अतीतानागता ये च वर्त्तन्ते ये च साम्प्रतम्। सर्वे मन्वन्तरेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ।। ३.
भूतभव्यभवन्नाथः सहस्राक्षः पुरन्दरः । मघवन्तश्च ते सर्वे श्रृङ्गिणो वज्रपाणयः। सर्वैः क्रतुशतेनेष्टं पृथक् शतगुणेन तु ।। ३.
त्रैलोक्ये यानि सत्त्वानि गतिमन्त्यबलानि च। अभिभूयावतिष्ठन्ते धर्माद्यैः कारणैरपि ।। ३.
तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः। भूतभव्यभवन्नाथा यथा ते प्रभविष्णवः। एतत्सर्वं प्रवक्ष्यामि ब्रुवतो मेनिबोधत ।। ३.
भूतं भव्यं भविष्यं तत् स्मृतं लोकत्रयं द्विजैः। भूर्लोकोऽयं स्मृतो भूमिरन्तरिक्षं भुवं स्मृतम् । भव्यं स्मृतं दिवं ह्येतत्तेषां वक्ष्यामि साधनम् ।। ३.
ध्यायता पुत्रकामेन ब्रह्मणाग्रे विभाषितम्। भूरिति व्याहृतं पूर्वं भूर्लोकोऽयमभूत्तदा ।। ३.
भूतेऽस्मिन् भवदित्युक्तं द्वितीयं ब्रह्मणा पुनः। भवत्वाद्दर्शनत्वाच्च भूर्लोकोऽयमभूत्ततः। अतोऽयं प्रथमो लोको भूतत्वाद्भूर्द्विजैः स्मृतः ।। ३.
भूतेऽस्मिन् भवदित्युक्तं द्वितीयं ब्रह्मणा पुनः। भवत्युत्पद्यमानेन कालशब्दोऽयमुच्यते ।। ३.
भवनात्तु भुवर्लोको निरुक्तज्ञैर्निरुच्यते। अन्तरिक्षं भुवस्तस्माद् द्वितीयो लोक उच्यते ।। ३.
उत्पन्ने तु भुवर्लोके तृतीयं ब्रह्मणा पुनः । भव्येति व्याहृतं यस्माद्भव्यो लोकस्तदाऽभवत् ।। ३.
अनागते भव्य इति शब्द एष विभाव्यते। तस्माद्भव्यो ह्यसौ लोको नामतस्तु दिवं स्मृतम् ।। ३.
स्वरित्युक्तं तृतीयोऽन्यो भाव्यो लोकस्तदाभवत्। भाव्य इत्येष धातुर्वै भाव्ये काले विभाव्यते ।। ३.
भूरितीयं स्मृता भूमिरन्तरिक्षं भुवं स्मृतम्। दिवं स्मृतं तथा भाव्यं त्रैलोक्यस्यैष संग्रहः ।। ३.
त्रैलोक्ययुक्तैर्व्याहारैस्तिस्रो व्याहृतयोऽभवन्। नाथ इत्येष धातुर्वै धातुज्ञैः पालने स्मृतः ।। ३.
यस्माद्भूतस्य लोकस्य भव्यस्य भवतस्तदा। लोकत्रयस्य नाथास्ते तस्मादिन्द्रा द्विजैः स्मृताः ।। ३.
प्रधानभूता देवेन्द्रा गुण भूतास्तथैव च। मन्वन्तरेषु ये देवा यज्ञभाजो भवन्ति हि ।। ३.
यक्षगन्धर्वरक्षांसि पिशाचोरगदानवाः। महिमानः स्मृता ह्येते देवन्द्राणान्तु सर्वशः ।। ३.
देवेन्द्रा गुरवो नाथा राजानः पितरो हि ते । रक्षन्तीमाः प्रजाः सर्वा धर्मेणेह सुरोत्तमाः ।। ३.
इत्येतल्लक्षणं प्रोक्तं देवेन्द्राणां समासतः। सप्तर्षीन् सम्प्रवक्ष्यामि साम्प्रतं ये दिवि स्थिताः ।। ३.
गाधिजः कौशिको धीमान् विश्वामित्रो महातपाः। भार्गवो जमदग्निश्च ऊरुपुत्रः प्रतापवान् ।। ३.
बृहस्पतिसुतश्चापि भारद्वाजो महातपाः। औतथ्यो गौतमो विद्वाञ्छरद्वान्नाम धार्मिकः ।। ३.
स्वायम्भुवोऽत्रिर्भगवान् ब्रह्मको शस्तु पञ्चमः। षष्ठो वासिष्ठपुत्रस्तु वसुमान् लोकविश्रुतः ।। ३.
वत्सारः काश्यपश्चैव सप्तैते साधुसम्मताः। एते सप्तर्षयः सिद्धा वर्त्तन्ते साम्प्रतेऽन्तरे ।। ३.
इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च। नरिष्यन्तश्च विख्यातो नाभ उद्दिष्ट एव च ।। ३.
करुषश्च पृषध्रश्च वसुमान्नवमः स्मृतः। मनोर्वैवस्तस्यैते नव पुत्राः प्रकीर्त्तिताः । कीर्त्तिता वै मया ह्येते सप्तमञ्चैतदन्तरम् ।। ३.
इत्येष वै मया पादो द्वितीयः कथितो द्विजाः। विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ।। ३.
श्रुत्वा पादं द्वितीयन्तु क्रान्तं सूतेन धीमता। अतस्तृतीयं पप्रच्छ पादं वै शांशपायनः ।। ४.
पाद क्रान्तो द्वितीयोऽयमनु षङ्गेण यस्त्वया। तृतीयं विस्तरात्पादं सोपोद्वातं प्रकीर्त्तय। एवमुक्तोऽब्रवीत्सूतः प्रहृष्टेनान्तरात्मना ।। ४.
कीर्त्तयिष्ये तृतीयञ्च सोपोद्वातं सविस्तरम्। पादं समुदयाद्विप्रा गदतो मे निबोधत ।। ४.
मनोर्वैवस्वतस्येमं साम्प्रतस्य महात्मनः। विस्तरेणानुपूर्व्या च निसर्गं श्रृणुत द्विजाः ।। ४.