विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवन्मुनिः। हरिश्चन्द्रस्य यज्ञे तु पशुत्वे नियुतः सवै। देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ।। २९.
विश्वामित्रस्य पुत्राणां शुनः शेफोऽग्रजः स्मृतः। मधुच्छन्दो नयश्चैव कृतदेवौ ध्रुवाष्टकौ ।। २९.
कच्छपः पूरणश्चैव विश्वामित्रसुतास्तु वै। तेषां गोत्राणि बहुधा कौशिकानां महात्मनाम् ।। २९.
पार्थिवा देवराताश्च याज्ञवल्क्या समर्षणाः । उदुम्बरा उदुम्लानास्तारका यममुञ्चताः ।। २९.
लोहिण्यो रेणवश्चैव तथा कारीषवः स्मृताः। बभ्रवः पाणिनश्चैव ध्यावजप्यास्तथैव च ।। २९.
शालावत्या हिरण्याक्षाः स्यङ्कृता गालवाः स्मृताः । देवला यामदूताश्च शालङ्कायनबाष्कलाः ।। २९.
ददाति बादराश्चान्ये विश्वामित्रस्य धीमतः। ऋष्यन्तरविवाङ्यास्ते बहवः शौशिकाः स्मृताः ।। २९.
कौशिकासोश्रुमाश्चैव तथान्ये सैधवायनाः। पौरोरवस्य पुण्यस्य ब्रह्मर्षेः कौशिकस्य तु ।। २९.
दृषद्वतीसुतश्चापि विश्वामित्रात्तथाष्टकः। अष्टकस्य सुतो यो हि प्रोक्तो जह्नुगणोमया ।। २९.
ऋषय ऊचुः ।। किं लक्षणेन धर्मेण तपसेह श्रुतेन वा। ब्राह्मण्यं समनुप्राप्तं विश्वामित्रादिभिर्नृपैः ।। २९.
येन योनाभिधा नेन ब्राह्मण्यं क्षत्रिया गताः । विशेषं ज्ञातुमिच्छामि तपसा दानतस्तथा ।। २९.
एवमुक्तस्ततो वाक्यमब्रवीदिदमर्थवत्। अन्यायोपगतैर्द्रव्यैराहृत्य यजने धिया। धर्माभिकांक्षी यजते न धर्मफलमश्नुते ।। २९.
धर्म्मं चैतं समाख्याय पापात्मा पुरुषाधमः। ददाति दानं विप्रेभ्यो लोकानां दम्भकारणात् ।। २९.
जपं कृत्वा तथा तीव्रं धनलोभान्निरङ्कुशः। रागमोहान्वितो ह्यन्ते पावनार्थं ददाति यः ।। २९.
तेन दत्तानि दानानि अफलानि भवन्त्युत। तस्य धर्म्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ।। २९.
एवं लब्ध्वा धनं मोहाद्ददतो यजतश्च ह। सक्लिष्टकर्मणो दानं न तिष्ठति दुरात्मनः ।। २९.
न्यायागतानां द्रव्याणां तीर्थे सम्प्रतिपादनम्। कामाननभिसन्धाय यजते च ददाति च ।। २९.
स दानफलमाप्नोति तच्च दानं सुखोदयम्। दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति ।। २९.
तपसा तु सुतप्तेन लोकान् विष्टभ्य तिष्ठति । विष्टभ्य स तु तेजस्वी लोकेष्वानन्त्यमश्नुते ।। २९.
दानाच्छ्रेयांस्तथा यज्ञो यज्ञाच्छ्रेयस्तथा तपः। संन्यासस्तपसः श्रेयांस्तस्माज्ज्ञानं गुरुः स्मृतम् ।। २९.
श्रृयन्ते हि तपःसिद्धाः क्षात्रोपेता द्विजातयः। विश्वामित्रो नरपतिर्मान्धाता संकृतिः कपिः ।। २९.
कपेश्च पुरुकुत्सश्च सत्यश्चानृहवानृथुः आर्ष्टिषेणोऽमीढश्च भागान्योन्यस्तथैव च ।। २९.
कक्षीवश्चैव शिजयस्तथान्ये च महारथाः। रथीतरश्च रुन्दश्च विष्णुवृद्धादयो नृपाः ।। २९.
क्षात्रोपेताः स्मृता ह्येते तपसा ऋषिताङ्गताः । एते राजर्षयः सर्व्वे सिद्धिं सुमहतीङ्गताः। अत ऊर्द्ध्वं प्रवक्ष्यामि अयोर्वंशं महात्मनः ।। २९.
उत्तरार्द्धम् -
सूत उवाच ।। पिता सोमस्य वैविप्रा जज्ञेऽत्रिर्भगवानृषिः। सोऽति तस्थौ सर्वलोकान्भगवान्त्स्वेन तेजसा ।। २८.
कर्मणा मनसा वाचा शुभान्येव समाचरन्। काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः ।। २८.
सुदुश्चरं नाम तपो येन तप्तं महत्पुरा। त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ।। २८.
तस्योर्द्ध्वरेतसस्तत्र स्थितस्यानिमिषस्पृहम्। सोमत्वन्तनुरापेदे महाबुद्धिः स वै द्विजः ।। २८.
ऊर्द्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः। सोमः सुस्राव नेत्राभ्यां दश वा द्योतयन् दिशः ।। २८.