तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः। समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ।। २९.
पुत्रत्वं कल्पयामास स्वयमेव पुरन्दरः। गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ।। २९.
पौरुकुत्साभवद्भार्या गाधिस्तस्यामजायत। पूर्व्वं कन्यां महाभागां नाम्ना सत्यवतीं शुभाम्। तां गाधिपुत्रः काव्याय ऋचीकाय ददौ प्रभुः ।। २९.
तस्यां पुत्रस्तु वै भर्त्ता भार्गवो भृगुनन्दनः। पुत्रार्थे साधयामास चरुं गाधेस्तथैव च ।। २९.
तथा चाहूय सुधृतिऋचीको भार्गवस्तदा। उपयोज्यश्चरुरयं त्वया मात्रा च तेशुभे ।। २९.
तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः। अजेयः क्षत्रियैर्युद्धे क्षत्रियर्षभसूदनः ।। २९.
तवापि पुत्रं कल्याणि धृतिन्तं तपोधनम्। शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ।। २९.
एवमुक्त्वा तु तां भार्य्यामृचीको भृगुनन्दनः। तपस्याभिरतो नित्यमरण्यं प्रविवेश ह ।। २९.
गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात्। तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः ।। २९.
चरुद्वयं गृहीत्वा तु ऋषेः सत्यवती सदा। भर्त्तुर्वचनमव्यग्रा हृष्टा मात्रे न्यवेदयत् ।। २९.
माता तु तस्यै दैवेन दुहित्रे स्वं चरुं ददौ । तस्याश्चरुमथाज्ञानादात्मनः सा चकार ह ।। २९.
अथ सत्यवती गर्भं क्षत्रियान्तकरं शुभम्। धारयामास दीप्तेन वपुषा घोरदर्शना ।। २९.
तमृचीकस्ततो दृष्ट्वा योगेनाप्यनुमृश्य च। तदाब्रवीद्द्विजश्रेष्ठः स्वां भार्य्यां वरवर्णिनीम् ।। २९.
मातुः सिद्ध्यति ते भद्रे चरुव्यत्यासहेतुना। जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः ।। २९.
माता जनिष्यते वापि तथाभूतं तपोधनम् । विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् ।। २९.
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा। प्रसादयामास पतिं सुतो मे नेदृशो भवेत्। ब्राह्मणापसदस्त्वन्य इत्युक्तो मुनिरब्रवीत् ।। २९.
नैष सङ्कल्पितः कामो मया भद्रे तथा त्वया । उग्रकर्मा भवेत् पुत्रः पितुर्मातुश्च कारणात् ।। २९.
पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदम्। इच्छँल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ।। २९.
शमात्मकमृजुं भर्त्तः पुत्रं मे दातुमर्हसि। काममेवंविधः पुत्रो मम स्यात्तु वद प्रभो ।। २९.
मय्यन्यथा न शक्यं वै कर्तुमेव द्विजोत्तम। ततः प्रसादमकरोत् स तस्यास्तपसो बलात् ।। २९.
पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि। त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ।। २९.
तस्मात् सत्यवती पुत्रं जनयामास भार्गवम्। तपस्यभिरतन्दान्तं जमदग्निः शमात्मकम् ।। २९.
भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा। यमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ।। २९.
विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः। प्राप्य ब्रह्मर्षिसहितो (सविता) जगाम ब्रह्मणावृतः ।। २९.
सा हि सत्यवती पुण्या सत्यव्रतपरायणा। कौशिकीति समाख्याता प्रवृत्तेयं महानदी ।। २९.
परिस्रुता महाभागा कौशिकी सरितां वरा। इक्ष्वाकुवंशे त्वभवत्सुवेणुर्नाम पार्थिवः ।। २९.
तस्य कन्या महाभागा कामली नाम रेणुका। रेणु कायान्तु कामल्यां तपोधृतिसमन्वितः। आर्चीको जनयामास जमदग्निः सुदारुणम् ।। २९.
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्। रामं क्षत्रिय हन्तारं प्रदीप्तमिव पावकम् ।। २९.
और्व्वस्यैवमृचीकस्य सत्यवत्यां महामनाः। जमदग्निस्ततो वीर्य्याज्जज्ञे ब्रह्मविदां वरः। मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः ।। २९.
विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः । जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्द्धनः ।। २९.