ।। ४.
पाद क्रान्तो द्वितीयोऽयमनु षङ्गेण यस्त्वया। तृतीयं विस्तरात्पादं सोपोद्वातं प्रकीर्त्तय। एवमुक्तोऽब्रवीत्सूतः प्रहृष्टेनान्तरात्मना ।। ४.
कीर्त्तयिष्ये तृतीयञ्च सोपोद्वातं सविस्तरम्। पादं समुदयाद्विप्रा गदतो मे निबोधत ।। ४.
मनोर्वैवस्वतस्येमं साम्प्रतस्य महात्मनः। विस्तरेणानुपूर्व्या च निसर्गं श्रृणुत द्विजाः ।। ४.
चतुर्युगैकसप्तत्या सङ्ख्यातः पूर्वमेव तु। सह देवगणैश्चैव ऋषिभिर्दानवैः सह ।। ४.
पितृगन्धर्वयक्षैश्च रक्षोभूतगणैस्तथा। मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह ।। ४.
मन्वादिकं भविष्यान्तमाख्यानैर्बहुविस्तरम् । वक्ष्ये वैवस्वतं सर्गं नमस्कृत्य विवस्वते ।। ४.
आद्ये मन्वन्तरेऽतीताः सर्गाः प्रावर्त्तकाश्च ये। स्वायम्भुवेऽन्तरे पूर्वं सप्तासन् ये महर्षयः। चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ।। ४.
दक्षस्य च ऋषीणाञ्च भृग्वादीनां महौजसाम्। शापान्महेश्वरस्यासीत् प्रादुर्भावो महात्मनाम् ।। ४.
भूयः सप्तर्षयस्ते च उत्पन्नाः सप्त मानसाः। पुत्रत्वे कल्पिताश्चैव स्वयमेव स्वयम्भुवा ।। ४.
प्रजासन्तानकृद्भिस्तैरुत्पद्यद्भिर्महात्मभिः। पुनः प्रवर्त्तितः सर्गो यथापूर्वं यथाक्रमम् ।। ४.
तेषां प्रसूतिं वक्ष्यामि विशुद्धज्ञानकर्मणाम्। समासव्यासयोगाभ्यां यथावदनुपूर्वशः ।। ४.
येषामन्वयसम्भूतैर्लोकोऽयं सचराचरः। पुनः स पूरितः सर्गो ग्रह नक्षत्रमण्डितः ।। ४.
एतच्छ्रुत्वा वचस्तस्य मुनीनां संशयोऽभवत् । ततस्तं संशयाविष्टाः सूतं संशयनिश्चये। सत्कृत्य परिपप्रच्छुर्मुनयः शंसितव्रताः ।। ४.