हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतित्वकः। प्रतित्वकस्य धर्मात्मा राजा कीर्त्तिरथः सुतः ।। २७.
पुत्रः कीर्त्तिरथस्यापि देवमीढ इति श्रुतः । देवमीढस्य विबुधो विबुधस्य सुतो धृतिः ।। २७.
महाधृतिसुतो राजा कीर्त्तिराजः प्रतापवान् । कीर्त्ति राजात्मजो विद्वान् महारोमेति विश्रुतः ।। २७.
महारोम्णस्तु विख्यातः स्वर्णरोमा व्यजायत। स्वर्णरोमात्मजश्चापि ह्रस्वरोमाभवनृपः ।। २७.
ह्रस्वरोमात्मजो विद्वान् सीरध्वज इति श्रुतिः। उद्भिन्ना कृषता येन सीता राज्ञा यशस्विनी। रामस्य महिषी साध्वी सुव्रतातिपतिव्रता ।। २७.
शांशपायन उवाच।। कथं सीता समुत्पन्ना कृष्यमाणा यशस्विनी। किमर्थञ्चाकृषद्राजा क्षेत्रं यस्मिन् बभूव ह ।। २७.
सूत उवाच।। अग्निक्षेत्रे कृष्यमाणे अश्वमेधे महात्मनः। विधिना सुप्रयुक्तेन तस्मात्सा तु समुत्थिता ।। २७.
सीरध्वजात्तु जातस्तु भानुमान्नाम मैथिलः। भ्राता कुशध्वजस्तस्य स काश्यधिपतिर्नृपः ।। २७.
तस्य भानुमतः पुत्रः प्रद्युम्नश्च प्रतापवान्। मुनिस्तस्य सुतश्चापि तस्मादूर्जवहः स्मृतः ।। २७.
ऊर्जवहात् सुतद्वाजः शकुनिस्तस्य चात्मजः। स्वागतः शकुनेः पुत्रः सुवर्च्चास्तत्सुतः स्मृतः ।। २७.
श्रुतो यस्तस्य दायादः सुश्रुतस्तस्य चात्मजः। सुश्रुतस्य जयः पुत्रो जयस्य विजयः सुतः ।। २७.
विजयस्य ऋतः पुत्र ऋतस्य सुनयः स्मृतः। सुनयाद्वीतहव्यस्तु वीतहव्यात्मजो धृतिः ।। २७.
धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः। तस्मिन् सन्तिष्टते वंशो जनकानां महात्मनाम्। इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ।। २७.
इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतमनुवंशकीर्त्तनं नाम सप्तविंशोऽध्यायः
वायूमहापुराणम् - उत्तरार्द्धम् -
दक्षिणामददत्सोमस्त्रील्लोँकानिति नः श्रुतम्। तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः ।। २८.
तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभावसुः। कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ।। २८.
प्राप्यावभृथमव्यग्रः सर्व्वदेवर्षिपूजितः। अतिराजातिराजेन्द्रो दशधातापयद्दिशः ।। २८.
स याच्यमानो देवैश्च तथा देवर्षिभिश्च ह। नैव व्यसर्जयत्तारां तस्मायाङ्गिरसे तदा ।। २८.
उशनास्तस्य जग्राह पार्ष्णिमङ्गिरसो द्विजाः। स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः ।। २८.
तेन स्नेहेन भगवान् रुद्रस्तस्य बृहस्पतेः। पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याजगवन्धनुः ।। २८.
तेन ब्रह्मर्षिमुख्येभ्यः परमास्त्रं महात्मना। उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ।। २८.
तत्र तद्युद्धमभवत् प्रत्यक्षन्तारकामयम्। देवानां दानवानाञ्च लोकक्षयकरं महत् ।। २८.
तत्र शिष्टास्त्रयो देवास्तुषिताश्चैव ये स्मृताः। ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ।। २८.
ततो निवार्योशनसं रुद्रं ज्येष्ठञ्च शङ्करम्। ददावाङ्गिरसे तारां स्वयमेव पितामहः ।। २८.
अन्तर्वत्नीं च तां दृष्ट्वा तारान्ताराधिपाननाम्। गर्भमुत्सृजसे न त्वं विप्रः प्राह बृहस्पतिः ।। २८.
मदीयायां तनौ योनौ गर्भो धार्यः कथञ्चन। अथो नावसृजत्तन्तु कुमारं दस्युहन्तमम् ।। २८.
ईषिकास्तम्बमासाद्य ज्वलन्तमिव पावकम्। जातमात्रोऽथ भगवान् देवानामाक्षिपद्वपुः ।। २८.
ततः संशयमापन्नास्तारामकथयन् सुराः। सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ।। २८.
ह्रीयमाणा यदा देवान्नाह सा साध्वसाधु वा । तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ।। २८.